श्रीलिङ्गमहापुराण -[पूर्वभाग] -077

श्रीलिङ्गमहापुराण -[पूर्वभाग] -077
॥ श्रीसाम्बसदाशिवाय नमः ॥
सतहत्तरवाँ अध्याय
शिवमन्दिरों के निर्माण का फल, शिवक्षेत्रों तथा शिवतीर्थों के सेवन की महिमा, शिवमन्दिर के उपलेपन आदि का माहात्म्य
श्रीलिङ्गमहापुराणे पूर्वभागे सप्तसप्ततितमोऽध्यायः
उपलेपनादिकथनं

॥ ऋषय ऊचुः ॥
लिङ्गप्रतिष्ठापुण्यं च लिङ्गस्थापनमेव च ।
लिङ्गानां चैव भेदाश्च श्रुतं तव मुखादिह ॥ १ ॥
मृदादिरत्नपर्यन्तैर्द्रव्यैः कृत्वा शिवालयम् ।
यत्फलं लभते मर्त्यस्तत्फलं वक्तुमर्हसि ॥ २ ॥


॥ सूत उवाच ॥
यस्य भक्तोऽपि लोकेऽस्मिन् पुत्रदारगृहादिभिः ।
बाध्यते ज्ञानयुक्तश्चेन्न च तस्य गृहैस्तु किम् ॥ ३ ॥
तथापि भक्ताः परमेश्वरस्य कृत्वेष्टलोष्टैरपि रुद्रलोकम् ।
प्रयान्ति दिव्यं हि विमानवर्यं सुरेन्द्रपद्मोद्भववन्दितस्य ॥ ४ ॥
बाल्यात्तु लोष्टेन च कृत्वा मृदापि वा पांसुभिरादिदेवम् ।*
गृहं च तादृग्विधमस्य शम्भोः सम्पूज्य रुद्रत्वमवाप्नुवन्ति ॥ ५ ॥*
तस्मात् सर्वप्रयत्नेन भक्त्या भक्तैः शिवालयम् ।
कर्तव्यं सर्वयत्नेन धर्मकामार्थसिद्धये ॥ ६ ॥
केसरं नागरं वापि द्राविडं वा तथापरम् ।
कृत्वा रुद्रालयं भक्त्या शिवलोके महीयते ॥ ७ ॥
कैलासाख्यं च यः कुर्यात् प्रासादं परमेष्ठिनः ।
कैलासशिखराकारैर्विमानैर्मोदते सुखी ॥ ८ ॥
मन्दरं वा प्रकुर्वीत शिवाय विधिपूर्वकम् ।
भक्त्या वित्तानुसारेण उत्तमाधममध्यमम् ॥ ९ ॥
मन्दराद्रिप्रतीकाशैर्विमानैर्विश्वतोमुखैः ।
अप्सरोगणसङ्कीर्णैर्देवदानवदुर्लभैः ॥ १० ॥
गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान् ।
ज्ञानयोगं समासाद्य गाणपत्यं लभेन्नरः ॥ ११ ॥
यः कुर्यान्मेरुनामानं प्रासादं परमेष्ठिनः ।
स यत्फलमवाप्नोति न तत्सर्वैर्महामखैः ॥ १२ ॥
सर्वयज्ञतपोदान तीर्थवेदेषु यत्फलम् ।
तत्फलं सकलं लब्ध्वा शिववन्मोदते चिरम् ॥ १३ ॥
निषधं नाम यः कुर्यात् प्रासादं भक्तितः सुधीः ।
शिवलोकमनुप्राप्य शिववन्मोदते चिरम् ॥ १४ ॥
कुर्याद्वा यः शुभं विप्रा हिमशैलमनुत्तमम् ।
हिमशैलोपमैर्यानैर्गत्वा शिवपुरं शुभम् ॥ १५ ॥
ज्ञानयोगं समासाद्य गाणपत्यमवाप्नुयात् ।
नीलाद्रिशिखराख्यं वा प्रासादं यः सुशोभनम् ॥ १६ ॥
कृत्वा वित्तानुसारेण भक्त्या रुद्राय शम्भवे ।
यत्फलं लभते मर्त्यस्तत्फलं प्रवदाम्यहम् ॥ १७ ॥
हिमशैले कृते भक्त्या यत्फलं प्राक्तवोदितम् ।
तत्फलं सकलं लब्ध्वा सर्वदेवनमस्कृतः ॥ १८ ॥
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते ।
महेन्द्रशैलनामानं प्रासादं रुद्रसम्मतम् ॥ १९ ॥
