श्रीलिङ्गमहापुराण -[पूर्वभाग] -083
॥ श्रीसाम्बसदाशिवाय नमः ॥
तिरासीवाँ अध्याय
विभिन्न मासों में किये जाने वाले शिवव्रतों का विधान
श्रीलिङ्गमहापुराणे पूर्वभागे त्र्यशीतितमोऽध्यायः
शिवव्रतकथनं
॥ ऋषय ऊचुः ॥
व्यपोहनस्तवं पुण्यं श्रुतमस्माभिरादरात् ।
प्रसङ्गाल्लिङ्गदानस्य व्रतान्यपि वदस्व नः ॥ १ ॥
॥ सूत उवाच ॥
व्रतानि वः प्रवक्ष्यामि शुभानि मुनिसत्तमाः ।
नन्दिना कथितानीह ब्रह्मपुत्राय धीमते ॥ २ ॥
तानि व्यासादुपश्रुत्य युष्माकं प्रवदाम्यहम् ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ ३ ॥
वर्षमेकं तु भुञ्जानो नक्तं यः पूजयेच्छिवम् ।
सर्वयज्ञफलं प्राप्य स याति परमां गतिम् ॥ ४ ॥
पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु मानवः ।
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ॥ ५ ॥
द्वयोर्मासस्य पञ्चम्योर्द्वयोः प्रतिपदोर्नरः ।
क्षीरधाराव्रतं कुर्यात्सोऽश्वमेधफलं लभेत् ॥ ६ ॥
कृष्णाष्टम्यां तु नक्तेन यावत् कृष्णचतुर्दशी ।
भुञ्जन् भोगानवाप्नोति ब्रह्मलोकं च गच्छति ॥ ७ ॥
योऽब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु ।
ब्रह्मचारी जितक्रोधः शिवध्यानपरायणः ॥ ८ ॥
संवत्सरान्ते विप्रेन्द्रान् भोजयेद्विधिपूर्वकम् ।
स याति शाङ्करं लोकं नात्र कार्या विचारणा ॥ ९ ॥
उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम् ।
अयाचितात्परं नक्तं तस्मान्नक्तेन वर्तयेत् ॥ १० ॥
देवैर्भुक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा ।
अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः ॥ ११ ॥
सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम् ।
हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥ १२ ॥
अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत् ।
प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम् ॥ १३ ॥
धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये ।
पुष्यमासे च सम्पूज्य यः कुर्यान्नक्तभोजनम् ॥ १४ ॥
सत्यवादी जितक्रोधः शालिगोधूमगोरसैः ।
पक्षयोरष्टमीं यत्नादुपवासेन वर्तयेत् ॥ १५ ॥
भूमिशय्यां च मासान्ते पौर्णमास्यां घृतादिभिः ।
स्नाप्य रुद्रं महादेवं सम्पूज्य विधिपूर्वकम् ॥ १६ ॥
यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः ।
भोजयेद् ब्राह्मणाञ्छिष्टाञ्जपेच्छान्तिं विशेषतः ॥ १७ ॥
तथा गोमिथुनं चैव कपिलं विनिवेदयेत् ।
भवाय देवदेवाय शिवाय परमेष्ठिने ॥ १८ ॥
स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम् ।
भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते ॥ १९ ॥
माघमासे तु सम्पूज्य यः कुर्यान्नक्तभोजनम् ।
कृशरं घृतसंयुक्तं भुञ्जानः संयतेन्द्रियः ॥ २० ॥
सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः ।
रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकम्बलम् ॥ २१ ॥
कृष्णं गोमिथुनं दद्यात्पूजयेच्चैव शङ्करम् ।
भोजयेद् ब्राह्मणांश्चैव यथाविभवविस्तरम् ॥ २२ ॥
याम्यमासाद्य वै लोकं यमेन सह मोदते ।
फाल्गुने चैव सम्प्राप्ते कुर्याद्वै नक्तभोजनम् ॥ २३ ॥
श्यामाकान्नघृतक्षीरैर्जितक्रोधो जितेन्द्रियः ।
चतुर्दश्यामथाष्टम्यामुपवासं च कारयेत् ॥ २४ ॥
पौर्णमास्यां महादेवं स्नाप्य सम्पूज्य शङ्करम् ।
दद्याद्गोमिथुनं वापि ताम्राभं शूलपाणये ॥ २५ ॥
ब्राह्मणान् भोजयित्वा तु प्रार्थयेत् परमेश्वरम् ।
स याति चन्द्रसायुज्यं नात्र कार्या विचारणा ॥ २६ ॥
चैत्रेऽपि रुद्रमभ्यर्च्य कुर्याद्वै नक्तभोजनम् ।
शाल्यन्नं पयसा युक्तं घृतेन च यथासुखम् ॥ २७ ॥
गोष्ठशायी मुनिश्रेष्ठाः क्षितौ निशि भवं स्मरेत् ।
पौर्णमास्यां शिवं स्नाप्य दद्याद्गोमिथुनं सितम् ॥ २८ ॥
ब्राह्मणान् भोजयेच्चैव निर्ऋतेः स्थानमाप्नुयात् ।
वैशाखे च तथा मासे कृत्वा वै नक्तभोजनम् ॥ २९ ॥
पौर्णमास्यां भवं स्नाप्य पञ्चगव्यघृतादिभिः ।
श्वेतं गोमिथुनं दत्त्वा सोऽश्वमेधफलं लभेत् ॥ ३० ॥
ज्येष्ठे मासे च देवेशं भवं शर्वमुमापतिम् ।
सम्पूज्य श्रद्धया भक्त्या कृत्वा वै नक्तभोजनम् ॥ ३१ ॥
रक्तशाल्यन्नमध्वा च अद्भिः पूतं घृतादिभिः ।
वीरासनी निशार्धं च गवां शुश्रूषणे रतः ॥ ३२ ॥
पौर्णमास्यां तु सम्पूज्य देवदेवमुमापतिम् ।
स्नाप्य शक्त्या यथान्यायं चरुं दद्याच्च शूलिने ॥ ३३ ॥
ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् ।
धूम्रं गोमिथुनं दत्त्वा वायुलोके महीयते ॥ ३४ ॥
आषाढे मासि चाप्येवं नक्तभोजनतत्परः ।
भूरिखण्डाज्यसम्मिश्रं सक्तुभिश्चैव गोरसम् ॥ ३५ ॥
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ।
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् ॥ ३६ ॥
दद्याद्गोमिथुनं गौरं वारुणं लोकमाप्नुयात् ।
श्रावणे च द्विजा मासे कृत्वा वै नक्तभोजनम् ॥ ३७ ॥
क्षीरषष्टिकभक्तेन सम्पूज्य वृषभध्वजम् ।
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ॥ ३८ ॥
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् ।
श्वेताग्रपादं पौण्ड्रं च दद्याद् गोमिथुनं पुनः ॥ ३९ ॥
स याति वायुसायुज्यं वायुवत्सर्वगो भवेत् ।
प्राप्ते भाद्रपदे मासे कृत्वैवं नक्तभोजनम् ॥ ४० ॥
हुतशेषं च विप्रेन्द्रान् वृक्षमूलाश्रितो दिवा ।
पौर्णमास्यां तु देवेशं स्नाप्य सम्पूज्य शङ्करम् ॥ ४१ ॥
नीलस्कन्धं वृषं गां च दत्त्वा भक्त्या यथाविधि ।
ब्राह्मणान् भोजयित्वा च वेदवेदाङ्गपारगान् ॥ ४२ ॥
यक्षलोकमनुप्राप्य यक्षराजो भवेन्नरः ।
ततश्चाश्वयुजे मासि कृत्वैवं नक्तभोजनम् ॥ ४३ ॥
सघृतं शङ्करं पूज्य पौर्णमास्यां च पूर्ववत् ।
ब्राह्मणान् भोजयित्वा च शिवभक्तान् सदा शुचीन् ॥ ४४ ॥
वृषभं नीलवर्णाभमुरोदेशसमुन्नतम् ।
गां च दत्त्वा यथान्यायमैशानं लोकमाप्नुयात् ॥ ४५ ॥
कार्तिके च तथा मासे कृत्वा वै नक्तभोजनम् ।
क्षीरोदनेन साज्येन सम्पूज्य च भवं प्रभुम् ॥ ४६ ॥
पौर्णमास्यां च विधिवत्स्नाप्य दत्त्वा चरुं पुनः ।
ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् ॥ ४७ ॥
दत्त्वा गोमिथुनं चैव कापिलं पूर्ववद् द्विजाः ।
सूर्यसायुज्यमाप्नोति नात्र कार्या विचारणा ॥ ४८ ॥
मार्गशीर्षे च मासेऽपि कृत्वैवं नक्तभोजनम् ।
यवान्नेन यथान्यायमाज्यक्षीरादिभिः समम् ॥ ४९ ॥
पौर्णमास्यां च पूर्वोक्तं कृत्वा शर्वाय शम्भवे ।
ब्राह्मणान् भोजयित्वा च दरिद्रान् वेदपारगान् ॥ ५० ॥
दत्त्वा गोमिथुनं चैव पाण्डुरं विधिपूर्वकम् ।
सोमलोकमनुप्राप्य सोमेन सह मोदते ॥ ५१ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया ।
त्रिःस्नानं चाग्निहोत्रं च भूशय्या नक्तभोजनम् ॥ ५२ ॥
पक्षयोरुपवासं च चतुर्दश्यष्टमीषु च ।
इत्येतदखिलं प्रोक्तं प्रतिमासं शिवव्रतम् ॥ ५३ ॥
कुर्याद्वर्षं क्रमेणैव व्युत्क्रमेणापि वा द्विजाः ।
स याति शिवसायुज्यं ज्ञानयोगमवाप्नुयात् ॥ ५४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवव्रतकथनं नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें