श्रीलिङ्गमहापुराण -[पूर्वभाग] -084
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौरासीवाँ अध्याय
उमामहेश्वरव्रत का वर्णन तथा पूजाविधान
श्रीलिङ्गमहापुराणे पूर्वभागे चतुरशीतितमोऽध्याय
उमामहेश्वरव्रतं
See Also:- भविष्यपुराण – उत्तरपर्व – अध्याय २३ (उमामहेश्वर—व्रत की विधि)
॥ सूत उवाच ॥
उमामहेश्वरं वक्ष्ये व्रतमीश्वरभाषितम् ।
नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः ॥ १ ॥
पौर्णमास्याममावास्यां चतुर्दश्यष्टमीषु च ।
नक्तमब्दं प्रकुर्वीत हविष्यं पूजयेद्भवम् ॥ २ ॥
उमामहेशप्रतिमां हेम्ना कृत्वा सुशोभनाम् ।
राजतीं वाथ वर्षान्ते प्रतिष्ठाप्य यथाविधि ॥ ३ ॥
ब्राह्मणान् भोजयित्वा च दत्त्वा शक्त्या च दक्षिणाम् ।
रथाद्यैर्वापि देवेशं नीत्वा रुद्रालयं प्रति ॥ ४ ॥
सर्वातिशयसंयुक्तैश्छत्रचामरभूषणैः ।
निवेदयेद्व व्रतं चैव शिवाय परमेष्ठिने ॥ ५ ॥
स याति शिवसायुज्यं नारी देव्या यदि प्रभो ।
अष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी ॥ ६ ॥
वर्षमेकं न भुञ्जति कन्या वा विधवापि वा ।
वर्षान्ते प्रतिमां कृत्वा पूर्वोक्तविधिना ततः ॥ ७ ॥
प्रतिष्ठाप्य यथान्यायं दत्त्वा रुद्रालये पुनः ।
ब्राह्मणान् भोजयित्वा च भवान्या सह मोदते ॥ ८ ॥
या नार्येवं चरेदब्दं कृष्णामेकां चतुर्दशीम् ।
वर्षान्ते प्रतिमां कृत्वा येन केनापि वा द्विजाः ॥ ९ ॥
पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते ।
अमावास्यां निराहारा भवेदब्दं सुयन्त्रिता ॥ १० ॥
शूलं च विधिना कृत्वा वर्षान्ते विनिवेदयेत् ।
स्नाप्येशानं यजेद्भक्त्या सहस्रैः कमलैः सितैः ॥ ११ ॥
राजतं कमलं चैव जाम्बूनदसुकर्णिकम् ।
दत्त्वा भवाय विप्रेभ्यः प्रदद्याद्दक्षिणामपि ॥ १२ ॥
कामतोऽपि कृतं पापं भ्रूणहत्यादिकं च यत् ।
तत्सर्वं शूलदानेन भिन्द्यान्नारी न संशयः ॥ १३ ॥
सायुज्यं चैवमाप्नोति भवान्या द्विजसत्तमाः ।
कुर्याद्यद्वा नरः सोऽपि रुद्रसायुज्यमाप्नुयात् ॥ १४ ॥
पौर्णमास्याममावास्यां वर्षमेकमतन्द्रिता ।
उपवासरता नारी नरोऽपि द्विजसत्तमाः ॥ १५ ॥
नियोगादेव तत्कार्यं भर्तॄणां द्विजसत्तमाः ।
जपं दानं तपः सर्वमस्वतन्त्राः यतः स्त्रियः ॥ १६ ॥
वर्षान्ते सर्वगन्धाढ्यां प्रतिमां सन्निवेदयेत् ।
सा भवान्याश्च सायुज्यं सारूप्यं चापि सुव्रता ॥ १७ ॥
लभते नात्र सन्देहः सत्यं सत्यं वदाम्यहम् ।
कार्तिक्यां वा तु या नारी एकभक्तेन वर्तते ॥ १८ ॥
क्षमाहिंसादिनियमैः संयुक्ता ब्रह्मचारिणी ।
दद्यात्कृष्णतिलानां च भारमेकमतन्द्रिता ॥ १९ ॥
सघृतं सगुडं चैव ओदनं परमेष्ठिने ।
दत्त्वा च ब्राह्मणेभ्यश्च यथा विभवविस्तरम् ॥ २० ॥
अष्टम्यां च चतुर्दश्यामुपवासरता च सा ।
भवान्या मोदते सार्धं सारूप्यं प्राप्य सुव्रता ॥ २१ ॥
क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः ।
सर्वव्रतेष्वयं धर्मः सामान्यो रुद्रपूजनम् ॥ २२ ॥
समासाद्वः प्रवक्ष्यामि प्रतिमासमनुक्रमात् ।
मार्गशीर्षकमासादि कार्त्तिकान्तं यथाक्रमम् ॥ २३ ॥
व्रतं सुविपुलं पुण्यं नन्दिना परिभाषितम् ।
मार्गशीर्षकमासेऽथ वृषं पूर्णाङ्गमुत्तमम् ॥ २४ ॥
अलङ्कृत्य यथान्यायं शिवाय विनिवेदयेत् ।
सा च सार्धं भवान्या वै मोदते नात्र संशयः ॥ २५ ॥
पुष्यमासे तु वै शूलं प्रतिष्ठाप्य निवेदयेत् ।
पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते ॥ २६ ॥
माघमासे रथं कृत्वा सर्वलक्षणलक्षितम् ।
दद्यात्सम्पूज्य देवेशं ब्राह्मणांश्चैव भोजयेत् ॥ २७ ॥
सा च देव्या महाभागा मोदते नात्र संशयः ।
फाल्गुने प्रतिमां कृत्वा हिरण्येन यथाविधि ॥ २८ ॥
राजतेनापि ताम्रेण यथाविभवविस्तरम् ।
प्रतिष्ठाप्य समभ्यर्च्य स्थापयेच्छङ्करालये ॥ २९ ॥
सा च सार्धं महादेव्या मोदते नात्र संशयः ।
चैत्रे भवं कुमारं च भवानीं च यथाविधि ॥ ३० ॥
ताम्राद्यैर्विधिवत्कृत्वा प्रतिष्ठाप्य यथाविधि ।
भवान्या मोदते सार्धं दत्त्वा रुद्राय शम्भवे ॥ ३१ ॥
कृत्वालयं हि कौबेरं राजतं रजतेन वै ।
ईश्वरोमासमायुक्तं गणेशैश्च समन्ततः ॥ ३२ ॥
सर्वरत्नसमायुक्तं प्रतिष्ठाप्य यथाविधि ।
स्थापयेत्परमेशस्य भवस्यायतने शुभे ॥ ३३ ॥
वैशाखे वै चरेदेवं कैलासाख्यं व्रतोत्तमम् ।
कैलासपर्वतं प्राप्य भवान्या सह मोदते ॥ ३४ ॥
ज्येष्ठे मासि महादेवं लिङ्गमूर्तिमुमापतिम् ।
कृताञ्जलिपुटेनैव ब्रह्मणा विष्णुना तथा ॥ ३५ ॥
मध्ये भवेन संयुक्तं लिङ्गमूर्ति द्विजोत्तमाः ।
हंसेन च वराहेण कृत्वा ताम्रादिभिः शुभाम् ॥ ३६ ॥
प्रतिष्ठाप्य यथान्यायं ब्राह्मणान् भोजयेत्ततः ।
शिवाय शिवमासाद्य शिवस्थाने यथाविधि ॥ ३७ ॥
ब्राह्मणैः सहितां स्थाप्य देव्याः सायुज्यमाप्नुयात् ।
आषाढे च शुभे मासे गृहं कृत्वा सुशोभनम् ॥ ३८ ॥
पक्वेष्टकाभिर्विधिवद्यथाविभवविस्तरम् ।
सर्वबीजरसैश्चापि सम्पूर्णं सर्वशोभनैः ॥ ३९ ॥
गृहोपकरणैश्चैव मुसलोलूखलादिभिः ।
दासीदासादिभिश्चैव शयनैरशनादिभिः ॥ ४० ॥
सम्पूर्णैश्च गृहं वस्त्रैराच्छाद्य च समन्ततः ।
देवं घृतादिभिः स्नाप्य महादेवमुमापतिम् ॥ ४१ ॥
ब्राह्मणानां सहस्रं च भोजयित्वा यथाविधि ।
विद्याविनयसम्पन्नं ब्राह्मणं वेदपारगम् ॥ ४२ ॥
प्रथमाश्रमिणं भक्त्या सम्पूज्य च यथाविधि ।
कन्यां सुमध्यमां यावत्कालजीवनसंयुताम् ॥ ४३ ॥
क्षेत्रं गोमिथुनं चैव तद्गृहे च निवेदयेत् ।
सायनैर्विविधैर्दिव्यैर्मेरुपर्वतसन्निभैः ॥ ४४ ॥
गोलोकं समनुप्राप्य भवान्या सह मोदते ।
भवान्या सदृशीभूत्वा सर्वकल्पेषु साव्यया ॥ ४५ ॥
भवान्याश्चैव सायुज्यं लभते नात्र संशयः ।
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम् ॥ ४६ ॥
निवेदयीत शर्वाय श्रावणे तिलपर्वतम् ।
वितानध्वजवस्त्राद्यैर्धातुभिश्च निवेदयेत् ॥ ४७ ॥
ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत् ।
कृत्वा भाद्रपदे मासि शोभनं शालिपर्वतम् ॥ ४८ ॥
वितानध्वजवस्त्राद्यैर्धातुभिश्च निवेदयेत् ।
ब्राह्मणान् भोजयित्वा च दापयेच्च यथाविधि ॥ ४९ ॥
सा च सूर्यांशुसङ्काशा भवान्या सह मोदते ।
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ॥ ५० ॥
सुवर्णवस्त्रसंयुक्तं दत्त्वा सम्पूज्य शङ्करम् ।
ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत् ॥ ५१ ॥
सर्वधान्यसमायुक्तं सर्वबीजरसादिभिः ।
सर्वधातुसमायुक्तं सर्वरत्नोपशोभितम् ॥ ५२ ॥
शृङ्गैश्चतुर्भिः संयुक्तं वितानच्छत्रशोभितम् ।
गन्धमाल्यैस्तथा धूपैश्चित्रैश्चापि सुशोभितम् ॥ ५३ ॥
विचित्रैर्नृत्यगेयैश्च शङ्खवीणादिभिस्तथा ।
ब्रह्मघोषैर्महापुण्यं मङ्गलैश्च विशेषतः ॥ ५४ ॥
महाध्वजाष्टसंयुक्तं विचित्रकुसुमोज्ज्वलम् ।
नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् ॥ ५५ ॥
तस्य मूर्ध्नि शिवं कुर्यान्मध्यतो धातुनैव तु ।
दक्षिणे च यथान्यायं ब्रह्माणं च चतुर्मुखम् ॥ ५६ ॥
उत्तरे देवदेवेशं नारायणमनामयम् ।
इन्द्रादिलोकपालांश्च कृत्वा भक्त्या यथाविधि ॥ ५७ ॥
प्रतिष्ठाप्य ततः स्नाप्य समभ्यर्च्य महेश्वरम् ।
देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् ॥ ५८ ॥
वामे पाशं भवान्याश्च कमलं हेमभूषितम् ।
विष्णोश्च शङ्खं चक्रं च गदामब्जं प्रयत्नतः ॥ ५९ ॥
ब्रह्मणश्चाक्षसूत्रं च कमण्डलुमनुत्तमम् ।
इन्द्रस्य वज्रमग्नेश्च शक्त्याख्यं परमायुधम् ॥ ६० ॥
यमस्य दण्डं निर्ऋतेः खड्गं निशिचरस्य तु ।
वरुणस्य महापाशं नागाख्यं रुद्रमद्भुतम् ॥ ६१ ॥
वायोर्यष्टिं कुबेरस्य गदां लोकप्रपूजिताम् ।
टङ्कं चेशानदेवस्य निवेद्यैवं क्रमेण च ॥ ६२ ॥
शिवस्य महतीं पूजां कृत्वा चरुसमन्विताम् ।
पूजयेत्सर्वदेवांश्च यथाविभवविस्तरम् ॥ ६३ ॥
ब्राह्मणान् भोजयित्वा च पूजां कृत्वा प्रयत्नतः ।
महामेरुव्रतं कृत्वा महादेवाय दापयेत् ॥ ६४ ॥
महामेरुमनुप्राप्य महादेव्या प्रमोदते ।
चिरं सायुज्यमाप्नोति महादेव्या न संशयः ॥ ६५ ॥
कार्तिक्यामपि या नारी कृत्वा देवीमुमां शुभाम् ।
सर्वाभरणसम्पूर्णां सर्वलक्षणलक्षिताम् ॥ ६६ ॥
हेमताम्रादिभिश्चैव प्रतिष्ठाप्य विधानतः ।
देवं च कृत्वा देवेशं सर्वलक्षणसंयुतम् ॥ ६७ ॥
तयोरग्रे हुताशं च स्रुवहस्तं पितामहम् ।
नारायणं च दातारं सर्वाभरणभूषितम् ॥ ६८ ॥
लोकपालैस्तथा सिद्धैः संवृतं स्थाप्य यत्नतः ।
रुद्रालये व्रतं तस्मै दापयेद्भक्तिपूर्वकम् ॥ ६९ ॥
सा भवान्यास्तनुं गत्वा भवेन सह मोदते ।
एकभक्तव्रतं पुण्यं प्रतिमासमनुक्रमात् ॥ ७० ॥
मार्गशीर्षकमासादि कार्तिकान्तं प्रवर्तितम् ।
नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः ॥ ७१ ॥
नरः कृत्वा व्रतं चैव शिवसायुज्यमाप्नुयात् ।
नारी देव्या न सन्देहः शिवेन परिभाषितम् ॥ ७२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे उमामहेश्वरव्रतं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें