श्रीलिङ्गमहापुराण -[पूर्वभाग] -080

श्रीलिङ्गमहापुराण -[पूर्वभाग] -080
॥ श्रीसाम्बसदाशिवाय नमः ॥
अस्सीवाँ अध्याय
देवताओं का कैलासपुरी आकर वहाँ विराजमान उमासहित भगवान् शिव के दर्शन करना तथा भगवान् शिव द्वारा देवताओं को पाशुपतव्रत का उपदेश प्रदान करना
श्रीलिङ्गमहापुराणे पूर्वभागे अशीतितमोऽध्यायः
पाशुपतव्रतमाहात्म्यं

॥ ऋषय ऊचुः ॥
कथं पशुपतिं दृष्ट्वा पशुपाशविमोक्षणम् ।
पशुत्वं तत्यजुर्देवास्तन्नो वक्तुमिहार्हसि ॥ १ ॥
॥ सूत उवाच ॥
पुरा कैलासशिखरे भोग्याख्ये स्वपुरे स्थितम् ।
समेत्य देवाः सर्वज्ञमाजग्मुस्तत् प्रसादतः ॥ २ ॥


हिताय सर्वदेवानां ब्रह्मणा च जनार्दनः ।
गरुडस्य तथा स्कन्धमारुह्य पुरुषोत्तमः ॥ ३ ॥
जगाम देवताभिर्वै देवदेवान्तिकं हरिः ।
सर्वे सम्प्राप्य देवस्य सार्धं गिरिवरं शुभम् ॥ ४ ॥
सेन्द्राः ससाध्याः सयमाः प्रणेमुर्गिरिमुत्तमम् ।
भगवान् वासुदेवोऽसौ गरुडाद् गरुडध्वजः ।
अवतीर्य गिरिं मेरुमारुरोह सुरोत्तमैः ॥ ५ ॥
सकलदुरितहीनं सर्वदं भोगमुख्यं मुदितकुररवृन्दं नादितं नागवृन्दैः ।
मधुररणितगीतं सानुकूलान्धकारं पदरचितवनान्तं कान्तवातान्ततोयम् ॥ ६ ॥
भवनशतसहस्रैर्जुष्टमादित्यकल्पैर्ललितगतिविदग्धैर्हंसवृन्दैश्च भिन्नम् ।
धवखदिरपलाशैश्चन्दनाद्यैश्च वृक्षैर्द्विजवरगणवृन्दैः कोकिलाद्यैर्द्विरेफैः ॥ ७ ॥
क्वचिदशेषसुरद्रुमसङ्कुलं कुरबकैः प्रियकैस्तिलकैस्तथा ।
बहुकदम्बतमाललतावृतं गिरिवरं शिखरैर्विविधैस्तथा ॥ ८ ॥
गिरेः पृष्ठे परं शार्वं कल्पितं विश्वकर्मणा ।
क्रीडार्थं देवदेवस्य भवस्य परमेष्ठिनः ॥ ९ ॥
अपश्यंस्तत्पुरं देवाः सेन्द्रोपेन्द्राः समाहिताः ।
प्रणेमुर्दूरतश्चैव प्रभावादेव शूलिनः ॥ १० ॥
सहस्रसूर्यप्रतिमं महान्तं सहस्रशः सर्वगुणैश्च भिन्नम् ।
जगाम कैलासगिरिं महात्मा मेरुप्रभागे पुरमादिदेवः ॥ ११ ॥
ततोऽथ नारिगजवाजिसङ्कुलं रथैरनेकैरमरारिसूदनः ।
गणैर्गणेशैश्च गिरीन्द्रसन्निभं महापुरद्वारमजो हरिश्च ॥ १२ ॥
अथ जाम्बूनदमयैर्भवनैर्मणिभूषितैः ।
विमानैर्विविधाकारैः प्राकारैश्च समावृतम् ॥ १३ ॥
दृष्ट्वा शम्भोः पुरं बाह्यं देवैः सब्रह्मकैर्हरिः ।
प्रहृष्टवदनो भूत्वा प्रविवेश ततः पुरम् ॥ १४ ॥
हर्म्यप्रासादसम्बाधं महाट्टालसमन्वितम् ।
द्वितीयं देवदेवस्य चतुर्द्वारं सुशोभनम् ॥ १५ ॥
वज्रवैडूर्यमाणिक्य मणिजालैः समावृतम् ।
दोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम् ॥ १६ ॥
मृदङ्गमुरजैर्जुष्टं वीणावेणुनिनादितम् ।
नृत्यद्भिरप्सरःसङ्घैर्भूतसङ्घैश्च संवृतम् ।
देवेन्द्रभवनाकारैर्भवनैर्दृष्टिमोहनैः ॥ १७ ॥
प्रासादशृङ्गेष्वथ पौरनार्यः सहस्रशः पुष्पफलाक्षताद्यैः ।
स्थिताः करैस्तस्य हरेः समन्तात् प्रचिक्षिपुर्मूर्ध्नि यथा भवस्य ॥ १८ ॥
दृष्ट्वा नार्यस्तदा विष्णुं मदाघूर्णितलोचनाः ॥ १९ ॥
विशालजघनाः सद्यो ननृतुर्मुमुदुर्जगुः ।
काश्चिद्दृष्ट्वा हरिं नार्यः किञ्चित् प्रहसिताननाः ॥ २० ॥
किञ्चिद्विस्रस्तवस्त्राश्च स्रस्तकाञ्चीगुणा जगुः ।
चतुर्थं पञ्चमं चैव षष्ठं च सप्तमं तथा ॥ २१ ॥
अष्टमं नवमं चैव दशमं च पुरोत्तमम् ।
अतीत्यासाद्य देवस्य पुरं शम्भोः सुशोभनम् ॥ २२ ॥
सुवृत्तं सुतरां शुभ्रं कैलासशिखरे शुभे ।
सूर्यमण्डलसङ्काशैर्विमानैश्च विभूषितम् ॥ २३ ॥
स्फाटिकैर्मण्डपैः शुभ्रैर्जाम्बूनदमयैस्तथा ।
नानारत्नमयैश्चैव दिग्विदिक्षु विभूषितम् ॥ २४ ॥
गोपुरैर्गोपतेः शम्भोर्नानाभूषणभूषितैः ।
अनेकैः सर्वतोभद्रैः सर्वरत्नमयैस्तथा ॥ २५ ॥
प्राकारैर्विविधाकारैरष्टाविंशतिभिर्वृतम् ।
उपद्वारैर्महाद्वारैर्विदिक्षु विविधैर्दृढैः ॥ २६ ॥
गुह्यालयैर्गुह्यगृहैर्गुहस्य भवनैः शुभैः ।
ग्राम्यैरन्यैर्महाभागा मौक्तिकैर्दृष्टिमोहनैः ॥ २७ ॥
गणेशायतनैर्दिव्यैः पद्मरागमयैस्तथा ।
चन्दनैर्विविधाकारैः पुष्पोद्यानैश्च शोभनैः ॥ २८ ॥
तडागैर्दिर्घिकाभिश्च हेमसोपानपङ्क्तिभिः ।
स्त्रीणां गतिजितैर्हंसैः सेविताभिः समन्ततः ॥ २९ ॥
मयूरैश्चैव कारण्डैः कोकिलैश्चक्रवाककैः ।
शोभिताभिश्च वापीभिर्दिव्यामृतजलैस्तथा ॥ ३० ॥
संलापालापकुशलैः सर्वाभरणभूषितैः ।
स्तनभारावनम्रैश्च मदाघूर्णितलोचनैः ॥ ३१ ॥
गेयनादरतैर्दिव्यै रुद्रकन्यासहस्रकैः ।
नृत्यद्भिरप्सरःसङ्घैरमरैरपि दुर्लभैः ॥ ३२ ॥
प्रफुल्लाम्बुजवृन्दाद्यैस्तथा द्विजवरैरपि ।
रुद्रस्त्रीगणसङ्कीर्णैर्जलक्रीडारतैस्तथा ॥ ३३ ॥
रतोत्सवरतैश्चैव ललितैश्च पदे पदे ।
ग्रामरागानुरक्तैश्च पद्मरागसमप्रभैः ॥ ३४ ॥
स्त्रीसङ्घैर्देवदेवस्य भवस्य परमात्मनः ।
दृष्ट्वा विस्मयमापन्नास्तस्थुर्देवाः समन्ततः ॥ ३५ ॥
तत्रैव ददृशुर्देवा वृन्दं रुद्रगणस्य च ।
गणेश्वराणां वीराणामपि वृन्दं सहस्रशः ॥ ३६ ॥
सुवर्णकृतसोपानान् वज्रवैडूर्यभूषितान् ।
स्फाटिकान् देवदेवस्य ददृशुस्ते विमानकान् ॥ ३७ ॥
तेषां शृङ्गेषु हृष्टाश्च नार्यः कमललोचनाः ।
विशालजघना यक्षा गन्धर्वाप्सरसस्तथा ॥ ३८ ॥
किन्नर्यः किंनराश्चैव भुजङ्गाः सिद्धकन्यकाः ।
नानावेषधराश्चान्या नानाभूषणभूषिताः ॥ ३९ ॥
नानाप्रभावसंयुक्ता नानाभोगरतिप्रियाः ।
नीलोत्पलदलप्रख्याः पद्मपत्रायतेक्षणाः ॥ ४० ॥
पद्मकिञ्जल्कसङ्काशैरंशुकैरतिशोभनाः ।
वलयैर्नूपुरैर्हारैश्छत्रैश्चित्रैस्तथांशुकैः ॥ ४१ ॥
भूषिता भूषितैश्चान्यैर्मण्डिता मण्डनप्रियाः ।
दृष्ट्वाथ वृन्दं सुरसुन्दरीणां गणेश्वराणां सुरसुन्दरीणाम् ।
जग्मुर्गणेशस्य पुरं सुरेशाः पुरद्विषः शक्रपुरोगमाश्च ॥ ४२ ॥
दृष्ट्वा च तस्थुः सुरसिद्धसङ्घाः पुरस्य मध्ये पुरुहूतपूर्वाः ।
भवस्य बालार्कसहस्रवर्णं विमानमाद्यं परमेश्वरस्य ॥ ४३ ॥
अथ तस्य विमानस्य द्वारि संस्थं गणेश्वरम् ।
नन्दिनं ददृशुः सर्वे देवाः शक्रपुरोगमाः ॥ ४४ ॥
तं दृष्ट्वा नन्दिनं सर्वे प्रणम्याहुर्गणेश्वरम् ।
जयेति देवास्तं दृष्ट्वा सोऽप्याह च गणेश्वरः ॥ ४५ ॥
भो भो देवा महाभागाः सर्वे निर्धूतकल्मषाः ।
सम्प्राप्ताः सर्वलोकेशा वक्तुमर्हथ सुव्रताः ॥ ४६ ॥
तमाहुर्वरदं देवं वारणेन्द्रसमप्रभम् ।
पशुपाशविमोक्षार्थं दर्शयास्मान् महेश्वरम् ॥ ४७ ॥
पुरा पुरत्रयं दग्धुं पशुत्वं परिभाषितम् ।
शङ्किताश्च वयं तत्र पशुत्वं प्रति सुव्रत ॥ ४८ ॥
व्रतं पाशुपतं प्रोक्तं भवेन परमेष्ठिना ।
व्रतेनानेन भूतेश पशुत्वं नैव विद्यते ॥ ४९ ॥
अथ द्वादशवर्षं वा मासद्वादशकं तु वा ।
दिनद्वादशकं वापि कृत्वा तद्व्रतमुत्तमम् ॥ ५० ॥
मुच्यन्ते पशवः सर्वे पशुपाशैर्भवस्य तु ।
दर्शयामास तान्देवान्नारायणपुरोगमान् ॥ ५१ ॥
नन्दी शिलादतनयः सर्वभूतगणाग्रणीः ।
तं दृष्ट्वा देवमीशानं साम्बं सगणमव्ययम् ॥ ५२ ॥
प्रणेमुस्तुष्टुवुश्चैव प्रीतिकण्टकितत्वचः ।
विज्ञाप्य शितिकण्ठाय पशुपाशविमोक्षणम् ॥ ५३ ॥
तस्थुस्तदाग्रतः शम्भोः प्रणिपत्य पुनः पुनः ।
ततः सम्प्रेक्ष्य तान् सर्वान् देवदेवो वृषध्वजः ॥ ५४ ॥
विशोध्य तेषां देवानां पशुत्वं परमेश्वरः ।
व्रतं पाशुपतं चैव स्वयं देवो महेश्वरः ॥ ५५ ॥
उपदिश्य मुनीनां च सहास्ते चाम्बया भवः ।
तदाप्रभृति ते देवाः सर्वे पाशुपताः स्मृताः ॥ ५६ ॥
पशूनां च पतिर्यस्मात्तेषां साक्षाद्धि देवताः ।
तस्मात्पाशुपताः प्रोक्तास्तपस्तेपुश्च ते पुनः ॥ ५७ ॥
ततो द्वादशवर्षान्ते मुक्तपाशाः सुरोत्तमाः ।
ययुर्यथागतं सर्वे ब्रह्मणा सह विष्णुना ॥ ५८ ॥
एतद्वः कथितं सर्वं पितामहमुखाच्छ्रुतम् ।
पुरा सनत्कुमारेण तस्माद्व्यासेन धीमता ॥ ५९ ॥
यः श्रावयेच्छुचिर्विप्राञ्छृणुयाद्वा शुचिर्नरः ।
स देहभेदमासाद्य पशुपाशैः प्रमुच्यते ॥ ६० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पाशुपतव्रतमाहात्म्यं नामाशीतितमोऽध्यायः ॥ ८० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-80

कोई टिप्पणी नहीं:

123