श्रीलिङ्गमहापुराण -[पूर्वभाग] -085
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचासीवाँ अध्याय
पंचाक्षरी विद्या (पंचाक्षरमन्त्र), जपविधान तथा उसकी महिमा
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चाशीतितमोऽध्यायः
पञ्चाक्षरमाहात्म्यं
॥ सूत उवाच ॥
सर्वव्रतेषु सम्पूज्य देवदेवमुमापतिम् ।
जपेत् फञ्चाक्षरीं विद्यां विधिनैव द्विजोत्तमाः ॥ १ ॥
जपादेव न सन्देहो व्रतानां वै विशेषतः ।
समाप्तिर्नान्यथा तस्माज्जपेत्पञ्चाक्षरीं शुभाम् ॥ २ ॥
॥ ऋषय ऊचुः ॥
कथं पञ्चाक्षरी विद्या प्रभावो वा कथं वद ।
क्रमोपायं महाभाग श्रोतुं कौतूहलं हि नः ॥ ३ ॥
॥ सूत उवाच ॥
पुरा देवेन रुद्रेण देवदेवेन शम्भुना ।
पार्वत्याः कथितं पुण्यं प्रवदामि समासतः ॥ ४ ॥
॥ श्रीदेव्युवाच ॥
भगवन् देवदेवेश सर्वलोकमहेश्वर ।
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ५ ॥
॥ श्रीभगवानुवाच ॥
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ।
न शक्यं कथितुं देवि तस्मात् सङ्क्षेपतः शृणु ॥ ६ ॥
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरे चैव नष्टे चोरगराक्षसे ॥ ७ ॥
सर्वं प्रकृतिमापन्नं त्वया प्रलयमेष्यति ।
एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित् ॥ ८ ॥
तस्मिन्वेदाश्च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिताः ।
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ९ ॥
अहमेको द्विधाप्यासं प्रकृत्यात्मप्रभेदतः ।
स तु नारायणः शेते देवो मायामयीं तनुम् ॥ १० ॥
आस्थाय योगपर्यङ्क शयने तोयमध्यगः ।
तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ ११ ॥
सिसृक्षमाणो लोकान् वै त्रीनशक्तोऽसहायवान् ।
दश ब्रह्मा ससर्जादौ मानसानमितौजसः ॥ १२ ॥
तेषां सृष्टिप्रसिद्ध्यर्थं मां प्रोवाच पितामहः ।
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ १३ ॥
इति तेन समादिष्टः पञ्चवक्त्रधरो ह्यहम् ।
पञ्चाक्षरान् पञ्चमुखैः प्रोक्तवान् पद्मयोनये ॥ १४ ॥
तान् पञ्चवदनैर्गृह्णन् ब्रह्मा लोकपितामहः ।
वाच्यवाचकभावेन ज्ञातवान्परमेश्वरम् ॥ १५ ॥
वाच्यः पञ्चाक्षरैर्देवि शिवस्त्रैलोक्यपूजितः ।
वाचकः परमो मन्त्रस्तस्य पञ्चाक्षरः स्थितः ॥ १६ ॥
ज्ञात्वा प्रयोगं विधिना च सिद्धिं लब्ध्वा तथा पञ्चमुखो महात्मा ।
प्रोवाच पुत्रेषु जगद्धिताय मन्त्रं महार्थं किल पञ्चवर्णम् ॥ १७ ॥
ते लब्ध्वा मन्त्ररत्नं तु साक्षाल्लोकपितामहात् ।
तमाराधयितुं देवं परात्परतरं शिवम् ॥ १८ ॥
ततस्तुतोष भगवान् त्रिमूर्तीनां परः शिवः ।
दत्तवानखिलं ज्ञानमणिमादिगुणाष्टकम् ॥ १९ ॥
तेऽपि लब्ध्वा वरान् विप्रास्तदाराधनकाङ्क्षिणः ।
मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः ॥ २० ॥
मत्प्रियः सततं श्रीमान् मद्भूतैः परिरक्षितः ।
तस्याभ्याशे तपस्तीव्रं लोकसृष्टिसमुत्सुकाः ॥ २१ ॥
दिव्यवर्षसहस्रं तु वायुभक्षाः समाचरन् ।
तिष्ठन्तोऽनुग्रहार्थाय देवि ते ऋषयः पुरा ॥ २२ ॥
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ।
पञ्चाक्षरमृषिच्छन्दो दैवतं शक्तिबीजवत् ॥ २३ ॥
न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः ।
प्रोक्तवानहमार्याणां लोकानां हितकाम्यया ॥ २४ ॥
तच्छ्रुत्वा मन्त्रमाहात्म्यमृषयस्ते तपोधनाः ।
मन्त्रस्य विनियोगं च कृत्वा सर्वमनुष्ठिताः ॥ २५ ॥
तन्माहात्म्यात्तदा लोकान् सदेवासुरमानुषान् ।
वर्णान् वर्णविभागांश्च सर्वधर्मांश्च शोभनान् ॥ २६ ॥
पूर्वकल्पसमुद्भूताञ्छ्रुतवन्तो यथा पुरा ।
पञ्चाक्षरप्रभावाच्च लोका वेदा महर्षयः ॥ २७ ॥
तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत् ।
तदिदानीं प्रवक्ष्यामि शृणु चावहिताखिलम् ॥ २८ ॥
अल्पाक्षरं महार्थं च वेदसारं विमुक्तिदम् ।
आज्ञासिद्धमसन्दिग्धं वाक्यमेतच्छिवात्मकम् ॥ २९ ॥
नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम् ।
सुनिश्चितार्थं गम्भीरं वाक्यं मे पारमेश्वरम् ॥ ३० ॥
मन्त्रं मुखसुखोच्चार्यमशेषार्थप्रसाधकम् ।
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं सुशोभनम् ॥ ३१ ॥
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ।
वेदः स त्रिगुणातीतः सर्वज्ञः सर्वकृत् प्रभुः ॥ ३२ ॥
ओमित्येकाक्षरं मन्त्रं स्थितः सर्वगतः शिवः ।
मन्त्रे षडक्षरे सूक्ष्मे पञ्चाक्षरतनुः शिवः ॥ ३३ ॥
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ।
वाच्यः शिवः प्रमेयत्वान् मन्त्रस्तद्वाचकः स्मृतः ॥ ३४ ॥
वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः ।
वेदे शिवागमे वापि यत्र यत्र षडक्षरः ॥ ३५ ॥
मन्त्रः स्थितः सदा मुख्यो लोके पञ्चाक्षरो मतः ।
किं तस्य बहुभिर्मन्त्रैः शास्त्रैर्वा बहुविस्तृतैः ॥ ३६ ॥
यस्यैवं हृदि संस्थोऽयं मन्त्रः स्यात् पारमेश्वरः ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ ३७ ॥
यो विद्वान् वै जपेत् सम्यगधीत्यैव विधानतः ।
एतावद्धि शिवज्ञानमेतावत् परमं पदम् ॥ ३८ ॥
एतावद् ब्रह्मविद्या च तस्मान्नित्यं जपेद् बुधः ।
पञ्चाक्षरैः सप्रणवो मन्त्रोऽयं हृदयं मम ॥ ३९ ॥
गुह्याद्गुह्यतरं साक्षान्मोक्षज्ञानमनुत्तमम् ।
अस्य मन्त्रस्य वक्ष्यामि ऋषिच्छन्दोऽधिदैवतम् ॥ ४० ॥
बीजं शक्तिं स्वरं वर्णं स्थानं चैवाक्षरं प्रति ।
वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतः ॥ ४१ ॥
देवता शिव एवाहं मन्त्रस्यास्य वरानने ।
नकारादीनि बीजानि पञ्चभूतात्मकानि च ॥ ४२ ॥
आत्मानं प्रणवं विद्धि सर्वव्यापिनमव्ययम् ।
शक्तिस्त्वमेव देवेशि सर्वदेवनमस्कृते ॥ ४३ ॥
त्वदीयं प्रणवं किञ्चिन् मदीयं प्रणवं तथा ।
त्वदीयं देवि मन्त्राणां शक्तिभूतं न संशयः ॥ ४४ ॥
अकारोकारमकारा मदीये प्रणवे स्थिताः ।
उकारं च मकारं च अकारं च क्रमेण वै ॥ ४५ ॥
त्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तमम् ।
ओङ्कारस्य स्वरोदात्त ऋषिर्ब्रह्म सितं वपुः ॥ ४६ ॥
छन्दो देवी च गायत्री परमात्माधिदेवता ।
उदात्तः प्रथमस्तद्वच्चतुर्थश्च द्वितीयकः ॥ ४७ ॥
पञ्चमः स्वरितश्चैव मध्यमो निषधः स्मृताः ।
नकारः पीतवर्णश्च स्थानं पूर्वमुखं स्मृतम् ॥ ४८ ॥
इन्द्रोऽधिदैवतं छन्दो गायत्री गौतम ऋषिः ।
मकारः कृष्णवर्णोऽस्य स्थानं वै दक्षिणामुखम् ॥ ४९ ॥
छन्दोऽनुष्टुप् ऋषिश्चात्री रुद्रो दैवतमुच्यते ।
शिकारो धूम्रवर्णोऽस्य स्थानं वै पश्चिमं मुखम् ॥ ५० ॥
विश्वामित्र ऋषिस्त्रिष्टुप् छन्दो विष्णुस्तु दैवतम् ।
वाकारो हेमवर्णोऽस्य स्थानं चैवोत्तरं मुखम् ॥ ५१ ॥
ब्रह्माधिदैवतं छन्दो बृहती चाङ्गिरा ऋषिः ।
यकारो रक्तवर्णश्च स्थानमूर्ध्वं मुखं विराट् ॥ ५२ ॥
छन्द ऋषिर्भरद्वाजः स्कन्दो दैवतमुच्यते ।
न्यासमस्य प्रवक्ष्यामि सर्वसिद्धिकरं शुभम् ॥ ५३ ॥
सर्वपापहरं चैव त्रिविधो न्यास उच्यते ।
उत्पत्तिस्थितिसंहार भेदतस्त्रिविधः स्मृतः ॥ ५४ ॥
ब्रह्मचारिगृहस्थानां यतीनां क्रमशो भवेत् ।
उत्पत्तिर्ब्रह्मचारिणां गृहस्थानां स्थितिः सदा ॥ ५५ ॥
यतीनां संहृतिर्न्यासः सिद्धिर्भवति नान्यथा ।
अङ्गन्यासः करन्यासो देहन्यास इति त्रिधा ॥ ५६ ॥
उत्पत्त्यादित्रिभेदेन वक्ष्यते ते वरानने ।
न्यसेत्पूर्वं करन्यासं देहन्यासमनन्तरम् ॥ ५७ ॥
अङ्गन्यासं ततः पश्चादक्षराणां विधिक्रमात् ।
मूर्धादिपादपर्यन्तमुत्पत्तिन्यास उच्यते ॥ ५८ ॥
पादादिमूर्धपर्यन्तं संहारो भवति प्रिये ।
हृदयास्यगलन्यासः स्थितिन्यास उदाहृतः ॥ ५९ ॥
ब्रह्मचारिगृहस्थानां यतीनां चैव शोभने ।
सशिरस्कं ततो देहं सर्वमन्त्रेण संस्पृशेत् ॥ ६० ॥
स देहन्यास इत्युक्तः सर्वेषां सम एव स ।
दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्त एव हि ॥ ६१ ॥
न्यस्यते यत्तदुत्पत्तिर्विपरीतं तु संहृतिः ।
अङ्गुष्ठादिकनिष्ठान्तं न्यस्यते हस्तयोर्द्वयोः ॥ ६२ ॥
अतीव भोगदो देवि स्थितिन्यासः कुटुम्बिनाम् ।
करन्यासं पुरा कृत्वा देहन्यासमनन्तरम् ॥ ६३ ॥
अङ्गन्यासं न्यसेत् पश्चादेष साधारणो विधिः ।
ओङ्कारं सम्पुटीकृत्य सर्वाङ्गेषु च विन्यसेत् ॥ ६४ ॥
करयोरुभयोश्चैव दशाग्रांगङ्लिषु क्रमात् ।
प्रक्षाल्य पादावाचम्य शुचिर्भूत्वा समाहितः ॥ ६५ ॥
प्राङ्मुखोदङ्मुखो वापि न्यासकर्म समाचरेत् ।
स्मरेत् पूर्वमृषिं छन्दो दैवतं बीजमेव च ॥ ६६ ॥
शक्तिं च परमात्मानं गुरुं चैव वरानने ।
मन्त्रेण पाणी सम्मृज्य तलयोः प्रणवं न्यसेत् ॥ ६७ ॥
अङ्गुलीनां च सर्वेषां तथा चाद्यन्तपर्वसु ।
सबिन्दुकानि बीजानि पञ्च मध्यमपर्वसु ॥ ६८ ॥
उत्पत्त्यादित्रिभेदेन न्यसेदाश्रमतः क्रमात् ।
उभाभ्यामेव पाणिभ्यामापादतलमस्तकम् ॥ ६९ ॥
मन्त्रेण संस्पृशेद्देहं प्रणवेनैव सम्पुटम् ।
मूर्ध्नि वक्त्रे च कण्ठे च हृदये गुह्यके तथा ॥ ७० ॥
पादयोरुभयोश्चैव गुह्ये च हृदये तथा ।
कण्ठे च मुखमध्ये च मूर्ध्नि च प्रणवादिकम् ॥ ७१ ॥
हृदये गुह्यके चैव पादयोर्मूर्ध्नि वाचि वा ।
कण्ठे चैव न्यसेदेव प्रणवादित्रिभेदतः ॥ ७२ ॥
कृत्वाङ्गन्यासमेवं हि मुखानि परिकल्पयेत् ।
पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथाक्रमम् ॥ ७३ ॥
षडङ्गानि न्यसेत् पश्चाद्यथास्थानं च शोभनम् ।
नमः स्वाहा वषड्ढुं च वौषट्फट्कारकैः सह ॥ ७४ ॥
प्रणवं हृदयं विद्यान्नकारः शिर उच्यते ।
शिखा मकार आख्यातः शिकारः कवचं तथा ॥ ७५ ॥
वाकारो नेत्रमस्त्रं तु यकारः परिकीर्तितः ।
इत्थमङ्गानि विन्यस्य ततो वै बन्धयेद्दिशः ॥ ७६ ॥
विघ्नेशो मातरो दुर्गा क्षेत्रज्ञो देवता दिशः ।
आग्नेयादिषु कोणेषु चतुर्ष्वपि यथाक्रमम् ॥ ७७ ॥
अङ्गुष्ठतर्जन्यग्राभ्यां संस्थाप्य सुमुखं शुभम् ।
रक्षध्वमिति चोक्त्वा तु नमस्कुर्यात् पृथक् पृथक् ॥ ७८ ॥
गले मध्ये तथाङ्गुष्ठे तर्जन्याद्याङ्गुलीषु च ।
अङ्गुष्ठेन करन्यासं कुर्यादेव विचक्षणः ॥ ७९ ॥
एवं न्यासमिमं प्रोक्तं सर्वपापहरं शुभम् ।
सर्वसिद्धिकरं पुण्यं सर्वरक्षाकरं शिवम् ॥ ८० ॥
न्यस्ते मन्त्रेऽथ सुभगे शङ्करप्रतिमो भवेत् ।
जन्मान्तरकृतं पापमपि नश्यति तत्क्षणात् ॥ ८१ ॥
एवं विन्यस्य मेधावी शुद्धकायो दृढव्रतः ।
जपेत् पञ्चाक्षरं मन्त्रं लब्ध्वाचार्यप्रसादतः ॥ ८२ ॥
अतः परं प्रवक्ष्यामि मन्त्रसङ्ग्रहणं शुभे ।
यं विना निष्फलं नित्यं येन वा सफलं भवेत् ॥ ८३ ॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनममानसम् ।
आज्ञप्तं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ८४ ॥
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं सुमानसम् ।
एवं च दक्षिणासिद्धं मन्त्रं सिद्धं यतस्ततः ॥ ८५ ॥
उपागम्य गुरुं विप्रं मन्त्रतत्त्वार्थवेदिनम् ।
ज्ञानिनं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ८६ ॥
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ।
वाचा च मनसा चैव कायेन द्रविणेन च ॥ ८७ ॥
आचार्यं पूजयेच्छिष्यः सर्वदातिप्रयत्नतः ।
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ८८ ॥
भूषणानि च वासांसि धान्यानि विविधानि च ।
एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ८९ ॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ।
पश्चान्निवेदयेद्देवि आत्मानं सपरिच्छदम् ॥ ९० ॥
एवं सम्पूज्य विधिवद्यथाशक्ति त्ववञ्चयन् ।
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु ॥ ९१ ॥
एवं तुष्टो गुरुः शिष्यं पूजितं वत्सरोषितम् ।
शुश्रूषुमनहङ्कारमुपवासकृशं शुचिम् ॥ ९२ ॥
स्नापयित्वा तु शिष्याय ब्राह्मणानपि पूज्य च ।
समुद्रतीरे नद्यां च गोष्ठे देवालयेऽपि वा ॥ ९३ ॥
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ।
नक्षत्रे शुभयोगे च सर्वदा दोषवर्जिते ॥ ९४ ॥
अनुगृह्य ततो दद्याच्छिवज्ञानमनुत्तमम् ।
स्वरेणोच्चारयेत् सम्यगेकान्तेऽपि प्रसन्नधीः ॥ ९५ ॥
उच्चार्योच्चारयित्वा तु आचार्यः सिद्धिदः स्वयम् ।
शिवं चास्तु शुभं चास्तु शोभनोऽस्तु प्रियोऽस्त्विति ॥ ९६ ॥
एवं लब्ध्वा परं मन्त्रं ज्ञानं चैव गुरोस्ततः ।
जपेन्नित्यं ससङ्कल्पं पुरश्चरणमेव च ॥ ९७ ॥
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ।
अनश्नंस्तत्परो भूत्वा स याति परमां गतिम् ॥ ९८ ॥
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ।
नक्ताशी संयमी यश्च पौरश्चरणिकः स्मृतः ॥ ९९ ॥
पुरश्चरणजापी वा अपि वा नित्यजापकः ।
अचिरात् सिद्धिकाङ्क्षी तु तयोरन्यतरो भवेत् ॥ १०० ॥
यः पुरश्चरणं कृत्वा नित्यजापी भवेन्नरः ।
तस्य नास्ति समो लोके स सिद्धः सिद्धिदो वशी ॥ १०१ ॥
आसनं रुचिरं बद्ध्वा मौनी चैकाग्रमानसः ।
प्राङ्मुखोदङ्मुखो वापि जपेन्मन्त्रमनुत्तमम् ॥ १०२ ॥
आद्यान्तयोर्जपस्यापि कुर्याद्वै प्राणसंयमान् ।
तथा चान्ते जपेद्बीजं शतमष्टोत्तरं शुभम् ॥ १०३ ॥
चत्वारिंशत् समावृत्ति प्राणानायम्य संस्मरेत् ।
पञ्चाक्षरस्य मन्त्रस्य प्राणायाम उदाहृतः ॥ १०४ ॥
प्राणायामाद्भवेत्क्षिप्रं सर्वपापपरिक्षयः ।
इन्द्रियाणां वशित्वं च तस्मात् प्राणांश्च संयमेत् ॥ १०५ ॥
गृहे जपः समं विद्याद्गोष्ठे शतगुणं भवेत् ।
नद्यां शतसहस्रं तु अनन्तः शिवसन्निधौ ॥ १०६ ॥
समुद्रतीरे देवह्रदे गिरौ देवालयेषु च ।
पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ॥ १०७ ॥
शिवस्य सन्निधाने च सूर्यस्याग्रे गुरोरपि ।
दीपस्य गोर्जलस्यापि जपकर्म प्रशस्यते ॥ १०८ ॥
अङ्गुलीजपसंख्यानमेकमेकं शुभानने ।
रेखैरष्टगुणं प्रोक्तं पुत्रजीवफलैर्दश ॥ १०९ ॥
शतं वै शङ्खमणिभिः प्रवालैश्च सहस्रकम् ।
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ११० ॥
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणमुच्यते ॥ १११ ॥
पञ्चविंशति मोक्षार्थं सप्तविंशति पौष्टिकम् ।
त्रिंशच्च धनसम्पत्त्यै पञ्चाशच्चाभिचारिकम् ॥ ११२ ॥
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ।
पश्चिमं धनदं विद्यादुत्तरं शान्तिकं भवेत् ॥ ११३ ॥
अङ्गुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशनी ।
मध्यमा धनदा शान्तिं करोत्येषा ह्यनामिका ॥ ११४ ॥
कनिष्ठा रक्षणीया सा जपकर्मणि शोभने ।
अङ्गुष्ठेन जपेज्जप्यमन्यैरङ्गुलिभिः सह ॥ ११५ ॥
अङ्गुष्ठेन विना कर्म कृतं तदफलं यतः ।
शृणुष्व सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते ॥ ११६ ॥
हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया ।
यावन्तः कर्मयज्ञाः स्युः प्रदानानि तपांसि च ॥ ११७ ॥
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ।
माहात्म्यं वाचिकस्यैव जपयज्ञस्य कीर्तितम् ॥ ११८ ॥
तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः ।
यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥ ११९ ॥
मन्त्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः ।
शनैरुच्चारयेन् मन्त्रमीषदोष्ठौ तु चालयेत् ॥ १२० ॥
किञ्चित्कर्णान्तरं विद्यादुपांशुः स जपः स्मृतः ।
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात् पदम् ॥ १२१ ॥
शब्दार्थं चिन्तयेद्भूयः स तूक्तो मानसो जपः ।
त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ॥ १२२ ॥
भवेद्यज्ञविशेषेण वैशिष्ट्यं तत्फलस्य च ।
जपेन देवता नित्यं स्तूयमाना प्रसीदति ॥ १२३ ॥
प्रसन्ना विपुलान् भोगान् दद्यान् मुक्तिं च शाश्वतीम् ।
यक्षरक्षःपिशाचाश्च ग्रहाः सर्वे च भीषणाः ।
जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥ १२४ ॥
जपेन पापं शमयेदशेषं यत्तत्कृतं जन्मपरम्परासु ।*
जपेन भोगान् जयते च मृत्युं जपेन सिद्धिं लभते च मुक्तिम् ॥ १२५ ॥*
एवं लब्ध्वा शिवं ज्ञानं ज्ञात्वा जपविधिक्रमम् ॥ १२६ ॥
सदाचारी जपन्नित्यं ध्यायन् भद्रं समश्नुते ।
सदाचारं प्रवक्ष्यामि सम्यग्धर्मस्य साधनम् ॥ १२७ ॥
यस्मादाचारहीनस्य साधनं निष्फलं भवेत् ।
आचारः परमो धर्म आचारः परमं तपः ॥ १२८ ॥
आचारः परमा विद्या आचारः परमा गतिः ।
सदाचारवतां पुंसां सर्वत्राप्यभयं भवेत् ॥ १२९ ॥
तद्वदाचारहीनानां सर्वत्रैव भयं भवेत् ।
सदाचारेण देवत्वमृषित्वं च वरानने ॥ १३० ॥
उपयान्ति कुयोनित्वं तद्वदाचारलङ्घनात् ।
आचारहीनः पुरुषो लोके भवति निन्दितः ॥ १३१ ॥
तस्मात्संसिद्धिमन्विच्छन् सम्यगाचारवान् भवेत् ।
दुर्वृत्तः शुद्धिभूयिष्ठः पापीयान् ज्ञानदूषकः ॥ १३२ ॥
वर्णाश्रमविधानोक्तं धर्मं कुर्वीत यत्नतः ॥ १३३ ॥
यस्य यद्विहितं कर्म तत्कुर्वन्मत् प्रियः सदा ।
संध्योपासनशीलः स्यात् सायं प्रातः प्रसन्नधीः ॥ १३४ ॥
उदयास्तमयात्पूर्वमारम्य विधिना शुचिः ।
कामान्मोहाद्भयाल्लोभात्सन्ध्यां नातिक्रमेद् द्विजः ॥ १३५ ॥
सन्ध्यातिक्रमणाद्विप्रो ब्राह्मण्यात्पतते यतः ।
असत्यं न वदेत् किञ्चिन्न सत्यं च परित्यजेत् ॥ १३६ ॥
यत्सत्यं ब्रह्म इत्याहुरसत्यं ब्रह्मदूषणम् ।
अनृतं परुषं शाठ्यं पैशुन्यं पापहेतुकम् ॥ १३७ ॥
परदारान् परद्रव्यं परहिंसां च सर्वदा ।
क्वचिच्चापि न कुर्वीत वाचा च मनसा तथा ॥ १३८ ॥
शूद्रान्नं यातयामान्नं नैवेद्यं श्राद्धमेव च ।
गणान्नं समुदायान्नं राजान्नं च विवर्जयेत् ॥ १३९ ॥
अन्नशुद्धौ सत्त्वशुद्धिर्न मृदा न जलेन वै ।
सत्त्वशुद्धौ भवेत् सिद्धिस्ततोऽन्नं परिशोधयेत् ॥ १४० ॥
राजप्रतिग्रहैर्दग्धान् ब्राह्मणान् ब्रह्मवादिनः ।
स्विन्नानामपि बीजानां पुनर्जन्म न विद्यते ॥ १४१ ॥
राजप्रतिग्रहो घोरो बुद्ध्वा चादौ विषोपमः ।
बुधेन परिहर्तव्यः श्वमांसं चापि वर्जयेत् ॥ १४२ ॥
अस्नात्वा न च भुञ्जीयादजपोऽग्निमपूज्य च ।
पर्णपृष्ठे न भुञ्जीयाद्रात्रौ दीपं विना तथा ॥ १४३ ॥
भिन्नभाण्डे च रथ्यायां पतितानां च सन्निधौ ।
शूद्रशेषं न भुञ्जीयात्सहान्नं शिशुकैरपि ॥ १४४ ॥
शुद्धान्नं स्निग्धमश्नीयात्संस्कृतं चाभिमन्त्रितम् ।
भोक्ता शिव इति स्मृत्वा मौनी चैकाग्रमानसः ॥ १४५ ॥
आस्येन न पिबेत्तोयं तिष्ठन्नञ्जलिनापि वा ।
वामहस्तेन शय्यायां तथैवान्यकरेण वा ॥ १४६ ॥
विभीतकार्ककारञ्ज स्नुहिच्छायां न चाश्रयेत् ।
स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा ॥ १४७ ॥
एको न गच्छेदध्वानं बाहुभ्यां नोत्तरेन्नदीम् ।
नावरोहेत कूपादिं नारोहेदुच्चपादपान् ॥ १४८ ॥
सूर्याग्निजलदेवानां गुरूणां विमुखः शुभे ।
न कुर्यादिह कार्याणि जपकर्म शुभानि वा ॥ १४९ ॥
अग्नौ न तापयेत् पादौ हस्तं पद्भ्यां न संस्पृशेत् ।
अग्नेर्नोच्छ्रयमासीत नाग्नौ किञ्चिन्मलं त्यजेत् ॥ १५० ॥
न जलं ताडयेत् पद्भ्यां नाम्भस्यङ्गमलं त्यजेत् ।
मलं प्रक्षालयेत्तीरे प्रक्षाल्य स्नानमाचरेत् ॥ १५१ ॥
नखाग्रकेशनिर्धूत स्नानवस्त्रघटोदकम् ।
अश्रीकरं मनुष्याणामशुद्धं संस्पृशेद्यदि ॥ १५२ ॥
अजाश्वानखुरोष्ट्राणां मार्जनात्तुषरेणुकान् ।
संस्पृशेद्यदि मूढात्मा श्रियं हन्ति हरेरपि ॥ १५३ ॥
मार्जारश्च गृहे यस्य सोऽप्यन्त्यजसमो नरः ।
भोजयेद्यस्तु विप्रेन्द्रान् मार्जारसन्निधौ यदि ॥ १५४ ॥
तच्चाण्डालसमं ज्ञेयं नात्र कार्या विचारणा ।
स्फिग्वातं शूर्पवातं च वातं प्राणमुखानिलम् ॥ १५५ ॥
सुकृतानि हरन्त्येते संस्पृष्टाः पुरुषस्य तु ।
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो मलावृतः ॥ १५६ ॥
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत्क्वचित् ।
क्रोधो मदः क्षुधा तन्द्रा निष्ठीवनविजृम्भणे ॥ १५७ ॥
श्वनीचदर्शनं निद्रा प्रलापास्ते जपद्विषः ।
एतेषां सम्भवे वापि कुर्यात् सूर्यादिदर्शनम् ॥ १५८ ॥
आचम्य वा जपेच्छेषं कृत्वा वा प्राणसंयमम् ।
सूर्योऽग्निश्चन्द्रमाश्चैव ग्रहनक्षत्रतारकाः ॥ १५९ ॥
एते ज्योतींषि प्रोक्तानि विद्वद्भिर्ब्राह्मणैस्तथा ।
प्रसार्य पादौ न जपेत् कुक्कुटासन एव च ॥ १६० ॥
अनासनः शयानो वा रथ्यायां शूद्रसन्निधौ ।
रक्तभूम्यां च खट्वायां न जपेज्जापकस्तथा ॥ १६१ ॥
आसनस्थो जपेत् सम्यक् मन्त्रार्थगतमानसः ।
कौशेयं व्याघ्रचर्मं वा चैलं तौलमथापि वा ॥ १६२ ॥
दारवं तालपर्णं वा आसनं परिकल्पयेत् ।
त्रिसन्ध्यं तु गुरोः पूजा कर्तव्या हितमिच्छता ॥ १६३ ॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ १६४ ॥
शिवविद्या गुरोस्तस्माद् भक्त्या च सदृशं फलम् ।
सर्वदेवमयो देवि सर्वशक्तिमयो हि सः ॥ १६५ ॥
सगुणो निर्गुणो वापि तस्याज्ञां शिरसा वहेत् ।
श्रेयोऽर्थी यस्तु गुर्वाज्ञां मनसापि न लङ्घयेत् ॥ १६६ ॥
गुर्वाज्ञापालकः सम्यक् ज्ञानसम्पत्तिमश्नुते ।
गच्छंस्तिष्ठन् स्वपन् भुञ्जन् यद्यत्कर्म समाचरेत् ॥ १६७ ॥
समक्षं यदि तत्सर्वं कर्तव्यं गुर्वनुज्ञया ।
गुरोर्देवसमक्षं वा न यथेष्टासनो भवेत् ॥ १६८ ॥
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ।
पापिना च यथासङ्गात्तत्पापैः पतनं भवेत् ॥ १६९ ॥
तद्वदाचार्यसङ्गेन तद्धर्मफलभाग्भवेत् ।
यथैव वह्निसम्पर्कान्मलं त्यजति काञ्चनम् ॥ १७० ॥
तथैव गुरुसम्पर्कात् पापं त्यजति मानवः ।
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ १७१ ॥
तथा पापं विलीयेत आचार्यस्य समीपतः ।
यथा प्रज्वलितो वह्निर्विष्ठां काष्ठं च निर्दहेत् ॥ १७२ ॥
