श्रीलिङ्गमहापुराण -[पूर्वभाग] -078
॥ श्रीसाम्बसदाशिवाय नमः ॥
अठहत्तरवाँ अध्याय
शिवाचार के परिपालन में अहिंसाधर्म की महिमा एवं शिवभक्ति का माहात्म्य
श्रीलिङ्गमहापुराणे पूर्वभागे अष्टसप्ततितमोऽध्यायः
भक्तिमहिमवर्णनं
॥ सूत उवाच ॥
वस्त्रपूतेन तोयेन कार्यं चैवोपलेपनम् ।
शिवक्षेत्रे मुनिश्रेष्ठा नान्यथा सिद्धिरिष्यते ॥ १ ॥
आपः पूता भवन्त्येता वस्त्रपूताः समुद्धृताः ।
अफेना मुनिशार्दूला नादेयाश्च विशेषतः ॥ २ ॥
तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः ।
अद्भिः कार्याणि पूताभिः सर्वकार्यप्रसिद्धये ॥ ३ ॥
जन्तुभिर्मिश्रिता ह्यापः सूक्ष्माभिस्तान्निहत्य तु ।
यत्पापं सकलं चाद्भिरपूताभिश्चिरं लभेत् ॥ ४ ॥
सम्मार्जने तथा नॄणां मार्जने च विशेषतः ।
अग्नौ कण्डनके चैव पेषणे तोयसङ्ग्रहे ॥ ५ ॥
हिंसा सदा गृहस्थानां तस्माद्धिंसां विवर्जयेत् ।
अहिंसेयं परो धर्मः सर्वेषां प्राणिनां द्विजाः ॥ ६ ॥
तस्मात् सर्वप्रयत्नेन वस्त्रपूतं समाचरेत् ।
तद्दानमभयं पुण्यं सर्वदानोत्तमोत्तमम् ॥ ७ ॥
तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा ।
मनसा कर्मणा वाचा सर्वदाहिंसकं नरम् ॥ ८ ॥
रक्षन्ति जन्तवः सर्वे हिंसकं बाधयन्ति च ।
त्रैलोक्यमखिलं दत्त्वा यत्फलं वेदपारगे ॥ ९ ॥
तत्फलं कोटिगुणितं लभतेऽहिंसको नरः ।
मनसा कर्मणा वाचा सर्वभूतहिते रताः ॥ १० ॥
दयादर्शितपन्थानो रुद्रलोकं व्रजन्ति च ।
स्वामिवत् परिरक्षन्ति बहूनि विविधानि च ॥ ११ ॥
ये पुत्रपौत्रवत्स्नेहाद्रुद्रलोकं व्रजन्ति ते ।
तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा ॥ १२ ॥
कार्यमभ्युक्षणं नित्यं स्नपनं च विशेषतः ।
त्रैलोक्यमखिलं हत्वा यत्फलं परिकीर्त्यते ॥ १३ ॥
शिवालये निहत्यैकमपि तत्सकलं लभेत् ।
शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमाः ॥ १४ ॥
यज्ञार्थं पशुहिंसा च क्षत्रियैर्दुष्टशासनम् ।
विहिताविहितं नास्ति योगिनां ब्रह्मवादिनाम् ॥ १५ ॥
यतस्तस्मान्न हन्तव्या निषिद्धानां निषेवणात् ।
सर्वकर्माणि विन्यस्य सन्न्यस्ता ब्रह्मवादिनः ॥ १६ ॥
न हन्तव्याः सदा पूज्याः पापकर्मरता अपि ।
पवित्रास्तु स्त्रियः सर्वा अत्रेश्च कुलसम्भवाः ॥ १७ ॥
ब्रह्महत्यासमं पापमात्रेयीं विनिहत्य च ।
स्त्रियः सर्वा न हन्तव्याः पापकर्मरता अपि ॥ १८ ॥
न यज्ञार्थं स्त्रियो ग्राह्याः सर्वैः सर्वत्र सर्वदा ।
सर्ववर्णेषु विप्रेन्द्राः पापकर्मरता अपि ॥ १९ ॥
मलिना रूपवत्यश्च विरूपा मलिनाम्बराः ।
न हन्तव्याः सदा मर्त्यैः शिववच्छङ्कया तथा ॥ २० ॥
वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः ।
पाषण्डिन इति ख्याता न सम्भाष्या द्विजातिभिः ॥ २१ ॥
न स्प्रष्टव्या न द्रष्टव्या दृष्ट्वा भानुं समीक्षते ।
तथापि तेन वध्याश्च नृपैरन्यैश्च जन्तुभिः ॥ २२ ॥
प्रसङ्गाद्वापि यो मर्त्यः सतां सकृदहो द्विजाः ।
रुद्रलोकमवाप्नोति समभ्यर्च्य महेश्वरम् ॥ २३ ॥
भवन्ति दुःखिताः सर्वे निर्दया मुनिसत्तमाः ।
भक्तिहीना नराः सर्वे भवे परमकारणे ॥ २४ ॥
ये भक्ता देवदेवस्य शिवस्य परमेष्ठिनः ।
भाग्यवन्तो विमुच्यन्ते भुक्त्वा भोगानिहैव ते ॥ २५ ॥
पुत्रेषु दारेषु गृहेषु नॄणां भक्तं यथा चित्तमथादिदेवे ।
सकृत् प्रसङ्गाद्यतितापसानां तेषां न दूरः परमेशलोकः ॥ २६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भक्तिमहिमवर्णनं
नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें