श्रीलिङ्गमहापुराण -[पूर्वभाग] -063

श्रीलिङ्गमहापुराण -[पूर्वभाग] -063
॥ श्रीसाम्बसदाशिवाय नमः ॥
तिरसठवाँ अध्याय
दक्ष प्रजापति द्वारा मैथुनी सृष्टि का प्रादुर्भाव, दक्षकन्याओं की वंश-परम्परा तथा ऋषि वंश वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे त्रिषष्टितमोऽध्यायः
देवादिसृष्टिकथनं

॥ ऋषय ऊचुः ॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं ब्रूहि सूताद्य यथाक्रममनुत्तमम् ॥ १ ॥
॥ सूत उवाच ॥
सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषां सृष्टिरुच्यते ।
दक्षात् प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा ॥ २ ॥


यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् ।
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः ॥ ३ ॥
दक्षः पुत्रसहस्राणि पञ्च सूत्यामजीजनत् ।
तांस्तु दृष्ट्वा महाभागान् सिसृक्षुर्विविधाः प्रजाः ॥ ४ ॥
नारदः प्राह हर्यश्वान् दक्षपुत्रान् समागतान् ।
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्ध्वमध एव च ॥ ५ ॥
ततः सृष्टिं विशेषेण कुरुध्वं मुनिसत्तमाः ।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ॥ ६ ॥
अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः ।
हर्यश्वेषु च नष्टेषु पुनर्दक्षः प्रजापतिः ॥ ७ ॥
सूत्यामेव च पुत्राणां सहस्रमसृजत् प्रभुः ।
शबला नाम ते विप्राः समेताः सृष्टिहेतवः ॥ ८ ॥
नारदोऽनुगतान् प्राह पुनस्तान् सूर्यवर्चसः ।
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄन् पुनः पुनः ॥ ९ ॥
आगत्य वाथ सृष्टिं वै करिष्यथ विशेषतः ।
तेऽपि तेनैव मार्गेण जग्मुर्भ्रातृगतिं तथा ॥ १० ॥
ततस्तेष्वपि नष्टेषु षष्टिकन्याः प्रजापतिः ।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तदा ॥ ११ ॥
प्रादात्स दशकं धर्मे कश्यपाय त्रयोदश ।
विंशत्सप्त च सोमाय चतस्रोऽरिष्टनेमये ॥ १२ ॥
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरात् ॥ १३ ॥
शृणुध्वं देवमातॄणां प्रजाविस्तारमादितः ।
मरुत्वती वसूर्यामिर्लम्बा भानुररुन्धती ॥ १४ ॥
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ।
धर्मपत्न्यः समाख्यातास्तासां पुत्रान् वदामि वः ॥ १५ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥ १६ ॥
भानोस्तु भानवः प्रोक्ता मुहूर्ताया मुहूर्तकाः ।
लम्बाया घोषनामानो नागवीथिस्तु यामिजः ॥ १७ ॥
सङ्कल्पायास्तु सङ्कल्पो वसुसर्गं वदामि वः ।
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम् ॥ १८ ॥
वसवस्ते समाख्याताः सर्वभूतहितैषिणः ।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥ १९ ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।
अजैकपादहिर्बुध्न्यो विरूपाक्षः सभैरवः ॥ २० ॥
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ।
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥ २१ ॥
एते रुद्राः समाख्याता एकादश गणेश्वराः ।
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकम् ॥ २२ ॥
अदितिश्च दितिश्चैव अरिष्टा सुरसा मुनिः ।
सुरभिर्विनता ताम्रा तद्वत् क्रोधवशा इला ॥ २३ ॥
कद्रूस्त्विषा दनुस्तद्वत्तासां पुत्रान् वदामि वः ।
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः ॥ २४ ॥
वैवस्वतान्तरे ते वै आदित्या द्वादश स्मृताः ।
इन्द्रो धाता भगस्त्वष्ट मित्रोऽथ वरुणोऽर्यमा ॥ २५ ॥
विवस्वान् सविता पूषा अंशुमान् विष्णुरेव च ।
एते सहस्रकिरणा आदित्या द्वादश स्मृताः ॥ २६ ॥
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च ॥ २७ ॥
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम् ।
विप्रचित्तिः प्रधानोऽभूत्तेषां मध्ये द्विजोत्तमाः ॥ २८ ॥
ताम्रा च जनयामास षट्कन्या द्विजपुङ्गवाः ।
शुकीं श्येनीं च भासीं च सुग्रीवीं गृध्रिकां शुचिम् ॥ २९ ॥
शुकी शुकानुलूकांश्च जनयामास धर्मतः ।
श्येनी श्येनांस्तथा भासी कुरङ्गांश्च व्यजीजनत् ॥ ३० ॥
गृध्री गृध्रान् कपोतांश्च पारावत विहङ्गमान् ।
हंससारसकारण्ड प्लवांश्छुचिरजीजनत् ॥ ३१ ॥
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् ।
विनता जनयामास गरुडं चारुणं शुभा ॥ ३२ ॥
सौदामिनीं तथा कन्यां सर्वलोकभयङ्करीम् ।
सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा ॥ ३३ ॥
कद्रूः सहस्रशिरसां सहस्रं प्राप सुव्रता ।
प्रधानास्तेषु विख्याताः षड्विंशतिरनुत्तमाः ॥ ३४ ॥
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः ।
धनञ्जयमहानील पद्माश्वतरतक्षकाः ॥ ३५ ॥
एलापत्रमहापद्म धृतराष्ट्रबलाहकाः ।
शङ्खपालमहाशङ्ख पुष्पदंष्ट्रशुभाननाः ॥ ३६ ॥
शङ्खलोमा च नहुषो वामनः फणितस्तथा ।
कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृतः ॥ ३७ ॥
रक्षोगणं क्रोधवशा महामायं व्यजीजनत् ।
रुद्राणां च गणं तद्वद् गोमहिष्यौ वराङ्गना ॥ ३८ ॥
सुरभिर्जनयामास कश्यपादिति नः श्रुतम् ।
मुनिर्मुनीनां च गणं गणमप्सरसां तथा ॥ ३९ ॥
तथा किंनरगन्धर्वानरिष्टाजनयद्बहून् ।
तृणवृक्षलतागुल्ममिला सर्वमजीजनत् ॥ ४० ॥
त्विषा तु यक्षरक्षांसि जनयामास कोटिशः ।
एते तु काश्यपेयाश्च सङ्क्षेपात् परिकीर्तिताः ॥ ४१ ॥
एतेषां पुत्रपौत्रादि वंशाश्च बहवः स्मृताः ।
एवं प्रजासु सृष्टासु कश्यपेन महात्मना ॥ ४२ ॥
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च ।
अभिषिच्याधिपत्येषु तेषां मुख्यान् प्रजापतिः ॥ ४३ ॥
ततो मनुष्याधिपतिं चक्रे वैवस्वतं मनुम् ।
स्वायंभुवेऽन्तरे पूर्वं ब्रह्मणा येऽभिषेचिताः ॥ ४४ ॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
यथोपदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ ४५ ॥
स्वायंभुवेऽन्तरे पूर्वे ब्रह्मणा येऽभिषेचिताः ।
ते ह्येते चाभिषिच्यन्ते मनवश्च भवन्ति ते ॥ ४६ ॥
मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः ।
एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे ततः ॥ ४७ ॥
अतीतानागताः सर्वे नृपा मन्वन्तरे स्मृताः ।
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ॥ ४८ ॥
कश्यपो गोत्रकामस्तु चचार स पुनस्तपः ।
पुत्रो गोत्रकरो मह्यं भवतादिति चिन्तयन् ॥ ४९ ॥
तस्यैवं ध्यायमानस्य कश्यपस्य महात्मनः ।
ब्रह्मयोगात्सुतौ पश्चात् प्रादुर्भूतौ महौजसौ ॥ ५० ॥
वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ ।
वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ॥ ५१ ॥
रैभ्यस्य रैभ्या विज्ञेया नैध्रुवस्य वदामि वः ।
च्यवनस्य तु कन्यायां सुमेधाः समपद्यत ॥ ५२ ॥
नैध्रुवस्य तु सा पत्नी माता वै कुण्डपायिनाम् ।
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ॥ ५३ ॥
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहातपाः ।
शाण्डिल्या नैध्रुवा रैभ्यास्त्रयः पक्षास्तु काश्यपाः ॥ ५४ ॥
नव प्रकृतयोऽदेवाः पुलस्त्यस्य वदामि वः ।
चतुर्युगे ह्यतिक्रान्ते मनोरेकादशे प्रभोः ॥ ५५ ॥
अर्धावशिष्टे तस्मिंस्तु द्वापरे सम्प्रवर्तिते ।
मानवस्य नरिष्यन्तः पुत्र आसीद्दमः किल ॥ ५६ ॥
दमस्य तस्य दायादस्तृणबिन्दुरिति स्मृतः ।
त्रेतायुगमुखे राजा तृतीये सम्बभूव ह ॥ ५७ ॥
तस्य कन्या त्विलविला रूपेणाप्रतिमाभवत् ।
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ ५८ ॥
ऋषिरैरविलो यस्यां विश्रवाः समपद्यत ।
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः ॥ ५९ ॥
बृहस्पतेः शुभा कन्या नाम्ना वै देववर्णिनी ।
पुष्पोत्कटा बलाका च सुते माल्यवतः स्मृतेः ॥ ६० ॥
कैकसी मालिनः कन्या तासां वै शृणुत प्रजाः ।
ज्येष्ठं वैश्रवणं तस्मात्सुषुवे देववर्णिनी ॥ ६१ ॥
कैकसी चाप्यजनयद्रावणं राक्षसाधिपम् ।
कुम्भकर्णं शूर्पणखां धीमन्तं च विभीषणम् ॥ ६२ ॥
पुष्पोत्कटा ह्यजनयत्पुत्रांस्तस्माद् द्विजोत्तमाः ।
महोदरं प्रहस्तं च महापार्श्वं खरं तथा ॥ ६३ ॥
कुम्भीनसीं तथा कन्यां बलायाः शृणुत प्रजाः ।
त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः ॥ ६४ ॥
कन्या वै मालिका चापि बलायाः प्रसवः स्मृतः ।
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव ॥ ६५ ॥
विभीषणोऽतिशुद्धात्मा धर्मज्ञः परिकीर्तितः ।
पुलस्त्यस्य मृगाः पुत्राः सर्वे व्याघ्राश्च दंष्ट्रिणः ॥ ६६ ॥
भूताः पिशाचाः सर्पाश्च सूकरा हस्तिनस्तथा ।
वानराः किन्नराश्चैव ये च किम्पुरुषास्तथा ॥ ६७ ॥
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे ।
अत्रेः पत्न्यो दशैवासन् सुन्दर्यश्च पतिव्रताः ॥ ६८ ॥
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ।
भद्राभद्रा च जलदा मन्दा नन्दा तथैव च ॥ ६९ ॥
बलाबला च विप्रेन्द्रा या च गोपाबला स्मृता ।
तथा तामरसा चैव वरक्रीडा च वै दश ॥ ७० ॥
आत्रेयवंशप्रभवास्तासां भर्ता प्रभाकरः ।
स्वर्भानुपिहिते सूर्ये पतितेऽस्मिन् दिवो महीम् ॥ ७१ ॥
तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्तिता ।
स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः ॥ ७२ ॥
ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः ।
ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः ॥ ७३ ॥
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।
स तासु जनयामास पुनः पुत्रांस्तपोधनः ॥ ७४ ॥
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ।
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ ॥ ७५ ॥
दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः ।
यवीयसी स्वसा तेषाममला ब्रह्मवादिनी ॥ ७६ ॥
तस्य गोत्रद्वये जाताश्चत्वारः प्रथिता भुवि ।
श्यावश्च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः ॥ ७७ ॥
आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम् ।
काश्यपो नारदश्चैव पर्वतानुद्धतस्तथा ॥ ७८ ॥
जज्ञिरे मानसा ह्येते अरुन्धत्या निबोधत ।
नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत् ॥ ७९ ॥
ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः ।
पुरा देवासुरे युद्धे घोरे वै तारकामये ॥ ८० ॥
अनावृष्ट्या हते लोके ह्युग्रे लोकेश्वरैः सह ।
वसिष्ठस्तपसा धीमान् धारयामास वै प्रजाः ॥ ८१ ॥
अन्नोदकं मूलफलं ओषधीश्च प्रवर्तयन् ।
तानेताञ्जीवयामास कारुण्यादौषधेन च ॥ ८२ ॥
अरुन्धत्यां वसिष्ठस्तु सुतानुत्पादयच्छतम् ।
ज्यायसोऽजनयच्छक्तेरदृश्यन्ती पराशरम् ॥ ८३ ॥
रक्षसा भक्षिते शक्तौ रुधिरेण तु वै तदा ।
काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम् ॥ ८४ ॥
द्वैपायनो ह्यरण्यां वै शुकमुत्पादयत्सुतम् ।
उपमन्युं च पीवर्यां विद्धीमे शुकसूनवः ॥ ८५ ॥
भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरस्तु पञ्चमः ।
कन्या कीर्तिमती चैव योगमाता धृतव्रता ॥ ८६ ॥
जननी ब्रह्मदत्तस्य पत्नी सा त्वनुहस्य च ।
श्वेतः कृष्णश्च गौरश्च श्यामो धूम्रस्तथारुणः ॥ ८७ ॥
नीलो बादरिकश्चैव सर्वे चैते पराशराः ।
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥ ८८ ॥
अत ऊर्ध्वं निबोधध्वमिन्द्रप्रमितिसम्भवम् ।
वसिष्ठस्य कपिञ्जल्यो घृताच्यामुदपद्यत ॥ ८९ ॥
त्रिमूर्तिर्यः समाख्यात इन्द्रप्रमितिरुच्यते ।
पृथोः सुतायां सम्भूतो भद्रस्तस्या भवद्वसुः ॥ ९० ॥
उपमन्युः सुतस्तस्य बहवो ह्यौपमन्यवः ।
मित्रावरुणयोश्चैव कौण्डिन्या ये परिश्रुताः ॥ ९१ ॥
एकार्षेयास्तथा चान्ये वासिष्ठा नाम विश्रुताः ।
एते पक्षा वसिष्ठानां स्मृता दश महात्मनाम् ॥ ९२ ॥
इत्येते ब्रह्मणः पुत्रा मानसा विश्रुता भुवि ।
भर्तारश्च महाभागा एषां वंशाः प्रकीर्तिताः ॥ ९३ ॥
त्रिलोकधारणे शक्ता देवर्षिकुलसम्भवाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ९४ ॥
यैस्तु व्याप्तास्त्रयो लोकाः सूर्यस्येव गभस्तिभिः ॥ ९५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे देवादिसृष्टिकथनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-63

कोई टिप्पणी नहीं:

123