श्रीलिङ्गमहापुराण -[पूर्वभाग] -082
॥ श्रीसाम्बसदाशिवाय नमः ॥
बयासीवाँ अध्याय
सभी पापों का उच्छेदक तथा शिवसायुज्य प्रदान करने वाला व्यपोहनस्तव और उसके पाठ का फल
श्रीलिङ्गमहापुराणे पूर्वभागे द्व्यशीतितमोऽध्यायः
व्यपोहनस्तव निरूपणं
॥ सूत उवाच ॥
व्यपोहनस्तवं वक्ष्ये सर्वसिद्धिप्रदं शुभम् ।
नन्दिनश्च मुखाच्छ्रुत्वा कुमारेण महात्मना ॥ १ ॥
व्यासाय कथितं तस्माद्बहुमानेन वै मया ।
नमः शिवाय शुद्धाय निर्मलाय यशस्विने ॥ २ ॥
दुष्टान्तकाय सर्वाय भवाय परमात्मने ।
पञ्चवक्त्रो दशभुजो ह्यक्षपञ्चदशैर्युतः ॥ ३ ॥
शुद्धस्फटिकसङ्काशः सर्वाभरणभूषितः ।
सर्वज्ञः सर्वगः शान्तः सर्वोपरि सुसंस्थितः ॥ ४ ॥
पद्मासनस्थः सोमेशः पापमाशु व्यपोहतु ।
ईशानः पुरुषश्चैव अघोरः सद्य एव च ॥ ५ ॥
वामदेवश्च भगवान् पापमाशु व्यपोहतु ।
अनन्तः सर्वविद्येशः सर्वज्ञः सर्वदः प्रभुः ॥ ६ ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु ।
सूक्ष्मः सुरासुरेशानो विश्वेशो गणपूजितः ॥ ७ ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु ।
शिवोत्तमो महापूज्यः शिवध्यानपरायणः ॥ ८ ॥
सर्वगः सर्वदः शान्तः स मे पापं व्यपोहतु ।
एकाक्षो भगवानीशः शिवार्चनपरायणः ॥ ९ ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु ।
त्रिमूर्तिर्भगवानीशः शिवभक्तिप्रबोधकः ॥ १० ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु ।
श्रीकण्ठः श्रीपतिः श्रीमाञ्शिवध्यानरतः सदा ॥ ११ ॥
शिवार्चनरतः साक्षात् स मे पापं व्यपोहतु ।
शिखण्डी भगवान् शान्तः शवभस्मानुलेपनः ॥ १२ ॥
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ।
त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी ॥ १३ ॥
दाक्षायणी महादेवी गौरी हैमवती शुभा ।
एकपर्णाग्रजा सौम्या तथा वै चैकपाटला ॥ १४ ॥
अपर्णा वरदा देवी वरदानैकतत्परा ।
उमा सुरहरा साक्षात् कौशिकी वा कपर्दिनी ॥ १५ ॥
खट्वाङ्गधारिणी दिव्या कराग्रतरुपल्लवा ।
नैगमेयादिभिर्दिव्यैश्चतुर्भिः पुत्रकैर्वृता ॥ १६ ॥
मेनाया नन्दिनी देवी वारिजा वारिजेक्षणा ।
अम्बा या वीतशोकस्य नन्दिनश्च महात्मनः ॥ १७ ॥
शुभावत्याः सखी शान्ता पञ्चचूडा वरप्रदा ।
सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया ॥ १८ ॥
त्रयोविंशतिभिस्तत्त्वैर्महदाद्यैर्विजृम्भिता ।
लक्ष्म्यादिशक्तिभिर्नित्यं नमिता नन्दनन्दिनी ॥ १९ ॥
मनोन्मनी महादेवी मायावी मण्डनप्रिया ।
मायया या जगत् सर्वं ब्रह्माद्यं सचराचरम् ॥ २० ॥
क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता ।
एकानेकस्थिता लोके इन्दीवरनिभेक्षणा ॥ २१ ॥
भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता ।
गणेन्द्राम्भोजगर्भेन्द्र यमवित्तेशपूर्वकैः ॥ २२ ॥
संस्तुता जननी तेषां सर्वोपद्रवनाशिनी ।
भक्तानामार्तिहा भव्या भवभावविनाशनी ॥ २३ ॥
भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः ।
सा मे साक्षान् महादेवी पापमाशु व्यपोहतु ॥ २४ ॥
चण्डः सर्वगणेशानो मुखाच्छम्भोर्विनिर्गतः ।
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ॥ २५ ॥
शालङ्कायनपुत्रस्तु हलमार्गोत्थितः प्रभुः ।
जामाता मरुतां देवः सर्वभूतमहेश्वरः ॥ २६ ॥
सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः ।
सनारायणकैर्देवैः सेन्द्रचन्द्रदिवाकरैः ॥ २७ ॥
सिद्धैश्च यक्षगन्धर्वैर्भूतैर्भूतविधायकैः ।
उरगैर्ऋषिभिश्चैव ब्रह्मणा च महात्मना ॥ २८ ॥
स्तुतस्त्रैलोक्यनाथस्तु मुनिरन्तः पुरं स्थितः ।
सर्वदा पूजितः सर्वैर्नन्दी पापं व्यपोहतु ॥ २९ ॥
महाकायो महातेजा महादेव इवापरः ।
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ॥ ३० ॥
मेरुमन्दारकैलास तटकूटप्रभेदनः ।
ऐरावतादिभिर्दिव्यैर्दिग्गजैश्च सुपूजितः ॥ ३१ ॥
सप्तपातालपादश्च सप्तद्वीपोरुजङ्घकः ।
सप्तार्णवाङ्कुशश्चैव सर्वतीर्थोदरः शिवः ॥ ३२ ॥
आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः ।
हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः ॥ ३३ ॥
ब्रह्माद्याधोरणैर्दिव्यैर्योगपाशसमन्वितैः ।
बद्धो हृत्पुण्डरीकाख्ये स्तम्भे वृत्तिं निरुध्य च ॥ ३४ ॥
नागेन्द्रवक्त्रो यः साक्षाद् गणकोटिशतैर्वृतः ।
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु ॥ ३५ ॥
भृङ्गीशः पिङ्गलाक्षोऽसौ भसिताशस्तु देहयुक् ।
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ॥ ३६ ॥
चतुर्भिस्तनुभिर्नित्यं सर्वासुरनिबर्हणः ।
स्कन्दः शक्तिधरः शान्तः सेनानीः शिखिवाहनः ॥ ३७ ॥
देवसेनापतिः श्रीमान् स मे पापं व्यपोहतु ।
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्तथा ॥ ३८ ॥
उग्रो भीमो महादेवः शिवार्चनरतः सदा ।
एताः पापं व्यपोहन्तु मूर्तयः परमेष्ठिनः ॥ ३९ ॥
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ ४० ॥
कपालीशश्च विज्ञेयो रुद्रा रुद्रांशसम्भवाः ।
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम ॥ ४१ ॥
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकश्चैव लोकसाक्षीत्रिविक्रमः ॥ ४२ ॥
आदित्यश्च तथा सूर्यश्चांशुमांश्च दिवाकरः ।
एते वै द्वादशादित्या व्यपोहन्तु मलं मम ॥ ४३ ॥
गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा ।
चन्द्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः ॥ ४४ ॥
पापं व्यपोहन्तु मम भयं निर्णाशयन्तु मे ।
वासवः पावकश्चैव यमो निर्ऋतिरेव च ॥ ४५ ॥
वरुणो वायुसोमौ च ईशानो भगवान् हरिः ।
पितामहश्च भगवान् शिवध्यानपरायणः ॥ ४६ ॥
एते पापं व्यपोहन्तु मनसा कर्मणा कृतम् ।
