श्रीलिङ्गमहापुराण -[पूर्वभाग] -076

श्रीलिङ्गमहापुराण -[पूर्वभाग] -076
॥ श्रीसाम्बसदाशिवाय नमः ॥
छिहत्तरवाँ अध्याय
विविध शिवस्वरूपों की प्रतिष्ठा एवं उपासना का फल
श्रीलिङ्गमहापुराणे पूर्वभागे षट्सप्ततितमोऽध्यायः
शिवमूर्तिप्रतिष्ठाफलकथनं

॥ सूत उवाच ॥
अतः परं प्रवक्ष्यामि स्वेच्छाविग्रहसम्भवम् ।
प्रतिष्ठायाः फलं सर्वं सर्वलोकहिताय वै ॥ १ ॥
स्कन्दोमासहितं देवमासीनं परमासने ।
कृत्वा भक्त्या प्रतिष्ठाप्य सर्वान् कामानवाप्नुयात् ॥ २ ॥


स्कन्दोमासहितं देवं सम्पूज्य विधिना सकृत् ।
यत्फलं लभते मर्त्यस्तद्वदामि यथाश्रुतम् ॥ ३ ॥
सूर्यकोटिप्रतिकाशैर्विमानैः सार्वकामिकैः ।
रुद्रकन्यासमाकीर्णैर्गेयनाट्यसमन्वितैः ॥ ४ ॥
शिववत्क्रीडते योगी यावदाभूतसम्प्लवम् ।
तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः ॥ ५ ॥
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च ।
प्राजापत्यं महातेजा जनलोकं महस्तथा ॥ ६ ॥
ऐन्द्रमासाद्य चैन्द्रत्वं कृत्वा वर्षायुतं पुनः ।
भुक्त्वा चैव भुवर्लोके भोगान् दिव्यान् सुशोभनान् ॥ ७ ॥
मेरुमासाद्य देवानां भवनेषु प्रमोदते ।
एकपादं चतुर्बाहुं त्रिनेत्रं शूलसंयुतम् ॥ ८ ॥
सृष्ट्वा स्थितं हरिं वामे दक्षिणे चतुराननम् ।
अष्टाविंशतिरुद्राणां कोटिः सर्वाङ्गसुप्रभम् ॥ ९ ॥
पञ्चविंशतिकं साक्षात् पुरुषं हृदयात्तथा ।
प्रकृतिं वामतश्चैव बुद्धिं वै बुद्धिदेशतः ॥ १० ॥
अहङ्कारमहङ्कारात्तन्मात्राणि तु तत्र वै ।
इन्द्रियाणीन्द्रियादेव लीलया परमेश्वरम् ॥ ११ ॥
पृथिवीं पादमूलात्तु गुह्यदेशाज्जलं तथा ।
नाभिदेशात्तथा वह्निं हृदयाद्भास्करं तथा ॥ १२ ॥
कण्ठात्सोमं तथात्मानं भ्रूमध्यान्मस्तकाद्दिवम् ।
सृष्टवैवं संस्थितं साक्षाज्जगत् सर्वं चराचरम् ॥ १३ ॥
सर्वज्ञं सर्वगं देवं कृत्वा विद्याविधानतः ।
प्रतिष्ठाप्य यथान्यायं शिवसायुज्यमाप्नुयात् ॥ १४ ॥
त्रिपादं सप्तहस्तं च चतुःशृङ्गं द्विशीर्षकम् ।
कृत्वा यज्ञेशमीशानं विष्णुलोके महीयते ॥ १५ ॥
तत्र भुक्त्वा महाभोगान् कल्पलक्षं सुखी नरः ।
क्रमादागत्य लोकेऽस्मिन् सर्वयज्ञान्तगो भवेत् ॥ १६ ॥
वृषारूढं तु यः कुर्यात्सोमं सोमार्धभूषणम् ।
हयमेधायुतं कृत्वा यत्पुण्यं तदवाप्य सः ॥ १७ ॥
काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा शिवपुरं दिव्यं तत्रैव स विमुच्यते ॥ १८ ॥
नन्दिना सहितं देवं साम्बं सर्वगणैर्वृतम् ।
कृत्वा यत्फलमाप्नोति वक्ष्ये तद्वै यथाश्रुतम् ॥ १९ ॥
सूर्यमण्डलसङ्काशैर्विमानैर्वृषसंयुतैः ।
अप्सरोगणसङ्कीर्णैर्देवदानवदुर्लभैः ॥ २० ॥
नृत्यद्भिरप्सरःसङ्घैः सर्वतः सर्वशोभितैः ।
गत्वा शिवपुरं दिव्यं गाणपत्यमवाप्नुयात् ॥ २१ ॥
नृत्यन्तं देवदेवेशं शैलजासहितं प्रभुम् ।
सहस्रबाहुं सर्वज्ञं चतुर्बाहुमथापि वा ॥ २२ ॥
भृग्वाद्यैर्भूतसङ्घैश्च संवृतं परमेश्वरम् ।
शैलजासहितं साक्षाद्वृषभध्वजमीश्वरम् ॥ २३ ॥
ब्रह्मेन्द्रविष्णुसोमाद्यैः सदा सर्वैर्नमस्कृतम् ।
मातृभिर्मुनिभिश्चैव संवृतं परमेश्वरम् ॥ २४ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम् ।
सर्वयज्ञतपोदान तीर्थदेवेषु यत्फलम् ॥ २५ ॥
तत्फलं कोटिगुणितं लब्ध्वा याति शिवं पदम् ।
तत्र भुक्त्वा महाभोगान् यावदाभूतसम्प्लवम् ॥ २६ ॥
सृष्ट्यन्तरे पुनः प्राप्ते मानवं पदमाप्नुयात् ।
नग्नं चतुर्भुजं श्वेतं त्रिनेत्रं सर्पमेखलम् ॥ २७ ॥
कपालहस्तं देवेशं कृष्णकुञ्चितमूर्धजम् ।
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् ॥ २८ ॥
इभेन्द्रदारकं देवं साम्बं सिद्धार्थदं प्रभुम् ।
सुधूम्रवर्णं रक्ताक्षं त्रिनेत्रं चन्द्रभूषणम् ॥ २९ ॥
काकपक्षधरं मूर्ध्ना नागटङ्कधरं हरम् ।
सिंहाजिनोत्तरीयं च मृगचर्माम्बरं प्रभुम् ॥ ३० ॥
तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम् ।
हुंफट्कारे महाशब्द शब्दिताखिलदिङ्मुखम् ॥ ३१ ॥
पुण्डरीकाजिनं दोर्भ्यां बिभ्रन्तं कम्बुकं तथा ।
हसन्तं च नदन्तं च पिबन्तं कृष्णसागरम् ॥ ३२ ॥
नृत्यन्तं भूतसङ्घैश्च गणसङ्घैस्त्वलङ्कृतम् ।
कृत्वा भक्त्या प्रतिष्ठाप्य यथाविभवविस्तरम् ॥ ३३ ॥
सर्वविघ्नानतिक्रम्य शिवलोके महीयते ।
तत्र भुक्त्वा महाभोगान् यावदाभूतसम्प्लवम् ॥ ३४ ॥
ज्ञानं विचारतो लब्ध्वा रुद्रेभ्यस्तत्र मुच्यते ।
अर्धनारीश्वरं देवं चतुर्भुजमनुत्तमम् ॥ ३५ ॥
वरदाभयहस्तं च शूलपद्मधरं प्रभुम् ।
स्त्रीपुम्भावेन संस्थानं सर्वाभरणभूषितम् ॥ ३६ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते ।
तत्र भुक्त्वा महाभोगानणिमादिगुणैर्युतः ॥ ३७ ॥
आचन्द्रतारकं ज्ञानं ततो लब्ध्वा विमुच्यते ।
यः कुर्याद्देवदेवेशं सर्वज्ञं लकुलीश्वरम् ॥ ३८ ॥
वृतं शिष्यप्रशिष्यैश्च व्याख्यानोद्यतपाणिनम् ।
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोकं स गच्छति ॥ ३९ ॥
भुक्त्वा तु विपुलांस्तत्र भोगान् युगशतं नरः ।
ज्ञानयोगं समासाद्य तत्रैव च विमुच्यते ॥ ४० ॥
पूर्वदेवामराणां च यत्स्थानं सकलेप्सितम् ।
कृतमुद्रस्य देवस्य चिताभस्मानुलेपिनः ॥ ४१ ॥
त्रिपुण्ड्रधारिणस्तेषां शिरोमालाधरस्य च ।
ब्रह्मणः केशकेनैकमुपवीतं च बिभ्रतः ॥ ४२ ॥
बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वरम् ।
विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः ॥ ४३ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवसागरात् ।
ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् ॥ ४४ ॥
मन्त्रमाह सकृद्वा यः पातकैः स विमुच्यते ।
मन्त्रेणानेन गन्धाद्यैर्भक्त्या वित्तानुसारतः ॥ ४५ ॥
सम्पूज्य देवदेवेशं शिवलोके महीयते ।
जालन्धरान्तकं देवं सुदर्शनधरं प्रभुम् ॥ ४६ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य द्विधाभूतं जलन्धरम् ।
प्रयाति शिवसायुज्यं नात्र कार्या विचारणा ॥ ४७ ॥
सुदर्शनप्रदं देवं साक्षात् पूर्वोक्तलक्षणम् ।
अर्चमानेन देवेन चार्चितं नेत्रपूजया ॥ ४८ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते ।
तिष्ठतोऽथ निकुम्भस्य पृष्ठतश्चरणाम्बुजम् ॥ ४९ ॥
वामेतरं सुविन्यस्य वामे चालिङ्ग्य चाद्रिजाम् ।
शूलाग्रे कूर्परं स्थाप्य किङ्किणीकृतपन्नगम् ॥ ५० ॥
सम्प्रेक्ष्य चान्धकं पार्श्वे कृताञ्जलिपुटं स्थितम् ।
रूपं कृत्वा यथान्यायं शिवसायुज्यमाप्नुयात् ॥ ५१ ॥
यः कुर्याद्देवदेवेशं त्रिपुरान्तकमीश्वरम् ।
धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम् ॥ ५२ ॥
रथे सुसंस्थितं देवं चतुराननसारथिम् ।
तदाकारतया सोऽपि गत्वा शिवपुरं सुखी ॥ ५३ ॥
क्रीडते नात्र सन्देहो द्वितीय इव शङ्करः ।
तत्र भुक्त्वा महाभोगान् यावदिच्छा द्विजोत्तमाः ॥ ५४ ॥
ज्ञानं विचारितं लब्ध्वा तत्रैव स विमुच्यते ॥ ५५ ॥
गङ्गाधरं सुखासीनं चन्द्रशेखरमेव च ॥ ५६ ॥
गङ्गया सहितं चैव वामोत्सङ्गेऽम्बिकान्वितम् ।
विनायकं तथा स्कन्दं ज्येष्ठं दुर्गां सुशोभनाम् ॥ ५७ ॥
भास्करं च तथा सोमं ब्रह्माणीं च महेश्वरीम् ।
कौमारीं वैष्णवीं देवीं वाराहीं वरदां तथा ॥ ५८ ॥
इन्द्राणीं चैव चामुण्डां वीरभद्रसमन्विताम् ।
विघ्नेशेन च यो धीमान् शिवसायुज्यमाप्नुयात् ॥ ५९ ॥
लिङ्गमूर्तिं महाज्वालामालासंवृतमव्ययम् ।
लिङ्गस्य मध्ये वै कृत्वा चन्द्रशेखरमीश्वरम् ॥ ६० ॥
व्योम्नि कुर्यात्तथा लिङ्गं ब्रह्माणं हंसरूपिणम् ।
विष्णुं वराहरूपेण लिङ्गस्याधस्त्वधोमुखम् ॥ ६१ ॥
ब्रह्माणं दक्षिणे तस्य कृताञ्जलिपुटं स्थितम् ।
मध्ये लिङ्गं महाघोरं महाम्भसि च संस्थितम् ॥ ६२ ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् ।
क्षेत्रसंरक्षकं देवं तथा पाशुपतं प्रभुम् ॥ ६३ ॥
कृत्वा भक्त्या यथान्यायं शिवलोके महीयते ॥ ६४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवमूर्तिप्रतिष्ठाफलकथनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-76

कोई टिप्पणी नहीं:

123