श्रीलिङ्गमहापुराण -[पूर्वभाग] -064

श्रीलिङ्गमहापुराण -[पूर्वभाग] -064
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौंसठवाँ अध्याय
वसिष्ठपुत्र शक्ति का आख्यान तथा महर्षि पराशर की कथा
श्रीलिङ्गमहापुराणे पूर्वभागे चतुःषष्टितमोऽध्यायः
वासिष्ठकथनं

॥ ऋषय ऊचुः ॥
कथं हि रक्षसा शक्तिर्भक्षितः सोऽनुजैः सह ।
वासिष्ठो वदतां श्रेष्ठ सूत वक्तुमिहार्हसि ॥ १ ॥
॥ सूत उवाच ॥
राक्षसो रुधिरो नाम वसिष्ठस्य सुतं पुरा ।
शक्तिं स भक्षयामास शक्तेः शापात् सहानुजैः ॥ २ ॥


वसिष्ठयाज्यं विप्रेन्द्रास्तदादिश्यैव भूपतिम् ।
कल्माषपादं रुधिरो विश्वामित्रेण चोदितः ॥ ३ ॥
भक्षितः स इति श्रुत्वा वसिष्ठस्तेन रक्षसा ।
शक्तिः शक्तिमतां श्रेष्ठो भ्रातृभिः सह धर्मवित् ॥ ४ ॥
हा पुत्र पुत्र पुत्रेति क्रन्दमानो मुहुर्मुहुः ।
अरुन्धत्या सह मुनिः पपात भुवि दुःखितः ॥ ५ ॥
नष्टं कुलमिति श्रुत्वा मर्तुं चक्रे मतिं तदा ।
स्मरन् पुत्रशतं चैव शक्तिज्येष्ठं च शक्तिमान् ॥ ६ ॥
न तं विनाहं जीविष्ये इति निश्चित्य दुःखितः ॥ ७ ॥
आरुह्य मूर्धानमजात्मजोऽसौ तयात्मवान् सर्वविदात्मविच्च ।
धराधरस्यैव तदा धरायां पपात पत्न्या सह साश्रुदृष्टिः ॥ ८ ॥
धराधरात्तं पतितं धरा तदा दधार तत्रापि विचित्रकण्ठी ।
करांबुजाभ्यां करिखेलगामिनी रुदन्तमादाय रुरोद सा च ॥ ९ ॥
तदा तस्य स्नुषा प्राह पत्नी शक्तेर्महामुनिम् ।
वसिष्ठं वदतां श्रेष्ठं रुदन्ती भयविह्वला ॥ १० ॥
भगवन् ब्राह्मणश्रेष्ठ तव देहमिदं शुभम् ।
पालयस्व विभो द्रष्टुं तव पौत्रं ममात्मजम् ॥ ११ ॥
न त्याज्यं तव विप्रेन्द्र देहमेतत् सुशोभनम् ।
गर्भस्थो मम सर्वार्थ साधकः शक्तिजो यतः ॥ १२ ॥
एवमुक्त्वाथ धर्मज्ञा कराभ्यां कमलेक्षणा ।
उत्थाप्य श्वशुरं नत्वा नेत्रे सम्मृज्य वारिणा ॥ १३ ॥
दुःखितापि परित्रातुं श्वशुरं दुःखितं तदा ।
अरुन्धतीं च कल्याणीं प्रार्थयामास दुःखिताम् ॥ १४ ॥
स्नुषावाक्यं ततः श्रुत्वा वसिष्ठ उत्थाय भूतलात् ।
संज्ञामवाप्य चालिङ्ग्य सा पपात सुदुःखिता ॥ १५ ॥
अरुन्धती कराभ्यां तां संस्पृश्यास्राकुलेक्षणाम् ।
रुरोद मुनिशार्दूलो भार्यया सुतवत्सलः ॥ १६ ॥
अथ नाभ्यम्बुजे विष्णोर्यथा तस्याश्चतुर्मुखः ।
आसीनो गर्भशय्यायां कुमार ऋचमाह सः ॥ १७ ॥
ततो निशम्य भगवान् वसिष्ठ ऋचमादरात् ।
केनोक्तमिति सञ्चिन्त्य तदातिष्ठत् समाहितः ॥ १८ ॥
व्योमाङ्गणस्थोऽथ हरिः पुण्डरीकनिभेक्षणः ।