नभस्वान् स्पर्शनो वायुरनिलो मारुतस्तथा ॥ ४७ ॥
प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः ।
शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम ॥ ४८ ॥
खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः ।
सुषेणः शाश्वतः पृष्टः सुपुष्टश्च महाबलः ॥ ४९ ॥
एते वै चारणाः शम्भोः पूजयातीव भाविताः ।
व्यपोहन्तु मलं सर्वं पापं चैव मया कृतम् ॥ ५० ॥
मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट्सिद्धपूजितः ।
सिद्धवत्परमः सिद्धः सर्वसिद्धिप्रदायिनः ॥ ५१ ॥
व्यपोहन्तु मलं सर्वे सिद्धाः शिवपदार्चकाः ।
यक्षो यक्षेश धनदो जृम्भको मणिभद्रकः ॥ ५२ ॥
पूर्णभद्रेश्वरो माली शितिकुण्डलिरेव च ।
नरेन्द्रश्चैव यक्षेशा व्यपोहन्तु मलं मम ॥ ५३ ॥
अनन्तः कुलिकश्चैव वासुकिस्तक्षकस्तथा ।
कर्कोटको महापद्मः शङ्खपालो महाबलः ॥ ५४ ॥
शिवप्रणामसम्पन्नाः शिवदेहप्रभूषणाः ।
मम पापं व्यपोहन्तु विषं स्थावरजङ्गमम् ॥ ५५ ॥
वीणाज्ञः किन्नरश्चैव सुरसेनः प्रमर्दनः ।
अतीशयः स प्रयोगी गीतज्ञश्चैव किन्नराः ॥ ५६ ॥
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम ।
विद्याधरश्च विबुधो विद्याराशिर्विदां वरः ॥ ५७ ॥
विबुद्धो विबुधः श्रीमान् कृतज्ञश्च महायशाः ।
एते विद्याधराः सर्वे शिवध्यानपरायणाः ॥ ५८ ॥
व्यपोहन्तु मलं घोरं महादेवप्रसादतः ।
वामदेवी महाजम्भः कालनेमिर्महाबलः ॥ ५९ ॥
सुग्रीवो मर्दकश्चैव पिङ्गलो देवमर्दनः ।
प्रह्रादश्चाप्यनुह्रादः संह्रादः किल बाष्कलौ ॥ ६० ॥
जम्भः कुम्भश्च मायावी कार्तवीर्यः कृतञ्जयः ।
एतेऽसुरा महात्मानो महादेवपरायणाः ॥ ६१ ॥
व्यपोहन्तु भयं घोरमासुरं भावमेव च ।
गरुत्मान् खगतिश्चैव पक्षिराट्नागमर्दनः ॥ ६२ ॥
नागशत्रुर्हिरण्याङ्गो वैनतेयः प्रभञ्जनः ।
नागाशीर्विषनाशश्च विष्णुवाहन एव च ॥ ६३ ॥
एते हिरण्यवर्णाभा गरुडा विष्णुवाहनाः ।
नानाभरणसम्पन्ना व्यपोहन्तु मलं मम ॥ ६४ ॥
अगस्त्यश्च वसिष्ठश्च अङ्गिरा भृगुरेव च ।
काश्यपो नारदश्चैव दधीचश्च्यवनस्तथा ॥ ६५ ॥
उपमन्युस्तथान्ये च ऋषयः शिवभाविताः ।
शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम ॥ ६६ ॥
पितरः पितामहाश्च तथैव प्रपितामहाः ।
अग्निष्वात्ता बर्हिषदस्तथा मातामहादयः ॥ ६७ ॥
व्यपोहन्तु भयं पापं शिवध्यानपरायणाः ।
लक्ष्मीश्च धरणी चैव गायत्री च सरस्वती ॥ ६८ ॥
दुर्गा उषा शची ज्येष्ठा मातरः सुरपूजिताः ।
देवानां मातरश्चैव गणानां मातरस्तथा ॥ ६९ ॥
भूतानां मातरः सर्वा यत्र या गणमातरः ।
प्रसादाद्देवदेवस्य व्यपोहन्तु मलं मम ॥ ७० ॥
उर्वशी मेनका चैव रम्भा रतितिलोत्तमाः ।
सुमुखी दुर्मुखी चैव कामुकी कामवर्धनी ॥ ७१ ॥
तथान्याः सर्वलोकेषु दिव्याश्चाप्सरसस्तथा ।
शिवाय ताण्डवं नित्यं कुर्वन्त्योऽतीव भाविताः ॥ ७२ ॥
देव्यः शिवार्चनरता व्यपोहन्तु मलं मम ।
अर्कः सोमोऽङ्गारकश्च बुधश्चैव बृहस्पतिः ॥ ७३ ॥
शुक्रः शनैश्चरश्चैव राहुः केतुस्तथैव च ।
व्यपोहन्तु भयं घोरं ग्रहपीडां शिवार्चकाः ॥ ७४ ॥
मेषो वृषोऽथ मिथुनस्तथा कर्कटकः शुभः ।
सिंहश्च कन्या विपुला तुला वै वृश्चिकस्तथा ॥ ७५ ॥
धनुश्च मकरश्चैव कुम्भो मीनस्तथैव च ।
राशयो द्वादश ह्येते शिवपूजापरायणाः ॥ ७६ ॥
व्यपोहन्तु भयं पापं प्रसादात् परमेष्ठिनः ।
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ॥ ७७ ॥
श्रीमन्मृगशिरश्चार्द्रा पुनर्वसुपुष्यसार्पकाः ।
मघा वै पूर्वफाल्गुन्य उत्तराफाल्गुनी तथा ॥ ७८ ॥
हस्तचित्रा तथा स्वाती विशाखा चानुराधिका ।
ज्येष्ठा मूलं महाभागा पूर्वाषाढा तथैव च ॥ ७९ ॥
उत्तराषाढिका चैव श्रवणं च श्रविष्ठिका ।
शतभिषक् पूर्वभद्रा तथा प्रोष्ठपदा तथा ॥ ८० ॥
पौष्णं च देव्यः सततं व्यपोहन्तु मलं मम ।
ज्वरः कुम्भोदरश्चैव शङ्कुकर्णो महाबलः ॥ ८१ ॥
महाकर्णः प्रभातश्च महाभूतप्रमर्दनः ।
श्येनजिच्छिवदूतश्च प्रमथाः प्रीतिवर्धनाः ॥ ८२ ॥
कोटिकोटिशतैश्चैव भूतानां मातरः सदा ।
व्यपोहन्तु भयं पापं महादेवप्रसादतः ॥ ८३ ॥
शिवध्यानैकसम्पन्नो हिमराडम्बुसन्निभः ।
कुन्देन्दुसदृशाकारः कुम्भकुन्देन्दुभूषणः ॥ ८४ ॥
वडवानलशत्रुर्यो वडवामुखभेदनः ।
चतुष्पादसमायुक्तः क्षीरोद इव पाण्डुरः ॥ ८५ ॥
रुद्रलोके स्थितो नित्यं रुद्रैः सार्धं गणेश्वरैः ।
वृषेन्द्रो विश्वधृग्देवो विश्वस्य जगतः पिता ॥ ८६ ॥
वृतो नन्दादिभिर्नित्यं मातृभिर्मखमर्दनः ।
शिवार्चनरतो नित्यं स मे पापं व्यपोहतु ॥ ८७ ॥
गङ्गा माता जगन्माता रुद्रलोके व्यवस्थिता ।
शिवभक्ता तु या नन्दा सा मे पापं व्यपोहतु ॥ ८८ ॥
भद्रा भद्रपदा देवी शिवलोके व्यवस्थिता ।
माता गवां महाभागा सा मे पापं व्यपोहतु ॥ ८९ ॥
सुरभिः सर्वतोभद्रा सर्वपापप्रणाशनी ।
रुद्रपूजारता नित्यं सा मे पापं व्यपोहतु ॥ ९० ॥
सुशीला शीलसम्पन्ना श्रीप्रदा शिवभाविता ।
शिवलोके स्थिता नित्यं सा मे पापं व्यपोहतु ॥ ९१ ॥
वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिन्तकः ।
समस्तगुणसम्पन्नः सर्वदेवेश्वरात्मजः ॥ ९२ ॥
ज्येष्ठः सर्वेश्वरः सौम्यो महाविष्णुतनुः स्वयम् ।
आर्यः सेनापतिः साक्षाद् गहनो मखमर्दनः ॥ ९३ ॥
ऐरावतगजारूढः कृष्णकुञ्चितमूर्धजः ।
कृष्णाङ्गो रक्तनयनः शशिपन्नगभूषणः ॥ ९४ ॥
भूतैः प्रेतैः पिशाचैश्च कूष्माण्डैश्च समावृतः ।
शिवार्चनरतः साक्षात् स मे पापं व्यपोहतु ॥ ९५ ॥
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डाग्नेयिका तथा ॥ ९६ ॥
एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः ।
योगिनीभिर्महापापं व्यपोहन्तु समाहिताः ॥ ९७ ॥
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः ।
रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः ॥ ९८ ॥
सहस्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम् ।
त्रेताग्निनयनो देवस्त्रैलोक्याभयदः प्रभुः ॥ ९९ ॥
मातॄणां रक्षको नित्यं महावृषभवाहनः ।
त्रैलोक्यनमितः श्रीमान् शिवपादार्चने रतः ॥ १०० ॥
यज्ञस्य च शिरश्छेत्ता पूष्णो दन्तविनाशनः ।
वह्नेर्हस्तहरः साक्षाद् भगनेत्रनिपातनः ॥ १०१ ॥
पादाङ्गुष्ठेन सोमाङ्ग पेषकः प्रभुसञ्ज्ञकः ।
उपेन्द्रेन्द्रयमादीनां देवानामङ्गरक्षकः ॥ १०२ ॥
सरस्वत्या महादेव्या नासिकोष्ठावकर्तनः ।
गणेश्वरो यः सेनानीः स मे पापं व्यपोहतु ॥ १०३ ॥
ज्येष्ठा वरिष्ठा वरदा वराभरणभूषिता ।
महालक्ष्मीर्जगन्माता सा मे पापं व्यपोहतु ॥ १०४ ॥
महामोहा महाभागा महाभूतगणैर्वृता ।
शिवार्चनरता नित्यं सा मे पापं व्यपोहतु ॥ १०५ ॥
लक्ष्मीः सर्वगुणोपेता सर्वलक्षणसंयुता ।
सर्वदा सर्वगा देवी सा मे पापं व्यपोहतु ॥ १०६ ॥
सिंहारूढा महादेवी पार्वत्यास्तनयाव्यया ।
विष्णोर्निद्रा महामाया वैष्णवी सुरपूजिता ॥ १०७ ॥
त्रिनेत्रा वरदा देवी महिषासुरमर्दिनी ।
शिवार्चनरता दुर्गा सा मे पापं व्यपोहतु ॥ १०८ ॥
ब्रह्माण्डधारका रुद्राः सर्वलोकप्रपूजिताः ।
सत्याश्च मानसाः सर्वे व्यपोहन्तु भयं मम ॥ १०९ ॥
भूताः प्रेताः पिशाचाश्च कूष्माण्डगणनायकाः ।
कूष्माण्डकाश्च ते पापं व्यपोहन्तु समाहिताः ॥ ११० ॥
अनेन देवं स्तुत्वा तु चान्ते सर्वं समापयेत् ।
प्रणम्य शिरसा भूमौ प्रतिमासे द्विजोत्तमाः ॥ १११ ॥
व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि ।
विधूय सर्वपापानि रुद्रलोके महीयते ॥ ११२ ॥
कन्यार्थी लभते कन्यां जयकामो जयं लभेत् ।
अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान् ॥ ११३ ॥
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् ।
यान् यान् प्रार्थयते कामान् मानवः श्रवणादिह ॥ ११४ ॥
तान् सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत् ।
पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते ॥ ११५ ॥
तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः ।
नाकाले मरणं तस्य न सर्पैरपि दंश्यते ॥ ११६ ॥
यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम् ।
दानानां चैव यत्पुण्यं व्रतानां च विशेषतः ॥ ११७ ॥
तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः ।
गोघ्नश्चैव कृतघ्नश्च वीरहा ब्रह्महा भवेत् ॥ ११८ ॥
शरणागतघाती च मित्रविश्वासघातकः ।
दुष्टः पापसमाचारो मातृहा पितृहा तथा ॥ ११९ ॥
व्यपोह्य सर्वपापानि शिवलोके महीयते ॥ १२० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे व्यपोहनस्तवनिरूपणं
नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें