श्रीलिङ्गमहापुराण -[पूर्वभाग] -081

श्रीलिङ्गमहापुराण -[पूर्वभाग] -081
॥ श्रीसाम्बसदाशिवाय नमः ॥
इक्यासीवाँ अध्याय
विविध मासों में किये जाने वाले पशुपाशविमोचक लिङ्गव्रत का विधान तथा उसका माहात्म्य
श्रीलिङ्गमहापुराणे पूर्वभागे एकाशीतितमोऽध्यायः
पशुपाशविमोचनलिङ्गपूजादिकथनं

॥ ऋषय ऊचुः ॥
व्रतमेतत्त्वया प्रोक्तं पशुपाशविमोक्षणम् ।
व्रतं पाशुपतं लैङ्गं पुरा देवैरनुष्ठितम् ॥ १ ॥
वक्तुमर्हसि चास्माकं यथापूर्वं त्वया श्रुतम् ।
॥ सूत उवाच ॥
पुरा सनत्कुमारेण पृष्टः शैलादिरादरात् ॥ २ ॥


नन्दी प्राह वचस्तस्मै प्रवदामि समासतः ।
देवैर्दैत्यैस्तथा सिद्धैर्गन्धर्वैः सिद्धचारणैः ॥ ३ ॥
मुनिभिश्च महाभागैरनुष्ठितमनुत्तमम् ।
व्रतं द्वादशलिङ्गाख्यं पशुपाशविमोक्षणम् ॥ ४ ॥
भोगदं योगदं चैव कामदं मुक्तिदं शुभम् ।
अवियोगकरं पुण्यं भक्तानां भयनाशनम् ॥ ५ ॥
षडङ्गसहितान् वेदान् मथित्वा तेन निर्मितम् ।
सर्वदानोत्तमं पुण्यमश्वमेधायुताधिकम् ॥ ६ ॥
सर्वमङ्गलदं पुण्यं सर्वशत्रुविनाशनम् ।
संसारार्णवमग्नानां जन्तूनामपि मोक्षदम् ॥ ७ ॥
सर्वव्याधिहरं चैव सर्वज्वरविनाशनम् ।
देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा ॥ ८ ॥
कृत्वा कनीयसं लिङ्गं स्नाप्य चन्दनवारिणा ।
चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं चरेत् ॥ ९ ॥
कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम् ।
नवरत्नैश्च खचितमष्टपत्रं यथाविधि ॥ १० ॥
कर्णिकायां न्यसेल्लिङ्गं स्फाटिकं पीठसंयुतम् ।
तत्र भक्त्या यथान्यायमर्चयेद्बिल्वपत्रकैः ॥ ११ ॥
सितैः सहस्रकमलै रक्तैर्नीलोत्पलैरपि ।
श्वेतार्ककर्णिकारैश्च करवीरैर्बकैरपि ॥ १२ ॥
एतैरन्यैर्यथालाभं गायत्र्या तस्य सुव्रताः ।
सम्पूज्य चैव गन्धाद्यैर्धूपैर्दीपैश्च मङ्गलैः ॥ १३ ॥
नीराजनाद्यैश्चान्यैश्च लिङ्गमूर्तिमहेश्वरम् ।
अगरुं दक्षिणे दद्यादघोरेण द्विजोत्तमाः ॥ १४ ॥
पश्चिमे सद्यमन्त्रेण दिव्यां चैव मनःशिलाम् ।
उत्तरे वामदेवेन चन्दनं वापि दापयेत् ॥ १५ ॥
पुरुषेण मुनिश्रेष्ठा हरितालं च पूर्वतः ।
सितागरूद्भवं विप्रास्तथा कृष्णागरूद्भवम् ॥ १६ ॥
तथा गुग्गुलुधूपं च सौगन्धिकमनुत्तमम् ।
सितारं नाम धूपं च दद्यादीशाय भक्तितः ॥ १७ ॥
महाचरुर्निवेद्यः स्यादाढकान्नमथापि वा ।
एतद्वः कथितं पुण्यं शिवलिङ्गमहाव्रतम् ॥ १८ ॥
सर्वमासेषु सामान्यं विशेषोऽपि च कीर्त्यते ।
वैशाखे वज्रलिङ्गं च ज्येष्ठे मारकतं तथा ॥ १९ ॥
आषाढे मौक्तिकं लिङ्गं श्रावणे नीलनिर्मितम् ।
मासि भाद्रपदे लिङ्गं पद्मरागमयं शुभम् ॥ २० ॥
आश्विने चैव विप्रेन्द्राः गोमेदकमयं शुभम् ।
प्रवालेनैव कार्तिक्यां तथा वै मार्गशीर्षके ॥ २१ ॥
वैडूर्यनिर्मितं लिङ्गं पुष्परागेण पुष्यके ।
माघे च सूर्यकान्तेन फाल्गुने स्फाटिकेन च ॥ २२ ॥
सर्वमासेषु कमलं हैममेकं विधीयते ।
अलाभे राजतं वापि केवलं कमलं तु वा ॥ २३ ॥
रत्नानामप्यलाभे तु हेम्ना वा राजतेन वा ।
रजतस्याप्यलाभे तु ताम्रलोहेन कारयेत् ॥ २४ ॥
शैलं वा दारुजं वापि मृन्मयं वा सवेदिकम् ।
सर्वगन्धमयं वापि क्षणिकं परिकल्पयेत् ॥ २५ ॥
हैमन्तिके महादेवं श्रीपत्त्रेणैव पूजयेत् ।
सर्वमासेषु कमलं हैममेकमथापि वा ॥ २६ ॥
राजतं वापि कमलं हैमकर्णिकमुत्तमम् ।
राजतस्याप्यभावे तु बिल्वपत्रैः समर्चयेत् ॥ २७ ॥
सहस्रकमलालाभे तदर्धेनापि पूजयेत् ।
तदर्धार्धेन वा रुद्रमष्टोत्तरशतेन वा ॥ २८ ॥
बिल्वपत्रे स्थिता लक्ष्मीर्देवी लक्षणसंयुता ।
नीलोत्पलेऽम्बिका साक्षादुत्पले षण्मुखः स्वयम् ॥ २९ ॥
पद्माश्रितो महादेवः सर्वदेवपतिः शिवः ।
तस्मात् सर्वप्रयत्नेन श्रीपत्त्रं न त्यजेद्बुधः ॥ ३० ॥
नीलोत्पलं चोत्पलं च कमलं च विशेषतः ।
सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा ॥ ३१ ॥
कृष्णागरुसमुद्भूतं सर्वपापनिकृन्तनम् ।
गुग्गुलुप्रभृतीनां चैव दीपानां च निवेदनम् ॥ ३२ ॥
सर्वरोगक्षयं चैव चन्दनं सर्वसिद्धिदम् ।
सौगन्धिकं तथा धूपं सर्वकामार्थसाधकम् ॥ ३३ ॥
श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम् ।
सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम् ॥ ३४ ॥
श्वेतार्ककुसुमे साक्षाच्चतुर्वक्त्रः प्रजापतिः ।
कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता ॥ ३५ ॥
करवीरे गणाध्यक्षो बके नारायणः स्वयम् ।
सुगन्धिषु च सर्वेषु कुसुमेषु नगात्मजा ॥ ३६ ॥
तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः ।
पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः ॥ ३७ ॥
निवेदयेत्ततो भक्त्या पायसं च महाचरुम् ।
सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम् ॥ ३८ ॥
शुद्धान्नं वापि मुद्गान्नमाढकं चार्धकं तु वा ।
चामरं तालवृन्तं च तस्मै भक्त्या निवेदयेत् ॥ ३९ ॥
उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि ।
नानाविधानि चार्हाणि प्रोक्षितान्यंभसा पुनः ॥ ४० ॥
निवेदयेच्च रुद्राय भक्तियुक्तेन चेतसा ।
क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम् ॥ ४१ ॥
विष्णुना जिष्णुना साक्षादन्ने सर्वं प्रतिष्ठितम् ।
भूतानामन्नदानेन प्रीतिर्भवति शङ्करे ॥ ४२ ॥
तस्मात् सम्पूजयेद्देवमन्ने प्राणाः प्रतिष्ठिताः ।
उपहारे तथा तुष्टिर्व्यञ्जने पवनः स्वयम् ॥ ४३ ॥
सर्वात्मको महादेवो गन्धतोये ह्यपाम्पतिः ।
पीठे वै प्रकृतिः साक्षान् महदाद्यैर्व्यवस्थिता ॥ ४४ ॥
तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि ।
पौर्णमास्यां व्रतं कार्यं सर्वकामार्थसिद्धये ॥ ४५ ॥
सत्यं शौचं दया शान्तिः सन्तोषो दानमेव च ।
पौर्णमास्याममावास्यामुपवासं च कारयेत् ॥ ४६ ॥
संवत्सरान्ते गोदानं वृषोत्सर्गं विशेषतः ।
भोजयेद् ब्राह्मणान् भक्त्या श्रोत्रियान् वेदपारगान् ॥ ४७ ॥
तल्लिङ्गं पूजितं तेन सर्वद्रव्यसमन्वितम् ।
स्थापयेद्वा शिवक्षेत्रे दापयेद् ब्राह्मणाय वा ॥ ४८ ॥
य एवं सर्वमासेषु शिवलिङ्गमहाव्रतम् ।
कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः ॥ ४९ ॥
सूर्यकोटिप्रतीकाशैर्विमानै रत्नभूषितैः ।
गत्वा शिवपुरं दिव्यं नेहायाति कदाचन ॥ ५० ॥
अथवा ह्येकमासं वा चरेदेवं व्रतोत्तमम् ।
शिवलोकमवाप्नोति नात्र कार्या विचारणा ॥ ५१ ॥
अथवा सक्तचित्तश्चेद्यान्यान् सञ्चिन्तयेद्वरान् ।
वर्षमेकं चरेदेवं तांस्तान् प्राप्य शिवं व्रजेत् ॥ ५२ ॥
देवत्वं वा पितृत्वं वा देवराजत्वमेव च ।
गाणपत्यपदं वापि सक्तोऽपि लभते नरः ॥ ५३ ॥
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् ।
द्रव्यार्थी च निधिं पश्येदायुःकामश्चिरायुषम् ॥ ५४ ॥
यान्यांश्चिन्तयते कामांस्तांस्तान् प्राप्येह मोदते ।
एकमासव्रतादेव सोऽन्ते रुद्रत्वमाप्नुयात् ॥ ५५ ॥
इदं पवित्रं परमं रहस्यं व्रतोत्तमं विश्वसृजापि सृष्टम् ।
हिताय देवासुरसिद्धमर्त्य विद्याधराणां परमं शिवेन ॥ ५६ ॥
सम्पूज्य पूज्यं विधिनैवमीशं प्रणम्य मूर्ध्ना सह भृत्यपुत्रैः ।
व्यपोहनं नाम जपेत्स्तवं च प्रदक्षिणं कृत्य शिवं प्रयत्नात् ॥ ५७ ॥
पुराकृतं विश्वसृजा स्तवं च हिताय देवेन जगत्त्रयस्य ।
पितामहेनैव सुरैश्च सार्धं महानुभावेन महार्घ्यमेतत् ॥ ५८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पशुपाशविमोचनलिङ्गपूजादिकथनं नामैकाशीतितमोऽध्यायः ॥ ८१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-81

कोई टिप्पणी नहीं:

123