श्रीलिङ्गमहापुराण -[पूर्वभाग] -079

श्रीलिङ्गमहापुराण -[पूर्वभाग] -079
॥ श्रीसाम्बसदाशिवाय नमः ॥
उन्यासीवाँ अध्याय
शिवपूजा से सभी का कल्याण, शिवपूजा की विधि एवं शिवमन्दिर में दीपदान की महिमा
श्रीलिङ्गमहापुराणे पूर्वभागे एकोनाशीतितमोऽध्यायः
शिवार्चनविधि

॥ ऋषय ऊचुः ॥
कथं पूज्यो महादेवो मर्त्यैर्मन्दैर्महामते ।
कल्पायुषैरल्पवीर्यैरल्पसत्त्वैः प्रजापतिः ॥ १ ॥
संवत्सरसहस्रैश्च तपसा पूज्य शङ्करम् ।
न पश्यन्ति सुराश्चापि कथं देवं यजन्ति ते ॥ २ ॥


॥ सूत उवाच ॥
कथितं तथ्यमेवात्र युष्माभिर्मुनिपुङ्गवाः ।
तथापि श्रद्धया दृश्यः पूज्यः सम्भाष्य एव च ॥ ३ ॥
प्रसङ्गाच्चैव सम्पूज्य भक्तिहीनैरपि द्विजाः ।
भावानुरूपफलदो भगवानिति कीर्तितः ॥ ४ ॥
उच्छिष्टः पूजयन् याति पैशाचं तु द्विजाधमः ।
सङ्क्रुद्धो राक्षसं स्थानं प्राप्नुयान् मूढधीर्द्विजाः ॥ ५ ॥
अभक्ष्यभक्षी सम्पूज्य याक्षं प्राप्नोति दुर्जनः ।
गानशीलश्च गान्धर्वं नृत्यशीलस्तथैव च ॥ ६ ॥
ख्यातिशीलस्तथा चान्द्रं स्त्रीषु सक्तो नराधमः ।
मदार्तः पूजयन् रुद्रं सोमस्थानमवाप्नुयात् ॥ ७ ॥
गायत्र्या देवमभ्यर्च्य प्राजापत्यमवाप्नुयात् ।
ब्राह्मं हि प्रणवेनैव वैष्णवं चाभिनन्द्य च ॥ ८ ॥
श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम् ।
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते ॥ ९ ॥
संशोध्य च शुभं लिङ्गममरासुरपूजितम् ।
जलैः पूतैस्तथा पीठे देवमावाह्य भक्तितः ॥ १० ॥
दृष्ट्वा देवं यथान्यायं प्रणिपत्य च शङ्करम् ।
कल्पिते चासने स्थाप्य धर्मज्ञानमये शुभे ॥ ११ ॥
वैराग्यैश्वर्यसम्पन्ने सर्वलोकनमस्कृते ।
ओङ्कारपद्ममध्ये तु सोमसूर्याग्निसम्भवे ॥ १२ ॥
पाद्यमाचमनं चार्घ्यं दत्त्वा रुद्राय शम्भवे ।
स्नापयेद्दिव्यतोयैश्च घृतेन पयसा तथा ॥ १३ ॥
दध्ना च स्नापयेद्रुद्रं शोधयेच्च यथाविधि ।
ततः शुद्धाम्बुना स्नाप्य चन्दनाद्यैश्च पूजयेत् ॥ १४ ॥
रोचनाद्यैश्च सम्पूज्य दिव्यपुष्पैश्च पूजयेत् ।
बिल्वपत्रैरखण्डैश्च पद्मैर्नानाविधैस्तथा ॥ १५ ॥
नीलोत्पलैश्च राजीवैर्नद्यावर्तैश्च मल्लिकैः ।
चम्पकैर्जातिपुष्पैश्च बकुलैः करवीरकैः ॥ १६ ॥
शमीपुष्पैर्बृहत्पुष्पैरुन्मत्तागस्त्यजैरपि ।
अपामार्गकदम्बैश्च भूषणैरपि शोभनैः ॥ १७ ॥
दत्त्वा पञ्चविधं धूपं पायसं च निवेदयेत् ।
दधिभक्तं च मध्वाज्य परिप्लुतमतः परम् ॥ १८ ॥
शुद्धान्नं चैव मुद्गान्नं षड्विधं च निवेदयेत् ।
अथ पञ्चविधं वापि सघृतं विनिवेदयेत् ॥ १९ ॥
केवलं चापि शुद्धान्नमाढकं तण्डुलं पचेत् ।
कृत्वा प्रदक्षिणं चान्ते नमस्कृत्य मुहुर्मुहुः ॥ २० ॥
स्तुत्वा च देवमीशानं पुनः सम्पूज्य शङ्करम् ।
ईशानं पुरुषं चैव अघोरं वाममेव च ॥ २१ ॥
सद्योजातं जपंश्चापि पञ्चभिः पूजयेच्छिवम् ।
अनेन विधिना देवः प्रसीदति महेश्वरः ॥ २२ ॥
वृक्षाः पुष्पादिपत्राद्यैरुपयुक्ताः शिवार्चने ।
गावश्चैव द्विजश्रेष्ठाः प्रयान्ति परमां गतिम् ॥ २३ ॥
पूजयेद्यः शिवं रुद्रं शर्वं भवमजं सकृत् ।
स याति शिवसायुज्यं पुनरावृत्तिवर्जितम् ॥ २४ ॥
अर्चितं परमेशानं भवं शर्वमुमापतिम् ।
सकृत् प्रसङ्गाद्वा दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ २५ ॥
पूजितं वा महादेवं पूज्यमानमथापि वा ।
दृष्ट्वा प्रयाति वै मर्त्यो ब्रह्मलोकं न संशयः ॥ २६ ॥
श्रुत्वानुमोदयेच्चापि स याति परमां गतिम् ।
यो दद्याद्घृतदीपं च सकृल्लिङ्गस्य चाग्रतः ॥ २७ ॥
स तां गतिमवाप्नोति स्वाश्रमैर्दुर्लभां स्थिराम् ।
दीपवृक्षं पार्थिवं वा दारवं वा शिवालये ॥ २८ ॥
दत्त्वा कुलशतं साग्रं शिवलोके महीयते ।
आयसं ताम्रजं वापि रौप्यं सौवर्णिकं तथा ॥ २९ ॥
शिवाय दीपं यो दद्याद्विधिना वापि भक्तितः ।
सूर्यायुतसमैः श्लक्ष्णैर्यानैः शिवपुरं व्रजेत् ॥ ३० ॥
कार्तिके मासि यो दद्याद्घृतदीपं शिवाग्रतः ।
सम्पूज्यमानं वा पश्येद्विधिना परमेश्वरम् ॥ ३१ ॥
स याति ब्रह्मणो लोकं श्रद्धया मुनिसत्तमाः ।
आवाहनं सुसान्निध्यं स्थापनं पूजनं तथा ॥ ३२ ॥
सम्प्रोक्तं रुद्रगायत्र्या आसनं प्रणवेन वै ।
पञ्चभिः स्नपनं प्रोक्तं रुद्राद्यैश्च विशेषतः ॥ ३३ ॥
एवं सम्पूजयेन्नित्यं देवदेवमुमापतिम् ।
ब्रह्माणं दक्षिणे तस्य प्रणवेन समर्चयेत् ॥ ३४ ॥
उत्तरे देवदेवेशं विष्णुं गायत्रिया यजेत् ।
वह्नौ हुत्वा यथान्यायं पञ्चभिः प्रणवेन च ॥ ३५ ॥
स याति शिवसायुज्यमेवं सम्पूज्य शङ्करम् ।
इति सङ्क्षेपतः प्रोक्तो लिङ्गार्चनविधिक्रमः ॥ ३६ ॥
व्यासेन कथितः पूर्वं श्रुत्वा रुद्रमुखात्स्वयम् ॥ ३७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवार्चनविधिर्नामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-79

कोई टिप्पणी नहीं:

123