श्रीलिङ्गमहापुराण -[पूर्वभाग] -065

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -065

॥ श्रीसाम्बसदाशिवाय नमः ॥
चौंसठवाँ अध्याय
वसिष्ठपुत्र शक्ति का आख्यान तथा महर्षि पराशर की कथा

 यहाँ जो रुद्रसहस्रनामस्तोत्र दिया है, वह महाभारत के अनुशासन पर्व अ० १७ के अन्तर्गत आये शिवसहस्रनामस्तोत्र से साम्य रखता है, वहाँ उसका विस्तृत माहात्म्य भी पूर्व में वर्णित है।

See Also:-

1. वैवस्वत मनु के पुत्र राजा सुद्युम्न की कथा

2. राजा सुद्युम्न की इला नामक स्त्री के रूप में परिणति, इला का बुध से विवाह और पुरूरवा की उत्पत्ति, भगवती की स्तुति करने से इलारूपधारी राजा सुद्युम्न की सायुज्यमुक्ति

श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चषष्टितमोऽध्यायः
रुद्रसहस्रनामकथनं

॥ ऋषय ऊचुः ॥

आदित्यवंशं सोमस्य वंशं वंशविदां वर ।
वक्तुमर्हसि चास्माकं सङ्क्षेपाद्रोमहर्षण ॥ १ ॥
॥ सूत उवाच ॥
अदितिः सुषुवे पुत्रमादित्यं कश्यपाद् द्विजाः ।
तस्यादित्यस्य चैवासीद्भार्या त्रयमथापरम् ॥ २ ॥
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां वदामि वः ।
संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ॥ ३ ॥
यमं च यमुनां चैव राज्ञी रेवतमेव च ।
प्रभा प्रभातमादित्याच्छायां संज्ञाप्यकल्पयत् ॥ ४ ॥
छाया च तस्मात्सुषुवे सावर्णिं भास्कराद् द्विजाः ।
ततः शनिं च तपतीं विष्टिं चैव यथाक्रमम् ॥ ५ ॥
छाया स्वपुत्राभ्यधिकं स्नेहं चक्रे मनौ तदा ।
पूर्वो मनुर्न चक्षाम यमस्तु क्रोधमूर्च्छितः ॥ ६ ॥
सन्ताडयामास रुषा पादमुद्यम्य दक्षिणम् ।
यमेन ताडिता सा तु छाया वै दुःखिताभवत् ॥ ७ ॥
छायाशापात्पदं चैकं यमस्य क्लिन्नमुत्तमम् ।
पूयशोणितसम्पूर्णं कृमीणां निचयान्वितम् ॥ ८ ॥
सोऽपि गोकर्णमाश्रित्य फलकेनानिलाशनः ।
आराधयन् महादेवं यावद्वर्षायुतायुतम् ॥ ९ ॥
भवप्रसादादागत्य लोकपालत्व मुत्तमम् ।
पितॄणामाधिपत्यं तु शापमोक्षं तथैव च ॥ १० ॥
लब्धवान् देवदेवस्य प्रभावाच्छूलपाणिनः ।
असहन्ती पुरा भानोस्तेजोमयमनिन्दिता ॥ ११ ॥
रूपं त्वाष्ट्री स्वदेहात्तु छायाख्यां सा त्वकल्पयत् ।
वडवारूपमास्थाय तपस्तेपे तु सुव्रता ॥ १२ ॥
कालात् प्रयत्नतो ज्ञात्वा छायां छायापतिः प्रभुः ।
वडवामगमत्संज्ञामश्वरूपेण भास्करः ॥ १३ ॥
वडवा च तदा त्वाष्ट्री संज्ञा तस्माद्दिवाकरात् ।
सुषुवे चाश्विनौ देवौ देवानां तु भिषग्वरौ ॥ १४ ॥
लिखितो भास्करः पश्चात्संज्ञापित्रा महात्मना ।
विष्णोश्चक्रं तु यद् घोरं मण्डलाद् भास्करस्य तु ॥ १५ ॥
निर्ममे भगवांस्त्वष्टा प्रधानं दिव्यमायुधम् ।
रुद्रप्रसादाच्च शुभं सुदर्शनमिति स्मृतम् ॥ १६ ॥
लब्धवान् भगवांश्चक्रं कृष्णः कालाग्निसन्निभम् ।
मनोस्तु प्रथमस्यासन्नव पुत्रास्तु तत्समाः ॥ १७ ॥
इक्ष्वाकुर्नभगश्चैव धृष्णुः शर्यातिरेव च ।
नरिष्यन्तश्च वै धीमान् नाभागोऽरिष्ट एव च ॥ १८ ॥
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ।
इला ज्येष्ठा वरिष्ठा च पुंस्त्वं प्राप च या पुरा ॥ १९ ॥
सुद्युम्न इति विख्याता पुंस्त्वं प्राप्ता त्विला पुरा ।
मित्रावरुणयोस्त्वत्र प्रसादान्मुनिपुङ्गवाः ॥ २० ॥
पुनः शरवणं प्राप्य स्त्रीत्वं प्राप्तो भवाज्ञया ।
सुद्युम्नो मानवः श्रीमान् सोमवंशप्रवृद्धये ॥ २१ ॥
इक्ष्वाकोरश्वमेधेन इला किम्पुरुषोऽभवत् ।
इला किम्पुरुषत्वे च सुद्युम्न इति चोच्यते ॥ २२ ॥
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः ।
इला बुधस्य भवनं सोमपुत्रस्य चाश्रिता ॥ २३ ॥
बुधेनान्तरमासाद्य मैथुनाय प्रवर्तिता ।
सोमपुत्राद्बुधाच्चापि ऐलो जज्ञे पुरूरवाः ॥ २४ ॥
सोमवंशाग्रजो धीमान् भवभक्तः प्रतापवान् ।
इक्ष्वाकोर्वंशविस्तारं पश्चाद्वक्ष्ये तपोधनाः ॥ २५ ॥
पुत्रत्रयमभूत्तस्य सुद्युम्नस्य द्विजोत्तमाः ।
उत्कलश्च गयश्चैव विनताश्वस्तथैव च ॥ २६ ॥
उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ।
गया गयस्य चाख्याता पुरी परमशोभना ॥ २७ ॥
सुराणां संस्थितिर्यस्यां पितॄणां च सदा स्थितिः ।
इक्ष्वाकुज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ २८ ॥
कन्याभावाच्च सुद्युम्नो नैव भागमवाप्तवान् ।
वसिष्ठवचनात्त्वासीत् प्रतिष्ठाने महाद्युतिः ॥ २९ ॥
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥ ३० ॥
मानवेयो महाभागः स्त्रीपुंसोर्लक्षणान्वितः ।
इक्ष्वाकोरभवद्वीरो विकुक्षिर्धर्मवित्तमः ॥ ३१ ॥
ज्येष्ठः पुत्रशतस्यासीद्दश पञ्च च तत्सुताः ।
अभूज्ज्येष्ठः ककुत्स्थश्च ककुत्स्थात्तु सुयोधनः ॥ ३२ ॥
ततः पृथुर्मुनिश्रेष्ठा विश्वकः पार्थिवस्तथा ।
विश्वकस्यार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ॥ ३३ ॥
शाबस्तिश्च महातेजा वंशकस्तु ततोऽभवत् ।
निर्मिता येन शाबस्ती गौडदेशे द्विजोत्तमाः ॥ ३४ ॥
वंशाच्च बृहदश्वोऽभूत्कुवलाश्वस्तु तत्सुतः ।
धुन्धुमारत्वमापन्नो धुन्धुं हत्वा महाबलम् ॥ ३५ ॥
धुन्धुमारस्य तनयास्त्रयस्त्रैलोक्यविश्रुताः ।
दृढाश्वश्चैव चण्डाश्वः कपिलाश्वश्च ते स्मृताः ॥ ३६ ॥
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य वै सुतः ।
हर्यश्वस्य निकुम्भस्तु संहताश्वस्तु तत्सुतः ॥ ३७ ॥
कृशाश्वोऽथ रणाश्वश्च संहताश्वात्मजावुभौ ।
युवनाश्वो रणाश्वस्य मान्धाता तस्य वै सुतः ॥ ३८ ॥
मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् ।
मुचुकुन्दश्च पुण्यात्मा त्रयस्त्रैलोक्यविश्रुताः ॥ ३९ ॥
अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।
हरितो युवनाश्वस्य हरितास्तु यतः स्मृताः ॥ ४० ॥
एते ह्यङ्गिरसः पक्षे क्षत्रोपेता द्विजातयः ।
पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः ॥ ४१ ॥
नर्मदायां समुत्पन्नः सम्भूतिस्तस्य चात्मजः ।
विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः ॥ ४२ ॥
एते ह्यङ्गिरसः पक्षे क्षत्रोपेताः समाश्रिताः ।
सम्भूतिरपरं पुत्रमनरण्यमजीजनत् ॥ ४३ ॥
रावणेन हतो योऽसौ त्रैलोक्यविजये द्विजाः ।
बृहदश्वोऽनरण्यस्य हर्यश्वस्तस्य चात्मजः ॥ ४४ ॥
हर्यश्वात्तु दृषद्वत्यां जज्ञे वसुमना नृपः ।
तस्य पुत्रोऽभवद्राजा त्रिधन्वा भवभावितः ॥ ४५ ॥
प्रसादाद् ब्रह्मसूनोर्वै तण्डिनः प्राप्य शिष्यताम् ।
अश्वमेधसहस्रस्य फलं प्राप्य तदाज्ञया ॥ ४६ ॥
गणैश्वर्यमनुप्राप्तो भवभक्तः प्रतापवान् ।
कथं चैवाश्वमेधं वै करोमीति विचिन्तयन् ॥ ४७ ॥
धनहीनश्च धर्मात्मा दृष्टवान् ब्रह्मणः सुतम् ।
तण्डिसंज्ञं द्विजं तस्माल्लब्धवान् द्विजसत्तमाः ॥ ४८ ॥
नाम्नां सहस्रं रुद्रस्य ब्रह्मणा कथितं पुरा ।
तेन नाम्नां सहस्रेण स्तुत्वा तण्डिर्महेश्वरम् ॥ ४९ ॥
लब्धवान्गाणपत्यं च ब्रह्मयोनिर्द्विजोत्तमः ।
ततस्तस्मान्नृपो लब्ध्वा तण्डिना कथितं पुरा ॥ ५० ॥
नाम्नां सहस्रं जप्त्वा वै गाणपत्यमवाप्तवान् ।
॥ ऋषय ऊचुः ॥
नाम्नां सहस्रं रुद्रस्य ताण्डिना ब्रह्मयोनिना ॥ ५१ ॥
कथितं सर्ववेदार्थ संञ्यं सूत सुव्रत ।
नाम्नां सहस्रं विप्राणां वक्तुमर्हसि शोभनम् ॥ ५२ ॥
॥ सूत उवाच ॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां शृणुत सुव्रताः ॥ ५३ ॥
यज्जप्त्वा तु मुनिश्रेष्ठा गाणपत्यमवाप्तवान् ।
ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ॥ ५४ ॥
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ।
जटी दण्डी शिखण्डी च सर्वगः सर्वभावनः ॥ ५५ ॥
हरिश्च हरिणाक्षश्च सर्वभूतहरः स्मृतः ।
प्रवृत्तिश्च निवृत्तिश्च शान्तात्मा शाश्वतो ध्रुवः ॥ ५६ ॥
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ।
अभिवाद्यो महाकर्मा तपस्वी भूतधारणः ॥ ५७ ॥
उन्मत्तवेषः प्रच्छन्नः सर्वलोकः प्रजापतिः ।
महारूपो महाकायः सर्वरूपो महायशाः ॥ ५८ ॥
महात्मा सर्वभूतश्च विरूपो वामनो नरः ।
लोकपालोऽन्तर्हितात्मा प्रसादोऽभयदो विभुः ॥ ५९ ॥
पवित्रश्च महांश्चैव नियतो नियताश्रयः ।
स्वयम्भूः सर्वकर्मा च आदिरादिकरो निधिः ॥ ६० ॥
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ।
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्मतः ॥ ६१ ॥
राजा राज्योदयः कर्ता मृगबाणार्पणो घनः ।
महातपा दीर्घतपा अदृश्यो धनसाधकः ॥ ६२ ॥
संवत्सरः कृतो मन्त्रः प्राणायामः परंतपः ।
योगी योगो महाबीजो महारतो महाबलः ॥ ६३ ॥
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ।
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ॥ ६४ ॥
विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलाग्रणीः ।
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च ॥ ६५ ॥
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ।
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥ ६६ ॥
शरी शतघ्नी खड्गी च पट्टिशी चायुधी महान् ।
अजश्च मृगरूपश्च तेजस्तेजस्करो विधिः ॥ ६७ ॥
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ।
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ॥ ६८ ॥
शृगालरूपः सर्वार्थो मुण्डः सर्वशुभङ्करः ।
सिंहशार्दूलरूपश्च गन्धकारी कपर्द्यपि ॥ ६९ ॥
ऊर्ध्वरेतोर्ध्वलिङ्गी च ऊर्ध्वशायी नभस्तलः ।
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ॥ ७० ॥
अहोरात्रं च नक्तं च तिग्ममन्युः सुवर्चसः ।
गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥ ७१ ॥
सिंहशार्दूलरूपाणामार्द्रचर्माम्बरन्धरः ।
कालयोगी महानादः सर्वावासश्चतुष्पथः ॥ ७२ ॥
निशाचरः प्रेतचारी सर्वदर्शी महेश्वरः ।
बहुभूतो बहुधनः सर्वसारोऽमृतेश्वरः ॥ ७३ ॥
नृत्यप्रियो नित्यनृत्यो नर्तनः सर्वसाधकः ।
सकार्मुको महाबाहुर्महाघोरो महातपाः ॥ ७४ ॥
महाशरो महापाशो नित्यो गिरिचरोऽमतः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ ७५ ॥
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः ।
दक्षहा परिचारी च प्रहसो मध्यमस्तथा ॥ ७६ ॥
तेजोऽपहारी बलवान् विदितोऽभ्युदितो बहुः ।
गम्भीरघोषो योगात्मा यज्ञहा कामनाशनः ॥ ७७ ॥
गम्भीररोषो गम्भीरो गम्भीरबलवाहनः ।
न्यग्रोधरूपो न्यग्रोधो विश्वकर्मा च विश्वभुक् ॥ ७८ ॥
तीक्ष्णोपायश्च हर्यश्वः सहायः कर्मकालवित् ।
विष्णुः प्रसादितो यज्ञः समुद्रो वडवामुखः ॥ ७९ ॥
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ।
उग्रतेजा महातेजा जयो विजयकालवित् ॥ ८० ॥
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ।
खड्गी शङ्खी जटी ज्वाली खचरो द्युचरो बली ॥ ८१ ॥
वैणवी पणवी कालः कालकण्ठः कटङ्कटः ।
नक्षत्रविग्रहो भावो निभावः सर्वतोमुखः ॥ ८२ ॥
विमोचनस्तु शरणो हिरण्यकवचोद्भवः ।
मेखलाकृतिरूपश्च जलाचारः स्तुतस्तथा ॥ ८३ ॥
वीणी च पणवी ताली नाली कलिकटुस्तथा ।
सर्वतूर्यनिनादी च सर्वव्याप्यपरिग्रहः ॥ ८४ ॥
व्यालरूपी बिलावासी गुहावासी तरङ्गवित् ।
वृक्षः श्रीमालकर्मा च सर्वबन्धविमोचनः ॥ ८५ ॥
बन्धनस्तु सुरेन्द्राणां युधि शत्रुविनाशनः ।
सखा प्रवासो दुर्वापः सर्वसाधुनिषेवितः ॥ ८६ ॥
प्रस्कन्दोऽप्यविभावश्च तुल्यो यज्ञविभागवित् ।
सर्ववासः सर्वचारी दुर्वासा वासवो मतः ॥ ८७ ॥
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ।
आकाशो निर्विरूपश्च विवासा उरगः खगः ॥ ८८ ॥
भिक्षुश्च भिक्षुरूपी च रौद्ररूपः सुरूपवान् ।
वसुरेताः सुवचस्वी वसुवेगो महाबलः ॥ ८९ ॥
मनोवेगो निशाचारः सर्वलोकशुभप्रदः ।
सर्वावासी त्रयीवासी उपदेशकरो धरः ॥ ९० ॥
मुनिरात्मा मुनिर्लोकः सभाग्यश्च सहस्रभुक् ।
पक्षी च पक्षरूपश्च अतिदीप्तो निशाकरः ॥ ९१ ॥
समीरो दमनाकारो ह्यर्थो ह्यर्थकरो वशः ।
वासुदेवश्च देवश्च वामदेवश्च वामनः ॥ ९२ ॥
सिद्धियोगापहारी च सिद्धः सर्वार्थसाधकः ।
अक्षुण्णः क्षुण्णरूपश्च वृषणो मृदुरव्ययः ॥ ९३ ॥
महासेनो विशाखश्च षष्टिभागो गवां पतिः ।
चक्रहस्तस्तु विष्टम्भी मूलस्तम्भन एव च ॥ ९४ ॥
ऋतुर्ऋतुकरस्तालो मधुर्मधुकरो वरः ।
वानस्पत्यो वाजसनो नित्यमाश्रमपूजितः ॥ ९५ ॥
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् ।
ईशान ईश्वरः कालो निशाचारी ह्यनेकदृक् ॥ ९६ ॥
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरः ।
नन्दीश्वरः सुनन्दी च नन्दनो विषमर्दनः ॥ ९७ ॥
भगहारी नियन्ता च कालो लोकपितामहः ।
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥ ९८ ॥
लिङ्गाध्यक्षः सुराध्यक्षः कालाध्यक्षो युगावहः ।
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥ ९९ ॥
इतिहासश्च कल्पश्च दमनो जगदीश्वरः ।
दम्भो दम्भकरो दाता वंशो वंशकरः कलिः ॥ १०० ॥
लोककर्ता पशुपतिर्महाकर्ता ह्यधोक्षजः ।
अक्षरं परमं ब्रह्म बलवाञ्छुक्त एव च ॥ १०१ ॥
नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः ।
प्रासादस्तु बलो दर्पो दर्पणो हव्य इन्द्रजित् ॥ १०२ ॥
वेदकारः सूत्रकारो विद्वांश्च परमर्दनः ।
महामेघनिवासी च महाघोरो वशीकरः ॥ १०३ ॥
अग्निज्वालो महाज्वालः परिधूम्रावृतो रविः ।
धिषणः शङ्करोऽनित्यो वर्चस्वी धूम्रलोचनः ॥ १०४ ॥
नीलस्तथाङ्गलुप्तश्च शोभनो नरविग्रहः ।
स्वस्ति स्वस्तिस्वभावश्च भोगी भोगकरो लघुः ॥ १०५ ॥
उत्सङ्गश्च महाङ्गश्च महागर्भः प्रतापवान् ।
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्ववर्णिकः ॥ १०६ ॥
महापादो महाहस्तो महाकायो महायशाः ।
महामूर्धा महामात्रो महामित्रो नगालयः ॥ १०७ ॥
महास्कन्धो महाकर्णो महोष्ठश्च महाहनुः ।
महानासो महाकण्ठो महाग्रीवः श्मशानवान् ॥ १०८ ॥
महाबलो महातेजा ह्यन्तरात्मा मृगालयः ।
लम्बितोष्ठश्च निष्ठश्च महामायः पयोनिधिः ॥ १०९ ॥
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।
महानखो महारोमा महाकेशो महाजटः ॥ ११० ॥
असपत्नः प्रसादश्च प्रत्ययो गीतसाधकः ।
प्रस्वेदनोऽस्वेदनश्च आदिकश्च महामुनिः ॥ १११ ॥
वृषको वृषकेतुश्च अनलो वायुवाहनः ।
मण्डली मेरुवासश्च देववाहन एव च ॥ ११२ ॥
अथर्वशीर्षः सामास्य ऋक्सहस्रोर्जितेक्षणः ।
यजुः पादभुजो गुह्यः प्रकाशौजास्तथैव च ॥ ११३ ॥
अमोघार्थप्रसादश्च अन्तर्भाव्यः सुदर्शनः ।
उपहारः प्रियः सर्वः कनकः काञ्चनस्थितः ॥ ११४ ॥
नाभिर्नन्दिकरो हर्म्यः पुष्करः स्थपतिः स्थितः ।
सर्वशास्त्रो धनश्चाद्यो यज्ञो यज्वा समाहितः ॥ ११५ ॥
नगो नीलः कविः कालो मकरः कालपूजितः ।
सगणो गणकारश्च भूतभावनसारथिः ॥ ११६ ॥
भस्मशायी भस्मगोप्ता भस्मभूततनुर्गणः ।
आगमश्च विलोपश्च महात्मा सर्वपूजितः ॥ ११७ ॥
शुक्लः स्त्रीरूपसम्पन्नः शुचिर्भूतनिषेवितः ।
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्विराट् ॥ ११८ ॥
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चितः ।
कपिलः कलशः स्थूल आयुधश्चैव रोमशः ॥ ११९ ॥
गन्धर्वो ह्यदितिस्तार्क्ष्यो ह्यविज्ञेयः सुशारदः ।
परश्वधायुधो देवो ह्यर्थकारी सुबान्धवः ॥ १२० ॥
तुम्बवीणो महाकोप ऊर्ध्वरेता जलेशयः ।
उग्रो वंशकरो वंशो वंशवादी ह्यनिन्दितः ॥ १२१ ॥
सर्वाङ्गरूपी मायावी सुहृदो ह्यनिलो बलः ।
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥ १२२ ॥
राक्षसघ्नोऽथ कामारिर्महादंष्ट्रो महायुधः ।
लम्बितो लम्बितोष्ठश्च लम्बहस्तो वरप्रदः ॥ १२३ ॥
बाहुस्त्वनिन्दितः सर्वः शङ्करोऽथाप्यकोपनः ।
अमरेशो महाघोरो विश्वदेवः सुरारिहा ॥ १२४ ॥
अहिर्बुध्न्यो निर्ऋतिश्च चेकितानो हली तथा ।
अजैकपाच्च कापाली शं कुमारो महागिरिः ॥ १२५ ॥
धन्वन्तरिर्धूमकेतुः सूर्यो वैश्रवणस्तथा ।
धाता विष्णुश्च शक्रश्च मित्रस्त्वष्टा धरो ध्रुवः ॥ १२६ ॥
प्रभासः पर्वतो वायुरर्यमा सविता रविः ।
धृतिश्चैव विधाता च मान्धाता भूतभावनः ॥ १२७ ॥
नीरस्तीर्थश्च भीमश्च सर्वकर्मा गुणोद्वहः ।
पद्मगर्भो महागर्भश्चन्द्रवक्त्रो नभोऽनघः ॥ १२८ ॥
बलवांश्चोपशान्तश्च पुराणः पुण्यकृत्तमः ।
क्रूरकर्ता क्रूरवासी तनुरात्मा महौषधः ॥ १२९ ॥
सर्वाशयः सर्वचारी प्राणेशः प्राणिनां पतिः ।
देवदेवः सुखोत्सिक्तः सदसत्सर्वरत्नवित् ॥ १३० ॥
कैलासस्थो गुहावासी हिमवद् गिरिसंश्रयः ।
कुलहारी कुलाकर्ता बहुवित्तो बहुप्रजः ॥ १३१ ॥
प्राणेशो बन्धकी वृक्षो नकुलश्चाद्रिकस्तथा ।
ह्रस्वग्रीवो महाजानुरलोलश्च महौषधिः ॥ १३२ ॥
सिद्धान्तकारी सिद्धार्थश्छन्दो व्याकरणोद्भवः ।
सिंहनादः सिंहदंष्ट्रः सिंहास्यः सिंहवाहनः ॥ १३३ ॥
प्रभावात्मा जगत्कालः कालः कम्पी तरुस्तनुः ।
सारङ्गो भूतचक्राङ्कः केतुमाली सुवेधकः ॥ १३४ ॥
भूतालयो भूतपतिरहोरात्रो मलोऽमलः ।
वसुभृत्सर्वभूतात्मा निश्चलः सुविदुर्बुधः ॥ १३५ ॥
असुहृत्सर्वभूतानां निश्चलश्चलविद् बुधः ।
अमोघः संयमो हृष्टो भोजनः प्राणधारणः ॥ १३६ ॥
धृतिमान् मतिमांस्त्र्यक्षः सुकृतस्तु युधांपतिः ।
गोपालो गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ १३७ ॥
हिरण्यबाहुश्च तथा गुहावासः प्रवेशनः ।
महामना महाकामो चित्तकामो जितेन्द्रियः ॥ १३८ ॥
गान्धारश्च सुरापश्च तापकर्मरतो हितः ।
महाभूतो भूतवृतो ह्यप्सरोगणसेवितः ॥ १३९ ॥
महाकेतुर्धराधाता नैकतानरतः स्वरः ।
अवेदनीय आवेद्यः सर्वगश्च सुखावहः ॥ १४० ॥
तारणश्चरणो धाता परिधा परिपूजितः ।
संयोगी वर्धनो वृद्धो गणिकोऽथ गणाधिपः ॥ १४१ ॥
नित्यो धाता सहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च सुदेवोऽपि सुपर्वणः ॥ १४२ ॥
आषाढश्च सुषाढश्च स्कन्धदो हरितो हरः ।
वपुरावर्तमानोऽन्यो वपुःश्रेष्ठो महावपुः ॥ १४३ ॥
शिरोविमर्शनः सर्व लक्ष्यलक्षणभूषितः ।
अक्षयो रथगीतश्च सर्वभोगी महाबलः ॥ १४४ ॥
साम्नायोऽथ महाम्नायस्तीर्थदेवो महायशाः ।
निर्जीवो जीवनो मन्त्रः सुभगो बहुकर्कशः ॥ १४५ ॥
रत्नभूतोऽथ रत्नाङ्गो महार्णवनिपातवित् ।
मूलं विशालो ह्यमृतं व्यक्ताव्यक्तस्तपोनिधिः ॥ १४६ ॥
आरोहणोऽधिरोहश्च शीलधारी महातपाः ।
महाकण्ठो महायोगी युगो युगकरो हरिः ॥ १४७ ॥
युगरूपो महारूपो वहनो गहनो नगः ।
न्यायो निर्वापणोऽपादः पण्डितो ह्यचलोपमः ॥ १४८ ॥
बहुमालो महामालः शिपिविष्टः सुलोचनः ।
विस्तारो लवणः कूपः कुसुमाङ्गः फलोदयः ॥ १४९ ॥
ऋषभो वृषभो भङ्गो मणिबिम्बजटाधरः ।
इन्दुर्विसर्गः सुमुखः शूरः सर्वायुधः सहः ॥ १५० ॥
निवेदनः सुधाजातः स्वर्गद्वारो महाधनुः ।
गिरावासो विसर्गश्च सर्वलक्षणलक्षवित् ॥ १५१ ॥
गन्धमाली च भगवाननन्तः सर्वलक्षणः ।
सन्तानो बहुलो बाहुः सकलः सर्वपावनः ॥ १५२ ॥
करस्थाली कपाली च ऊर्ध्वसंहननो युवा ।
यन्त्रतन्त्रसुविख्यातो लोकः सर्वाश्रयो मृदुः ॥ १५३ ॥
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ।
वार्यक्षः ककुभो वज्री दीप्ततेजाः सहस्रपात् ॥ १५४ ॥
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ १५५ ॥
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्माता शतघ्नः शतपाशधृक् ॥ १५६ ॥
कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपा क्षणः ।
विश्वक्षेत्रप्रदो बीजं लिङ्गमाद्यस्तु निर्मुखः ॥ १५७ ॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं मोक्षद्वारं प्रजाद्वारं त्रिविष्टपः ॥ १५८ ॥
निर्वाणं हृदयश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ १५९ ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १६० ॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १६१ ॥
देवासुरेश्वरो विष्णुर्देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्मा स्वयम्भवः ॥ १६२ ॥
उद्गतस्त्रिक्रमो वैद्यो वरदोऽवरजोऽम्बरः ।
इज्यो हस्ती तथा व्याघ्रो देवसिंहो महर्षभः ॥ १६३ ॥
विबुधाग्र्यः सुरः श्रेष्ठः स्वर्गदेवस्तथोत्तमः ।
संयुक्तः शोभनो वक्ता आशानां प्रभवोऽव्ययः ॥ १६४ ॥
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १६५ ॥
अभिरामः सुशरणो निरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ १६६ ॥
स्थावराणां पतिश्चैव नियतेन्द्रियवर्तनः ।
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यः शुचिव्रतः ॥ १६७ ॥
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ।
विमुक्तो मुक्तकेशश्च श्रीमाञ्छ्रीवर्धनो जगत् ॥ १६८ ॥
यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ।
भक्तिमेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ १६९ ॥
ततो ह्यनुज्ञां प्राप्यैवं स्तुतो भक्तिमतां गतिः ।
तस्माल्लब्ध्वा स्तवं शम्भोर्नृपस्त्रैलोक्यविश्रुतः ॥ १७० ॥
अश्वमेधसहस्रस्य फलं प्राप्य महायशाः ।
गणाधिपत्यं सम्प्राप्तस्तण्डिनस्तेजसा प्रभोः ॥ १७१ ॥
यः पठेच्छृणुयाद्वापि श्रावयेद् ब्राह्मणानपि ।
अश्वमेधसहस्रस्य फलं प्राप्नोति वै द्विजाः ॥ १७२ ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
शरणागतघाती च मित्रविश्वासघातकः ॥ १७३ ॥
मातृहा पितृहा चैव वीरहा भ्रूणहा तथा ।
संवत्सरं क्रमाज्जप्त्वा त्रिसंध्यं शङ्कराश्रमे ॥ १७४ ॥
देवमिष्ट्वा त्रिसन्ध्यं च सर्वपापैः प्रमुच्यते ॥ १७५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे रुद्रसहस्रनामकथनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-65

कोई टिप्पणी नहीं:

123