कृत्वा यत्फलमाप्नोति तत्फलं प्रवदाम्यहम् ।
महेन्द्रपर्वताकारैर्विमानैर्वृषसंयुतैः ॥ २० ॥
गत्वा शिवपुरं दिव्यं भुक्त्वा भोगान् यथेप्सितान् ।
ज्ञानं विचारितं रुद्रैः सम्प्राप्य मुनिपुङ्गवाः ॥ २१ ॥
विषयान् विषवत्त्यक्त्वा शिवसायुज्यमाप्नुयात् ।
हेम्ना यस्तु प्रकुर्वीत प्रासादं रत्नशोभितम् ॥ २२ ॥
द्राविडं नागरं वापि केसरं वा विधानतः ।
कूटं वा मण्डपं वापि समं वा दीर्घमेव च ॥ २३ ॥
न तस्य शक्यते वक्तुं पुण्यं शतयुगैरपि ।
जीर्णं वा पतितं वापि खण्डितं स्फुटितं तथा ॥ २४ ॥
पूर्ववत् कारयेद्यस्तु द्वाराद्यैः सुशुभं द्विजाः ।
प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा ॥ २५ ॥
कर्तुरप्यधिकं पुण्यं लभते नात्र संशयः ।
वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये ॥ २६ ॥
यः स याति न सन्देहः स्वर्गलोकं सबान्धवः ।
यश्चात्मभोगसिद्ध्यर्थमपि रुद्रालये सकृत् ॥ २७ ॥
कर्म कुर्याद्यदि सुखं लब्ध्वा चापि प्रमोदते ।
तस्मादायतनं भक्त्या यः कुर्यान् मुनिसत्तमाः ॥ २८ ॥
काष्ठेष्टकादिभिर्मर्त्यः शिवलोके महीयते ।
प्रसादार्थं महेशस्य प्रासादे मुनिपुङ्गवाः ॥ २९ ॥
कर्तव्यः सर्वयत्नेन धर्मकामार्थमुक्तये ।
अशक्तश्चेन्मुनिश्रेष्ठाः प्रासादं कर्तुमुत्तमम् ॥ ३० ॥
सम्मार्जनादिभिर्वापि सर्वान् कामानवाप्नुयात् ।
सम्मार्जनं तु यः कुर्यान्मार्जन्या मृदुसूक्ष्मया ॥ ३१ ॥
चान्द्रायणसहस्रस्य फलं मासेन लभ्यते ।
यः कुर्याद्वस्त्रपूतेन गन्धगोमयवारिणा ॥ ३२ ॥
आलेपनं यथान्यायं वर्षचान्द्रायणं लभेत् ।
अर्धक्रोशं शिवक्षेत्रं शिवलिङ्गात्समन्ततः ॥ ३३ ॥
यस्त्यजेद्दुस्त्यजान् प्राणाञ्शिवसायुज्यमाप्नुयात् ।
स्वायम्भुवस्य मानं हि तथा बाणस्य सुव्रताः ॥ ३४ ॥
स्वायम्भुवे तदर्धं स्यात्स्यादार्षे च तदर्धकम् ।
मानुषे च तदर्धं स्यात्क्षेत्रमानं द्विजोत्तमाः ॥ ३५ ॥
एवं यतीनामावासे क्षेत्रमानं द्विजोत्तमाः ।
रुद्रावतारे चाद्यं यच्छिष्ये चैव प्रशिष्यके ॥ ३६ ॥
नरावतारे तच्छिष्ये तच्छिष्ये च प्रशिष्यके ।
श्रीपर्वते महापुण्ये तस्य प्रान्ते च वा द्विजाः ॥ ३७ ॥
तस्मिन्वा यस्त्यजेत् प्राणाञ्छिवसायुज्यमाप्नुयात् ।
वाराणस्यां तथाप्येवमविमुक्ते विशेषतः ॥ ३८ ॥
केदारे च महाक्षेत्रे प्रयागे च विशेषतः ।
कुरुक्षेत्रे च यः प्राणान् सन्त्यजेद्याति निर्वृतिम् ॥ ३९ ॥
प्रभासे पुष्करेऽवन्त्यां तथा चैवामरेश्वरे ।
वणीशैलाकुले चैव मृतो याति शिवात्मताम् ॥ ४० ॥
वाराणस्यां मृतो जन्तुर्न जातु जन्तुतां व्रजेत् ।
त्रिविष्टपे विमुक्ते च केदारे सङ्गमेश्वरे ॥ ४१ ॥
शालङ्के वा त्यजेत् प्राणांस्तथा वै जम्बुकेश्वरे ।
शुक्रेश्वरे वा गोकर्णे भास्करेशे गुहेश्वरे ॥ ४२ ॥
हिरण्यगर्भे नन्दीशे स याति परमां गतिम् ।
नियमैः शोष्य यो देहं त्यजेत्क्षेत्रे शिवस्य तु ॥ ४३ ॥
स याति शिवतां योगी मानुषे दैविकेऽपि वा ।
आर्षे वापि मुनिश्रेष्ठास्तथा स्वायम्भुवेऽपि वा ॥ ४४ ॥
स्वयम्भूते तथा देवे नात्र कार्या विचारणा ।
आधायाग्निं शिवक्षेत्रे सम्पूज्य परमेश्वरम् ॥ ४५ ॥
स्वदेहपिण्डं जुहुयाद्यः स याति परां गतिम् ।
यावत्तावन्निराहारो भूत्वा प्राणान् परित्यजेत् ॥ ४६ ॥
शिवक्षेत्रे मुनिश्रेष्ठाः शिवसायुज्यमाप्नुयात् ।
छित्त्वा पादद्वयं चापि शिवक्षेत्रे वसेत्तु यः ॥ ४७ ॥
स याति शिवतां चैव नात्र कार्या विचारणा ।
क्षेत्रस्य दर्शनं पुण्यं प्रवेशस्तच्छताधिकः ॥ ४८ ॥
तस्माच्छतगुणं पुण्यं स्पर्शनं च प्रदक्षिणम् ।
तस्माच्छतगुणं पुण्यं जलस्नानमतः परम् ॥ ४९ ॥
क्षीरस्नानं ततो विप्राः शताधिकमनुत्तमम् ।
दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम् ॥ ५० ॥
घृतस्नानेन चानन्तं शार्करे तच्छताधिकम् ।
शिवक्षेत्रसमीपस्थां नदीं प्राप्यावगाह्य च ॥ ५१ ॥
त्यजेद्देहं विहायान्नं शिवलोके महीयते ।
शिवक्षेत्रसमीपस्था नद्यः सर्वाः सुशोभनाः ॥ ५२ ॥
वापीकूपतडागाश्च शिवतीर्था इति स्मृताः ।
स्नात्वा तेषु नरो भक्त्या तीर्थेषु द्विजसत्तमाः ॥ ५३ ॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
प्रातः स्नात्वा मुनिश्रेष्ठाः शिवतीर्थेषु मानवः ॥ ५४ ॥
अश्वमेधफलं प्राप्य रुद्रलोकं स गच्छति ।
मध्याह्ने शिवतीर्थेषु स्नात्वा भक्त्या सकृन्नरः ॥ ५५ ॥
गङ्गास्नानसमं पुण्यं लभते नात्र संशयः ।
अस्तं गते तथा चार्के स्नात्वा गच्छेच्छिवं पदम् ॥ ५६ ॥
पापकञ्चुकमुत्सृज्य शिवतीर्थेषु मानवः ।
द्विजास्त्रिषवणं स्नात्वा शिवतीर्थे सकृन्नरः ॥ ५७ ॥
शिवसायुज्यमाप्नोति नात्र कार्या विचारणा ।
पुराथ सूकरः कश्चित्श्वानं दृष्ट्वा भयात्पथि ॥ ५८ ॥
प्रसङ्गाद्वारमेकं तु शिवतीर्थेऽवगाह्य च ।
मृतः स्वयं द्विजश्रेष्ठा गाणपत्यमवाप्तवान् ॥ ५९ ॥
यः प्रातर्देवदेवेशं शिवं लिङ्गस्वरूपिणम् ।
पश्येत्स याति सर्वस्मादधिकां गतिमेव च ॥ ६० ॥
मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत् ।
सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते ॥ ६१ ॥
मानसैर्वाचिकैः पापैः कायिकैश्च महत्तरैः ।
तथोपपातकैश्चैव पापैश्चैवानुपातकैः ॥ ६२ ॥
सङ्क्रमे देवमीशानं दृष्ट्वा लिङ्गाकृतिं प्रभुम् ।
मासेन यत्कृतं पापं त्यक्त्वा याति शिवं पदम् ॥ ६३ ॥
अयने चार्धमासेन दक्षिणे चोत्तरायणे ।
विषुवे चैव सम्पूज्य प्रयाति परमां गतिम् ॥ ६४ ॥
प्रदक्षिणत्रयं कुर्याद्यः प्रासादं समन्ततः ।
सव्यापसव्यन्यायेन मृदुगत्या शुचिर्नरः ॥ ६५ ॥
पदे पदेऽश्वमेधस्य यज्ञस्य फलमाप्नुयात् ।
वाचा यस्तु शिवं नित्यं संरौति परमेश्वरम् ॥ ६६ ॥
सोऽपि याति शिवं स्थानं प्राप्य किं पुनरेव च ।
कृत्वा मण्डलकं क्षेत्रं गन्धगोमयवारिणा ॥ ६७ ॥
मुक्ताफलमयैश्चूर्णैरिन्द्रनीलमयैस्तथा ।
पद्मरागमयैश्चैव स्फाटिकैश्च सुशोभनैः ॥ ६८ ॥
तथा मारकतैश्चैव सौवर्णै राजतैस्तथा ।
तद्वर्णैर्लौकिकैश्चैव चूर्णैर्वित्तविवर्जितैः ॥ ६९ ॥
आलिख्य कमलं भद्रं दशहस्तप्रमाणतः ।
सकर्णिकं महाभागा महादेवसमीपतः ॥ ७० ॥
तत्रावाह्य महादेवं नवशक्तिसमन्वितम् ।
पञ्चभिश्च तथा षड्भिरष्टाभिश्चेष्टदं परम् ॥ ७१ ॥
पुनरष्टाभिरीशानं दशारे दशभिस्तथा ।
पुनर्बाह्ये च दशभिः सम्पूज्य प्रणिपत्य च ॥ ७२ ॥
निवेद्य देवदेवाय क्षितिदानफलं लभेत् ।
शालिपिष्टादिभिर्वापि पद्ममालिख्य निर्धनः ॥ ७३ ॥
पूर्वोक्तमखिलं पुण्यं लभते नात्र संशयः ।
द्वादशारं तथालिख्य मण्डलं पदमुत्तमम् ॥ ७४ ॥
रत्नचूर्णादिभिश्चूर्णैस्तथा द्वादशमूर्तिभिः ।
मण्डलस्य च मध्ये तु भास्करं स्थाप्य पूजयेत् ॥ ७५ ॥
ग्रहैश्च संवृतं वापि सूर्यसायुज्यमुत्तमम् ।
एवं प्राकृतमप्यार्थ्यां षडस्रं परिकल्प्य च ॥ ७६ ॥
मध्यदेशे च देवेशीं प्रकृतिं ब्रह्मरूपिणीम् ।
दक्षिणे सत्त्वमूर्तिं च वामतश्च रजोगुणम् ॥ ७७ ॥
अग्रतस्तु तमोमूर्तिं मध्ये देवीं तथाम्बिकाम् ।
पञ्चभूतानि तन्मात्रा पञ्चकं चैव दक्षिणे ॥ ७८ ॥
कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च ।
उत्तरे विधिवत्पूज्य षडस्रे चैव पूजयेत् ॥ ७९ ॥
आत्मानं चान्तरात्मानं युगलं बुद्धिमेव च ।
अहङ्कारं च महता सर्वयज्ञफलं लभेत् ॥ ८० ॥
एवं वः कथितं सर्वं प्राकृतं मण्डलं परम् ।
अतो वक्ष्यामि विप्रेन्द्राः सर्वकामार्थसाधनम् ॥ ८१ ॥
गोचर्ममात्रमालिख्य मण्डलं गोमयेन तु ।
चतुरश्रं विधानेन चाद्भिरभ्युक्ष्य मन्त्रवित् ॥ ८२ ॥
अलङ्कृत्य वितानाद्यैश्छत्रैर्वापि मनोरमैः ।
बुद्बुदैरर्धचन्द्रैश्च हैमैरश्वत्थपत्रकैः ॥ ८३ ॥
सितैर्विकसितैः पद्मै रक्तैर्नीलोत्पलैस्तथा ।
मुक्तादामैर्वितानान्ते लम्बितस्तु सितैर्ध्वजैः ॥ ८४ ॥
सितमृत्पात्रकैश्चैव सुश्लक्ष्णैः पूर्णकुम्भकैः ।
फलपल्लवमालाभिर्वैजयन्तीभिरंशुकैः ॥ ८५ ॥
पञ्चाशद्दीपमालाभिर्धूपैः पञ्चविधैस्तथा ।
पञ्चाशद्दलसंयुक्तमालिखेत्पद्ममुत्तमम् ॥ ८६ ॥
तत्तद्वर्णैस्तथा चूर्णैः श्वेतचूर्णैरथापि वा ।
एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः ॥ ८७ ॥
कर्णिकायां न्यसेद्देवं देव्या देवेश्वरं भवम् ।
वर्णानि च न्यसेत्पत्रे रुद्रैः प्रागाद्यनुक्रमात् ॥ ८८ ॥
प्रणवादिनमोऽन्तानि सर्ववर्णानि सुव्रताः ।
सम्पूज्यैवं मुनिश्रेष्ठा गन्धपुष्पादिभिः क्रमात् ॥ ८९ ॥
ब्राह्मणान् भोजयेत्तत्र पञ्चाशद्विधिपूर्वकम् ।
अक्षमालोपवीतं च कुण्डलं च कमण्डलुम् ॥ ९० ॥
आसनं च तथा दण्डमुष्णीषं वस्त्रमेव च ।
दत्त्वा तेषां मुनीन्द्राणां देवदेवाय शम्भवे ॥ ९१ ॥
महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा ।
अन्ते च देवदेवाय दापयेच्चूर्णमण्डलम् ॥ ९२ ॥
यागोपयोगद्रव्याणि शिवाय विनिवेदयेत् ।
ओङ्काराद्यं जपेद्धीमान् प्रतिवर्णमनुक्रमात् ॥ ९३ ॥
एवमालिख्य यो भक्त्या सर्वमण्डलमुत्तमम् ।
यत्फलं लभते मर्त्यस्तद्वदामि समासतः ॥ ९४ ॥
साङ्गान् वेदान् यथान्यायमधीत्य विधिपूर्वकम् ।
इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात् ॥ ९५ ॥
ततो विश्वजिदन्तैश्च पुत्रानुत्पाद्य तादृशान् ।
वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च ॥ ९६ ॥
चान्द्रायणादिकाः सर्वाः कृत्वा न्यस्य क्रिया द्विजाः ।
ब्रह्मविद्यामधीत्यैव ज्ञानमासाद्य यत्नतः ॥ ९७ ॥
ज्ञानेन ज्ञेयमालोक्य योगी यत्काममाप्नुयात् ।
तत्फलं लभते सर्वं वर्णमण्डलदर्शनात् ॥ ९८ ॥
येन केनापि वा मर्त्यः प्रलिप्यायतनाग्रतः ।
उत्तरे दक्षिणे वापि पृष्ठतो वा द्विजोत्तमाः ॥ ९९ ॥
चतुष्कोणं तु वा चूर्णैरलङ्कृत्य समन्ततः ।
पुष्पाक्षतादिभिः पूज्य सर्वपापैः प्रमुच्यते ॥ १०० ॥
यस्तु गर्भगृहं भक्त्या सकृदालिप्य सर्वतः ।
चन्दनाद्यैः सकर्पूरैर्गन्धद्रव्यैः समन्ततः ॥ १०१ ॥
विकीर्य गन्धकुसुमैर्धूपैर्धूप्य चतुर्विधैः ।
प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति ॥ १०२ ॥
तत्र भुक्त्वा महाभोगान् कल्पकोटिशतं नरः ।
स्वदेहगन्धकुसुमैः पूरयञ्छिवमन्दिरम् ॥ १०३ ॥
क्रमाद् गान्धर्वमासाद्य गन्धर्वैश्च सुपूजितः ।
क्रमादागत्य लोकेऽस्मिन् राजा भवति वीर्यवान् ॥ १०४ ॥
आदिदेवो महादेवः प्रलयस्थितिकारकः ।
सर्गश्च भुवनाधीशः शर्वव्यापी सदाशिवः ।
शिवब्रह्मामृतं ग्राह्यं मोक्षसाधनमुत्तमम् ॥ १०५ ॥
व्यक्ताव्यक्तं सदा नित्यमचिन्त्यमर्चयेत् प्रभुम् ॥ १०६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे उपलेपनादिकथनं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-77

कोई टिप्पणी नहीं:

123