गुरुस्तुष्टो दहत्येवं पापं तन्मन्त्रतेजसा ।
ब्रह्मा हरिस्तथा रुद्रो देवाश्च मुनयस्तथा ॥ १७३ ॥
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ।
कर्मणा मनसा वाचा गुरोः क्रोधं न कारयेत् ॥ १७४ ॥
तस्य क्रोधेन दह्यन्ते आयुःश्रीज्ञानसत्क्रियाः ।
तत्क्रोधं ये करिष्यन्ति तेषां यज्ञाश्च निष्फलाः ॥ १७५ ॥
जपान्यनियमाश्चैव नात्र कार्या विचारणा ।
गुरोर्विरुद्धं यद्वाक्यं न वदेत् सर्वयत्नतः ॥ १७६ ॥
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ।
चित्तेनैव च वित्तेन तथा वाचा च सुव्रताः2
॥ १७७ ॥
मिथ्या न कारयेद्देवि क्रियया च गुरोः सदा ।
दुर्गुणे ख्यापिते तस्य नैर्गुण्यशतभाग्भवेत् ॥ १७८ ॥
गुणे तु ख्यापिते तस्य सार्वगुण्यफलं भवेत् ।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ १७९ ॥
असमक्षं समक्षं वा गुरोः कार्यं समाचरेत् ।
गुरोर्हितं प्रियं कुर्यान् मनोवाक् कायकर्मभिः ॥ १८० ॥
कुर्वन् पतत्यधो गत्वा तत्रैव परिवर्तते ।
तस्मात्स सर्वदोपास्यो वन्दनीयश्च सर्वदा ॥ १८१ ॥
समीपस्थोऽप्यनुज्ञाप्य वदेत्तद्विमुखो गुरुम् ।
एवमाचारवान् भक्तो नित्यं जपपरायणः ॥ १८२ ॥
गुरुप्रियकरो मन्त्रं विनियोक्तुं ततोऽर्हति ।
विनियोगं प्रवक्ष्यामि सिद्धमन्त्रप्रयोजनम् ॥ १८३ ॥
दौर्बल्यं याति तन्मन्त्रं विनियोगमजानतः ।
यस्य येन वियुञ्जीत कार्येण तु विशेषतः ॥ १८४ ॥
विनियोगः स विज्ञेय ऐहिकामुष्मिकं फलम् ।
विनियोगजमायुष्यमारोग्यं तनुनित्यता ॥ १८५ ॥
राज्यैश्वर्यं च विज्ञानं स्वर्गो निर्वाण एव च ।
प्रोक्षणं चाभिषेकं च अघमर्षणमेव च ॥ १८६ ॥
स्नाने च सन्ध्ययोश्चैव कुर्यादेकादशेन वै ।
शुचिः पर्वतमारुह्य जपेल्लक्षमतन्द्रितः ॥ १८७ ॥
महानद्यां द्विलक्षं तु दीर्घमायुरवाप्नुयात् ।
दूर्वाङ्कुरास्तिला वाणी गुडूची घुटिका तथा ॥ १८८ ॥
तेषां तु दशसाहस्रं होममायुष्यवर्धनम् ।
अश्वत्थवृक्षमाश्रित्य जपेल्लक्षद्वयं सुधीः ॥ १८९ ॥
शनैश्चरदिने स्पृष्ट्वा दीर्घायुष्यं लभेन्नरः ।
शनैश्चरदिनेऽश्वत्थं पाणिभ्यां संस्पृशेत् सुधीः ॥ १९० ॥
जपेदष्टोत्तरशतं सोऽपमृत्युहरो भवेत् ।
आदित्याभिमुखो भूत्वा जपेल्लक्षमनन्यधीः ॥ १९१ ॥
अर्कैरष्टशतं जप्त्वा जुह्वन् व्याधेर्विमुच्यते ।
समस्तव्याधिशान्त्यर्थं पलाशसमिधैर्नरः ॥ १९२ ॥
हुत्वा दशसहस्रं तु निरोगी मनुजो भवेत् ।
नित्यमष्टशतं जप्त्वा पिबेदम्भोऽर्कसन्निधौ ॥ १९३ ॥
औदर्यैर्व्याधिभिः सर्वैर्मासेनैकेन मुच्यते ।
एकादशेन भुञ्जीयादन्नं चैवाभिमन्त्रितम् ॥ १९४ ॥
भक्ष्यं चान्यत्तथा पेयं विषमप्यमृतं भवेत् ।
जपेल्लक्षं तु पूर्वाह्णे हुत्वा चाष्टशतेन वै ॥ १९५ ॥
सूर्यं नित्यमुपस्थाय सम्यगारोग्यमाप्नुयात् ।
नदीतोयेन सम्पूर्णं घटं संस्पृश्य शोभनम् ॥ १९६ ॥
जप्त्वायुतं च तत्स्नानाद्रोगाणां भेषजं भवेत् ।
अष्टाविंशज्जपित्वान्नमश्नीयादन्वहं शुचिः ॥ १९७ ॥
हुत्वा च तावत् पालाशैरेवं वारोग्यमश्नुते ।
चन्द्रसूर्यग्रहे पूर्वमुपोष्य विधिना शुचिः ॥ १९८ ॥
यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः ।
जपेत् समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु ॥ १९९ ॥
अष्टोत्तरसहस्रेण पिबेद् ब्राह्मीरसं द्विजाः ।
ऐहिकां लभते मेधां सर्वशास्त्रधरां शुभाम् ॥ २०० ॥
सारस्वती भवेद्देवी तस्य वागतिमानुषी ।
ग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः ॥ २०१ ॥
हुत्वा चाष्टसहस्रं तु ग्रहपीडां व्यपोहति ।