वसिष्ठमाह विश्वात्मा घृणया स घृणानिधिः ॥ १९ ॥
भो वत्स वत्स विप्रेन्द्र वसिष्ठ सुतवत्सल ।
तव पौत्रमुखाम्भोजादृगेषाद्य विनिःसृता ॥ २० ॥
मत्समस्तव पौत्रोऽसौ शक्तिजः शक्तिमान्मुने ।
तस्मादुत्तिष्ठ सन्त्यज्य शोकं ब्रह्मसुतोत्तम ॥ २१ ॥
रुद्रभक्तश्च गर्भस्थो रुद्रपूजापरायणः ।
रुद्रदेवप्रभावेण कुलं ते सन्तरिष्यति ॥ २२ ॥
एवमुक्त्वा घृणी विप्रं भगवान् पुरुषोत्तमः ।
वसिष्ठं मुनिशार्दूलं तत्रैवान्तरधीयत ॥ २३ ॥
ततः प्रणम्य शिरसा वसिष्ठो वारिजेक्षणम् ।
अदृश्यन्त्या महातेजाः पस्पर्शोदरमादरात् ॥ २४ ॥
हा पुत्र पुत्र पुत्रेति पपात च सुदुःखितः ।
ललापारुन्धती प्रेक्ष्य तदासौ रुदतीं द्विजाः ॥ २५ ॥
स्वपुत्रं च स्मरन् दुःखात् पुनरेह्येहि पुत्रक ।
तव पुत्रमिमं दृष्ट्वा भो शक्ते कुलधारणम् ॥ २६ ॥
तवान्तिकं गमिष्यामि तव मात्रा न संशयः ।
॥ सूत उवाच ॥
एवमुक्त्वा रुदन् विप्र आलिङ्ग्यारुन्धतीं तदा ॥ २७ ॥
पपात ताडयन्तीव स्वस्य कुक्षी करेण वै ।
अदृश्यन्ती जघानाथ शक्तिजस्यालयं शुभा ॥ २८ ॥
स्वोदरं दुःखिता भूमौ ललाप च पपात च ।
अरुन्धति तदा भीता वसिष्ठश्च महामतिः ॥ २९ ॥
समुत्थाप्य स्नुषां बालामूचतुर्भयविह्वलौ ॥ ३० ॥
विचारमुग्धे तव गर्भमण्डलं कराम्बुजाभ्यां विनिहत्य दुर्लभम् ।
कुलं वसिष्ठस्य समस्तमप्यहो निहन्तुमार्ये कथमुद्यता वद ॥ ३१ ॥
तवात्मजं शक्तिसुतं च दृष्ट्वा चास्वाद्य वक्त्रामृतमार्यसूनोः ।
त्रातुं यतो देहमिमं मुनीन्द्रः सुनिश्चितः पाहि ततः शरीरम् ॥ ३२ ॥
॥ सूत उवाच ॥
एवं स्नुषामुपालभ्य मुनिं चारुन्धती स्थिता ।
अरुन्धती वसिष्ठस्य प्राह चार्तेति विह्वला ॥ ३३ ॥
त्वय्येव जीवितं चास्य मुनेर्यत्सुव्रते मम ।
जीवितं रक्ष देहस्य धात्री च कुरु यद्धितम् ॥ ३४ ॥
॥ अदृश्यन्त्युवाच ॥
मया यदि मुनिश्रेष्ठो त्रातुं वै निश्चितं स्वकम् ।
ममाशुभं शुभं देहं कथञ्चित् पालयाम्यहम् ॥ ३५ ॥
प्रियदुःखमहं प्राप्ता ह्यसती नात्र संशयः ।
मुने दुःखादहं दग्धा यतः पुत्री मुने तव ॥ ३६ ॥
अहोऽद्भुतं मया दृष्टं दुःखपात्री ह्यहं विभो ।
दुःखत्राता भव ब्रह्मन् ब्रह्मसूनो जगद्गुरो ॥ ३७ ॥
तथापि भर्तृरहिता दीना नारी भवेदिह ।
पाहि मां तत आर्येन्द्र परिभूता भविष्यति ॥ ३८ ॥
पिता माता च पुत्राश्च पौत्राः श्वशुर एव च ।
एते न बान्धवाः स्त्रीणां भर्ता बन्धुः परा गतिः ॥ ३९ ॥
आत्मनो यद्धि कथितमप्यर्धमिति पण्डितैः ।
तदप्यत्र मृषा ह्यासीद्गतः शक्तिरहं स्थिता ॥ ४० ॥
अहो ममात्र काठिन्यं मनसो मुनिपुङ्गव ।
पतिं प्राणसमं त्यक्त्वा स्थिता यत्र क्षणं यतः ॥ ४१ ॥
वसिष्ठाश्वत्थमाश्रित्य ह्यमृता तु यथा लता ।
निर्मूलाप्यमृता भर्त्रा त्यक्ता दीना स्थिताप्यहम् ॥ ४२ ॥
स्नुषावाक्यं निशम्यैव वसिष्ठो भार्यया सह ।
तदा चक्रे मतिं धीमान् यातुं स्वाश्रममाश्रमी ॥ ४३ ॥
कृच्छ्रात्सभार्यो भगवान् वसिष्ठः स्वाश्रमं क्षणात् ।
अदृश्यन्त्या च पुण्यात्मा संविवेश स चिन्तयन् ॥ ४४ ॥
सा गर्भं पालयामास कथञ्चिन् मुनिपुङ्गवाः ।
कुलसन्धारणार्थाय शक्तिपत्नी पतिव्रता ॥ ४५ ॥
ततः सासूत तनयं दशमे मासि सुप्रभम् ।
शक्तिपत्नी यथा शक्तिं शक्तिमन्तमरुन्धती ॥ ४६ ॥
असूत सादितिर्विष्णुं यथा स्वाहा गुहं सुतम् ।
अग्निं यथारणिः पत्नी शक्तेः साक्षात् पराशरम् ॥ ४७ ॥
यदा तदा शक्तिसूनुरवतीर्णो महीतले ।
शक्तिस्त्यक्त्वा तदा दुःखं पितॄणां समतां ययौ ॥ ४८ ॥
भ्रातृभिः सह पुण्यात्मा आदित्यैरिव भास्करः ।
रराज पितृलोकस्थो वासिष्ठो मुनिपुङ्गवाः ॥ ४९ ॥
जगुस्तदा च पितरो ननृतुश्च पितामहाः ।
प्रपितामहाश्च विप्रेन्द्रा ह्यवतीर्णे पराशरे ॥ ५० ॥
ये ब्रह्मवादिनो भूमौ ननृतुर्दिवि देवताः ।
पुष्कराद्याश्च ससृजुः पुष्पवर्षं च खेचराः ॥ ५१ ॥
पुरेषु राक्षसानां च प्रणादं विषमं द्विजाः ।
आश्रमस्थाश्च मुनयः समूहुर्हर्षसन्ततिम् ॥ ५२ ॥
अवतीर्णो यथा ह्यण्डाद्भानुः सोऽपि पराशरः ।
अदृश्यन्त्याश्चतुर्वक्त्रो मेघजालाद्दिवाकरः ॥ ५३ ॥
सुखं च दुःखमभवददृश्यन्त्यास्तथा द्विजाः ।
दृष्ट्वा पुत्रं पतिं स्मृत्वा अरुन्धत्या मुनेस्तथा ॥ ५४ ॥
दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम् ।
ललाप विह्वला बाला सन्नकण्ठी पपात च ॥ ५५ ॥
सा पराशरमहो महामतिं देवदानवगणैश्च पूजितम् ।
जातमात्रमनघं शुचिस्मिता बुध्य साश्रुनयना ललाप च ॥ ५६ ॥
हा वसिष्ठसुत कुत्रचिद्गतः पश्य पुत्रमनघं तवात्मजम् ।
त्यज्य दीनवदनां वनान्तरे पुत्रदर्शनपरामिमां प्रभो ॥ ५७ ॥
शक्ते स्वं च सुतं पश्य भ्रातृभिः सह षण्मुखम् ।
यथा महेश्वरोऽपश्यत्सगणो हृषिताननः ॥ ५८ ॥
अथ तस्यास्तदालापं वसिष्ठो मुनिसत्तमः ।
श्रुत्वा स्नुषामुवाचेदं मा रोदीरिति दुःखितः ॥ ५९ ॥
आज्ञया तस्य सा शोकं वसिष्ठस्य कुलाङ्गना ।
त्यक्त्वा ह्यपालयद्बालं बाला बालमृगेक्षणा ॥ ६० ॥
दृष्ट्वा तामबलां प्राह मङ्गलाभरणैर्विना ।
आसीनामाकुलां साध्वीं बाष्पपर्याकुलेक्षणाम् ॥ ६१ ॥
॥ शाक्तेय उवाच ॥
अम्ब मङ्गलविभूषणैर्विना देहयष्टिरनघे न शोभते ।
वक्तुमर्हसि तवाद्य कारणं चन्द्रबिम्बरहितेव शर्वरी ॥ ६२ ॥
मातर्मातः कथं त्यक्त्वा मङ्गलाभरणानि वै ।
आसीना भर्तृहीनेव वक्तुमर्हसि शोभने ॥ ६३ ॥
अदृश्यन्ती तदा वाक्यं श्रुत्वा तस्य सुतस्य सा ।
न किञ्चिदब्रवीत् पुत्रं शुभं वा यदि वेतरत् ॥ ६४ ॥
अदृश्यन्तीं पुनः प्राह शाक्तेयो भगवान् मम ।
मातः कुत्र महातेजाः पिता वद वदेति ताम् ॥ ६५ ॥
श्रुत्वा रुरोद सा वाक्यं पुत्रस्यातीव विह्वला ।
भक्षितो रक्षसा तातस्तवेति निपपात च ॥ ६६ ॥
श्रुत्वा वसिष्ठोऽपि पपात भूमौ पौत्रस्य वाक्यं स रुदन् दयालुः ।
अरुन्धती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश्च ॥ ६७ ॥
भक्षितो रक्षसा मातुः पिता तव मुखादिति ।
श्रुत्वा पराशरो धीमान् प्राह चास्राविलेक्षणः ॥ ६८ ॥
॥ पराशर उवाच ॥
अभ्यर्च्य देवदेवेशं त्रैलोक्यं सचराचरम् ।
क्षणेन मातः पितरं दर्शयामीति मे मतिः ॥ ६९ ॥
सा निशम्य वचनं तदा शुभं सस्मिता तनयमाह विस्मिता ।
तथ्यमेतदिति तं निरीक्ष्य सा पुत्र पुत्र भवमर्चयेति च ॥ ७० ॥
ज्ञात्वा शक्तिसुतस्यास्य सङ्कल्पं मुनिपुङ्गवः ।
वसिष्ठो भगवान् प्राह पौत्रं धीमान् घृणानिधिः ॥ ७१ ॥
स्थाने पौत्र मुनिश्रेष्ठ सङ्कल्पस्तव सुव्रत ।
तथापि शृणु लोकस्य क्षयं कर्तुं न चार्हसि ॥ ७२ ॥
राक्षसानामभावाय कुरु सर्वेश्वरार्चनम् ।
त्रैलोक्यं शृणु शाक्तेय अपराध्यति किं तव ॥ ७३ ॥
ततस्तस्य वसिष्ठस्य नियोगाच्छक्तिनन्दनः ।
राक्षसानामभावाय मतिं चक्रे महामतिः ॥ ७४ ॥
अदृश्यन्तीं वसिष्ठं च प्रणम्यारुन्धतीं ततः ।
कृत्वैकलिङ्गं क्षणिकं पांसुना मुनिसन्निधौ ॥ ७५ ॥
सम्पूज्य शिवसूक्तेन त्र्यम्बकेन शुभेन च ।
जप्त्वा त्वरितरुद्रं च शिवसङ्कल्पमेव च ॥ ७६ ॥
नीलरुद्रं च शाक्तेयस्तथा रुद्रं च शोभनम् ।
वामीयं पवमानं च पञ्चब्रह्म तथैव च ॥ ७७ ॥
होतारं लिङ्गसूक्तं च अथर्वशिर एव च ।
अष्टाङ्गमर्घ्यं रुद्राय दत्त्वाभ्यर्च्य यथाविधि ॥ ७८ ॥
॥ पराशर उवाच ॥
भगवन् रक्षसा रुद्र भक्षितो रुधिरेण वै ।
पिता मम महातेजा भ्रातृभिः सह शङ्कर ॥ ७९ ॥
द्रष्टुमिच्छामि भगवन् पितरं भ्रातृभिः सह ।
एवं विज्ञापयांल्लिङ्गं प्रणिपत्य मुहुर्मुहुः ॥ ८० ॥
हा रुद्र रुद्र रुद्रेति रुरोद निपपात च ।
तं दृष्ट्वा भगवान् रूद्रो देवीमाह च शङ्करः ॥ ८१ ॥
पश्य बालं महाभागे बाष्पपर्याकुलेक्षणम् ।
ममानुस्मरणे युक्तं मदाराधनतत्परम् ॥ ८२ ॥
सा च दृष्ट्वा महादेवी पराशरमनिन्दिता ।
दुःखात्सङ्क्लिन्नसर्वाङ्गमस्राकुलविलोचनम् ॥ ८३ ॥
लिङ्गार्चनविधौ सक्तं हर रुद्रेति वादिनम् ।
प्राह भर्तारमीशानं शङ्करं जगतामुमा ॥ ८४ ॥
ईप्सितं यच्छ सकलं प्रसीद परमेश्वर ।
निशम्य वचनं तस्याः शङ्करः परमेश्वरः ॥ ८५ ॥
भार्यामार्यामुमां प्राह ततो हालाहलाशनः ।
रक्षाम्येनं द्विजं बालं फुल्लेन्दीवरलोचनम् ॥ ८६ ॥
ददामि दृष्टिं मद्रूप दर्शनक्षम एष वै ।
एवमुक्त्वा गणैर्दिव्यैर्भगवान्नीललोहितः ॥ ८७ ॥
ब्रह्मेन्द्रविष्णुरुद्राद्यैः संवृतः परमेश्वरः ।
ददौ च दर्शनं तस्मै मुनिपुत्राय धीमते ॥ ८८ ॥
सोऽपि दृष्ट्वा महादेवमानन्दास्राविलेक्षणः ।
निपपात च हृष्टात्मा पादयोस्तस्य सादरम् ॥ ८९ ॥
पुनर्भवान्याः पादौ च नन्दिनश्च महात्मनः ।
सफलं जीवितं मेऽद्य ब्रह्माद्यांस्तांस्तदाह सः ॥ ९० ॥
रक्षार्थमागतस्त्वद्य मम बालेन्दुभूषणः ।
कोऽन्यः समो मया लोके देवो वा दानवोऽपि वा ॥ ९१ ॥
अथ तस्मिन् क्षणादेव ददर्श दिवि संस्थितम् ।
पितरं भ्रातृभिः सार्धं शाक्तेयस्तु पराशरः ॥ ९२ ॥
सूर्यमण्डलसङ्काशे विमाने विश्वतोमुखे ।
भ्रातृभिः सहितं दृष्ट्वा ननाम च जहर्ष च ॥ ९३ ॥
तदा वृषध्वजो देवः सभार्यः सगणेश्वरः ।
वसिष्ठपुत्रं प्राहेदं पुत्रदर्शनतत्परम् ॥ ९४ ॥
॥ श्रीदेव उवाच ॥
शक्ते पश्य सुतं बालमानन्दास्राविलेक्षणम् ।
अदृश्यन्तीं च विप्रेन्द्र वसिष्ठं पितरं तव ॥ ९५ ॥
अरुन्धतीं महाभागां कल्याणीं देवतोपमाम् ।
मातरं पितरं चोभौ नमस्कुरु महामते ॥ ९६ ॥
तदा हरं प्रणम्याशु देवदेवमुमां तथा ।
वसिष्ठं च तदा श्रेष्ठं शक्तिर्वै शङ्कराज्ञया ॥ ९७ ॥
मातरं च महाभागां कल्याणीं पतिदेवताम् ।
अरुन्धतीं जगन्नाथ नियोगात् प्राह शक्तिमान् ॥ ९८ ॥
॥ वासिष्ठ उवाच ॥
भो वत्स वत्स विप्रेन्द्र पराशर महाद्युते ।
रक्षितोऽहं त्वया तात गर्भस्थेन महात्मना ॥ ९९ ॥
अणिमादिगुणैश्वर्यं मया वत्स पराशर ।
लब्धमद्याननं दृष्टं तव बाल ममाज्ञया ॥ १०० ॥
अदृश्यन्तीं महाभागां रक्ष वत्स महामते ।
अरुन्धतीं च पितरं वसिष्ठं मम सर्वदा ॥ १०१ ॥
अन्वयः सकलो वत्स मम सन्तारितस्त्वया ।
पुत्रेण लोकान् जयतीत्युक्तं सद्भिः सदैव हि ॥ १०२ ॥
ईप्सितं वरयेशानं जगतां प्रभवं प्रभुम् ।
गमिष्याम्यभिवन्द्येशं भ्रातृभिः सह शङ्करम् ॥ १०३ ॥
एवं पुत्रमुपामन्त्र्य प्रणम्य च महेश्वरम् ।
निरीक्ष्य भार्यां सदसि जगाम पितरं वशी ॥ १०४ ॥
गतं दृष्ट्वाथ पितरं तदाभ्यर्च्यैव शङ्करम् ।
तुष्टाव वाग्भिरिष्टाभिः शाक्तेयः शशिभूषणम् ॥ १०५ ॥
ततस्तुष्टो महादेवो मन्मथान्धकमर्दनः ।
अनुगृह्याथ शाक्तेयं तत्रैवान्तरधीयत ॥ १०६ ॥
गते महेश्वरे साम्बे प्रणम्य च महेश्वरम् ।
ददाह राक्षसानां तु कुलं मन्त्रेण मन्त्रवित् ॥ १०७ ॥
तदाह पौत्रं धर्मज्ञो वसिष्ठो मुनिभिर्वृतः ।
अलमत्यन्तकोपेन तात मन्युमिमं जहि ॥ १०८ ॥
राक्षसा नापराध्यन्ति पितुस्ते विहितं तथा ।
मूढानामेव भवति क्रोधो बुद्धिमतां न हि ॥ १०९ ॥
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ।
सञ्चितस्यातिमहता वत्स क्लेशेन मानवैः ॥ ११० ॥
यशसस्तपसश्चैव क्रोधो नाशकरः स्मृतः ।
अलं हि राक्षसैर्दग्धैर्दीनैरनपराधिभिः ॥ १११ ॥
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ।
एवं वसिष्ठवाक्येन शाक्तेयो मुनिपुङ्गवः ॥ ११२ ॥
उपसंहृतवान् सत्रं सद्यस्तद्वाक्यगौरवात् ।
ततः प्रीतश्च भगवान् वसिष्ठो मुनिसत्तमः ॥ ११३ ॥
सम्प्राप्तश्च तदा सत्रं पुलस्त्यो ब्रह्मणः सुतः ।
वसिष्ठेन तु दत्तार्घ्यः कृतासनपरिग्रहः ॥ ११४ ॥
पराशरमुवाचेदं प्रणिपत्य स्थितं मुनिः ।
वैरे महति यद्वाक्याद्गुरोरद्याश्रिता क्षमा ॥ ११५ ॥
त्वया तस्मात् समस्तानि भवाञ्छास्त्राणि वेत्स्यति ।
सन्ततेर्मम न च्छेदः क्रुद्धेनापि यतः कृतः ॥ ११६ ॥
त्वया तस्मान् महाभाग ददाम्यन्यं महावरम् ।
पुराणसंहिताकर्ता भवान् वत्स भविष्यति ॥ ११७ ॥
देवतापरमार्थं च यथावद्वेत्स्यते भवान् ।
प्रवृत्तौ वा निवृत्तौ वा कर्मणस्तेऽमला मतिः ॥ ११८ ॥
मत् प्रसादादसन्दिग्धा तव वत्स भविष्यति ।
ततश्च प्राह भगवान् वसिष्ठो वदतां वरः ॥ ११९ ॥
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ।
अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः ॥ १२० ॥
प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः ।
षट्प्रकारं समस्तार्थ साधकं ज्ञानसञ्चयम् ॥ १२१ ॥
षट्साहस्रमितं सर्वं वेदार्थेन च संयुतम् ।
चतुर्थं हि पुराणानां संहितासु सुशोभनम् ॥ १२२ ॥
एष वः कथितः सर्वो वासिष्ठानां समासतः ।
प्रभवः शक्तिसूनोश्च प्रभावो मुनिपुङ्गवाः ॥ १२३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे वासिष्ठकथनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-64

कोई टिप्पणी नहीं:

123