श्रीलिङ्गमहापुराण -[पूर्वभाग] -061

श्रीलिङ्गमहापुराण -[पूर्वभाग] -061
॥ श्रीसाम्बसदाशिवाय नमः ॥
इकसठवाँ अध्याय
ज्योतिः सन्निवेश में ग्रहों के स्वरूप तथा नक्षत्रों और ग्रहों की पारस्परिक स्थिति का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे एकषष्टितमोऽध्यायः
ग्रहसंख्यावर्णनं

॥ सूत उवाच ॥

क्षेत्राण्येतानि सर्वाणि आतपन्ति गभस्तिभिः ।
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रतारकाः ॥ १ ॥
चीर्णेन सुकृतेनेह सुकृतान्ते ग्रहाश्रयाः ।
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ २ ॥


दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ।
आदानान्नित्यमादित्यस्तेजसां तमसामपि ॥ ३ ॥
सवने स्यन्दनेऽर्थे च धातुरेष विभाष्यते ।
सवनात्तेजसोऽपां च तेनासौ सविता मतः ॥ ४ ॥
बहुलश्चन्द्र इत्येष ह्लादने धातुरुच्यते ।
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥ ५ ॥
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे ।
जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ ६ ॥
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् ।
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ ७ ॥
वसन्ति सर्वदेवाश्च स्थानान्येतानि सर्वशः ।
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ ८ ॥
तेन ग्रहा गृहाण्येव तदाख्यास्ते भवन्ति च ।
सौरं सूर्योऽविशत्स्थानं सौम्यं सोमस्तथैव च ॥ ९ ॥
शौक्रं शुक्रोऽविशत्स्थानं षोडशार्चिः प्रतापवान् ।
बृहद् बृहस्पतिश्चैव लोहितश्चैव लोहितम् ॥ १० ॥
शनैश्चरं तथा स्थानं देवश्चापि शनैश्चरः ।
बौधं बुधस्तु स्वर्भानुः स्वर्भानु स्थानमाश्रितः ॥ ११ ॥
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्ति च ।
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ॥ १२ ॥
कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयम्भुवा ।
स्थानान्येतानि तिष्ठन्ति यावदाभूतसम्प्लवम् ॥ १३ ॥
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ।
अभिमानिनोऽवतिष्ठन्ते देवाः स्थानं पुनः पुनः ॥ १४ ॥
अतीतैस्तु सहैतानि भाव्याभाव्यैः सुरैः सह ।
वर्तन्ते वर्तमानैश्च स्थानिभिस्तैः सुरैः सह ॥ १५ ॥
अस्मिन् मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः ।
विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥ १६ ॥
द्युतिमानृषिपुत्रस्तु सोमो देवो वसुः स्मृतः ।
शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥ १७ ॥
बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः ।
बुधो मनोहरश्चैव ऋषिपुत्रस्तु स स्मृतः ॥ १८ ॥
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः ।
अग्निर्विकेश्यां जज्ञे तु युवासौ लोहितार्चिषः ॥ १९ ॥
नक्षत्रऋक्षनामिन्यो दाक्षायण्यस्तु ताः स्मृताः ।
स्वर्भानुः सिंहिकापुत्रो भूतसन्तापनोऽसुरः ॥ २० ॥
सोमर्क्षग्रहसूर्येषु कीर्तितास्त्वभिमानिनः ।
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः ॥ २१ ॥
सौरमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ।
हिमांशोस्तु स्मृतं स्थानमम्मयं शुक्लमेव च ॥ २२ ॥
आप्यं श्यामं मनोज्ञं च बुधरश्मिगृहं स्मृतम् ।
शुक्लस्याप्यम्मयं शुक्लं पदं षोडशरश्मिवत् ॥ २३ ॥
नवरश्मि तु भौमस्य लोहितं स्थानमुत्तमम् ।
हरिद्राभं बृहच्चापि षोडशार्चिर्बृहस्पतेः ॥ २४ ॥
अष्टरश्मिगृहं चापि प्रोक्तं कृष्णं शनैश्चरे ।
स्वर्भानोस्तामसं स्थानं भूतसन्तापनालयम् ॥ २५ ॥
विज्ञेयास्तारकाः सर्वास्त्वृषयस्त्वेकरश्मयः ।
आश्रयाः पुण्यकीर्तीनां शुक्लाश्चापि स्ववर्णतः ॥ २६ ॥
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः ।
आदित्यरश्मिसंयोगात् सम्प्रकाशात्मिकाः स्मृताः ॥ २७ ॥
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ।
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ २८ ॥
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति ॥ २९ ॥
उद्धृत्य पृथिवीछायां निर्मितां मण्डलाकृतिम् ।
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥ ३० ॥
आदित्यात्तच्च निष्क्रम्य समं गच्छति पर्वसु ।
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ ३१ ॥
स्वर्भानुं नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते ।
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते ॥ ३२ ॥
विष्कम्भान् मण्डलाच्चैव योजनाग्रात् प्रमाणतः ।
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ ३३ ॥
बृहस्पतेः पादहीनौ वक्रसौरी उभौ स्मृतौ ।
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ३४ ॥
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ।
बुधेन तानि तुल्यानि विस्तारान्मण्डलाच्च वै ॥ ३५ ॥
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् ।
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ ३६ ॥
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ।
सर्वोपरि निकृष्टानि तारकामण्डलानि तु ॥ ३७ ॥
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ।
उपरिष्टात्त्रयस्तेषां ग्रहास्ते दूरसर्पिणः ॥ ३८ ॥
सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ।
पूर्वमेव समाख्याता गतिस्तेषां यथाक्रमम् ॥ ३९ ॥
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः ।
विवस्वानदितेः पुत्रः सूर्यो वै मुनिसत्तमाः ॥ ४० ॥
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ।
त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसुस्तु सः ॥ ४१ ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ।
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम् ॥ ४२ ॥
ताराग्रहाणां प्रवरस्तिष्ये क्षेत्रे समुत्थितः ।
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः ॥ ४३ ॥
फाल्गुनीषु समुत्पन्नः पूर्वाख्यासु जगद्गुरुः ।
नवार्चिर्लोहिताङ्गश्च प्रजापतिसुतो ग्रहः ॥ ४४ ॥
आषाढास्विह पूर्वासु समुत्पन्न इति स्मृतः ।
रेवतीष्वेव सप्तार्चिः स्थाने सौरिः शनैश्चरः ॥ ४५ ॥
सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः ।
तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी ॥ ४६ ॥
आश्लेषासु समुत्पन्नः सर्वहारी महाग्रहः ।
तथा स्वनामधेयेषु दाक्षायण्यः समुत्थिताः ॥ ४७ ॥
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः ।
भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः ॥ ४८ ॥
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः ।
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः ॥ ४९ ॥
मुच्यते तेन दोषेण ततस्तद्ग्रहभक्तितः ।
सर्वग्रहाणामेतेषामादिरादित्य उच्यते ॥ ५० ॥
ताराग्रहाणां शुक्रस्तु केतूनां चापि धूमवान् ।
ध्रुवः किल ग्रहाणां तु विभक्तानां चतुर्दिशम् ॥ ५१ ॥
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ।
वर्षाणां चैव पञ्चानामाद्यः सम्वत्सरः स्मृतः ॥ ५२ ॥
ऋतूनां शिशिरश्चापि मासानां माघ उच्यते ।
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा ॥ ५३ ॥
अहोरात्रविभागानामहश्चादिः प्रकीर्तितः ।
मुहूर्तानां तथैवादिर्मुहूर्तो रुद्रदैवतः ॥ ५४ ॥
क्षणश्चापि निमेषादिः कालः कालविदां वराः ।
श्रवणान्तं धनिष्ठादि युगं स्यात् पञ्चवार्षिकम् ॥ ५५ ॥
भानोर्गतिविशेषेण चक्रवत् परिवर्तते ।
दिवाकरः स्मृतस्तस्मात् कालकृद्विभुरीश्वरः ॥ ५६ ॥
चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः ।
तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः ॥ ५७ ॥
इत्येष ज्योतिषामेवं सन्निवेशोऽर्थनिश्चयः ।
लोकसंव्यवहारार्थं महादेवेन निर्मितः ॥ ५८ ॥
बुद्धिपूर्वं भगवता कल्पादौ सम्प्रवर्तितः ।
स आश्रयोऽभिमानी च सर्वस्य ज्योतिरात्मकः ॥ ५९ ॥
एकरूपप्रधानस्य परिणामोऽयमद्भुतः ।
नैष शक्यः प्रसंख्यातुं याथातथ्येन केनचित् ॥ ६० ॥
गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा ।
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः ॥ ६१ ॥
परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ।
चक्षुः शास्त्रं जलं लेख्यं गणितं मुनिसत्तमाः ॥ ६२ ॥
पञ्चैते हेतवो ज्ञेया ज्योतिर्मानविनिर्णये ॥ ६३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ग्रहसंख्यावर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-61

कोई टिप्पणी नहीं:

123