दुःस्वप्नदर्शने स्नात्वा जपेद्वै चायुतं नरः ॥ २०२ ॥
घृतेनाष्टशतं हुत्वा सद्यः शान्तिर्भविष्यति ।
चन्द्रसूर्यग्रहे लिङ्गं समभ्यर्च्य यथाविधि ॥ २०३ ॥
यत् किञ्चित् प्रार्थयेद्देवि जपेदयुतमादरात् ।
सन्निधावस्य देवस्य शुचिः संयतमानसः ॥ २०४ ॥
सर्वान् कामानवाप्नोति पुरुषो नात्र संशयः ।
गजानां तुरगाणां तु गोजातीनां विशेषतः ॥ २०५ ॥
व्याध्यागमे शुचिर्भूत्वा जुहुयात् समिधाहुतिम् ।
मासमभ्यर्च्य विधिनायुतं भक्तिसमन्वितः ॥ २०६ ॥
तेषामृद्धिश्च शान्तिश्च भविष्यति न संशयः ।
उत्पाते शत्रुबाधायां जुहुयादयुतं शुचिः ॥ २०७ ॥
पालाशसमिधैर्देवि तस्य शान्तिर्भविष्यति ।
आभिचारिकबाधायामेतद्देवि समाचरेत् ॥ २०८ ॥
प्रत्यग् भवति तच्छक्तिः शत्रोः पीडा भविष्यति ।
विद्वेषणार्थं जुहुयाद् वैभीतसमिधाष्टकम् ॥ २०९ ॥
अक्षरप्रतिलोम्येन आर्द्रेण रुधिरेण वा ।
विषेण रुधिराभ्यक्तो विद्वेषणकरं नृणाम् ॥ २१० ॥
प्रायश्चित्तं प्रवक्ष्यामि सर्वपापविशुद्धये ।
पापशुद्धिर्यथा सम्यक् कर्तुमभ्युद्यतो नरः ॥ २११ ॥
पापशुद्धिर्यतः सम्यग् ज्ञानसम्पत्तिहैतुकी ।
पापशुद्धिर्न चेत्पुंसः क्रियाः सर्वाश्च निष्फलाः ॥ २१२ ॥
ज्ञानं च हीयते तस्मात्कर्तव्यं पापशोधनम् ।
विद्यालक्ष्मीविशुद्ध्यर्थं मां ध्यात्वाञ्जलिना शुभे ॥ २१३ ॥
शिवेनैकादशेनाद्भिरभिषिञ्चेत् समन्ततः ।
अष्टोत्तरशतेनैव स्नायात् पापविशुद्धये ॥ २१४ ॥
सर्वतीर्थफलं तच्च सर्वपापहरं शुभम् ।
सन्ध्योपासनविच्छेदे जपेदष्टशतं नरः ॥ २१५ ॥
विड्वराहैश्च चाण्डालैर्दुर्जनैः कुक्कुटैरपि ।
स्पृष्टमन्नं न भुञ्जीत भुक्त्वा चाष्टशतं जपेत् ॥ २१६ ॥
ब्रह्महत्याविशुद्ध्यर्थं जपेल्लक्षायुतं नरः ।
पातकानां तदर्धं स्यान्नात्र कार्या विचारणा ॥ २१७ ॥
उपपातकदुष्टानां तदर्धं परिकीर्तितम् ।
शेषाणामपि पापानां जपेत् पञ्चसहस्रकम् ॥ २१८ ॥
आत्मबोधपरं गुह्यं शिवबोधप्रकाशकम् ।
शिवः स्यात्स जपेन् मन्त्रं पञ्चलक्षमनाकुलः ॥ २१९ ॥
पञ्चवायुजयं भद्रे प्राप्नोति मनुजः सुखम् ।
जपेच्च पञ्चलक्षं तु विगृहीतेन्द्रियः शुचिः ॥ २२० ॥
पञ्चेन्द्रियाणां विजयो भविष्यति वरानने ।
ध्यानयुक्तो जपेद्यस्तु पञ्चलक्षमनाकुलः ॥ २२१ ॥
विषयाणां च पञ्चानां जयं प्राप्नोति मानवः ।
चतुर्थं पञ्चलक्षं तु यो जपेद्भक्तिसंयुतः ॥ २२२ ॥
भूतानामिह पञ्चानां विजयं मनुजो लभेत् ।
चतुर्लक्षं जपेद्यस्तु मनः संयम्य यत्नतः ॥ २२३ ॥
सम्यग् विजयमाप्नोति करणानां वरानने ।
पञ्चविंशतिलक्षाणां जपेन कमलानने ॥ २२४ ॥
पञ्चविंशतितत्त्वानां विजयं मनुजो लभेत् ।
मध्यरात्रेति निर्वाते जपेदयुतमादरात् ॥ २२५ ॥
ब्रह्मसिद्धिमवाप्नोति व्रतेनानेन सुन्दरि ।
जपेल्लक्षमनालस्यो निर्वाते ध्वनिवर्जिते ॥ २२६ ॥
मध्यरात्रे च शिवयोः पश्यत्येव न संशयः ।
अन्धकारविनाशश्च दीपस्येव प्रकाशनम् ॥ २२७ ॥
हृदयान्तर्बहिर्वापि भविष्यति न संशयः ।
सर्वसम्पत् समृद्ध्यर्थं जपेदयुतमात्मवान् ॥ २२८ ॥
सबीजसम्पुटं मन्त्रं शतलक्षं जपेच्छुचिः ।
मत्सायुज्यमवाप्नोति भक्तिमान् किमतः परम् ॥ २२९ ॥
इति ते सर्वमाख्यातं पञ्चाक्षरविधिक्रमम् ।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ २३० ॥
श्रावयेच्च द्विजाञ्छुद्धान् पञ्चाक्षरविधिक्रमम् ।
दैवे कर्मणि पित्र्ये वा शिवलोके महीयते ॥ २३१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चाक्षरमाहात्म्यं
नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें