श्रीलिङ्गमहापुराण -[पूर्वभाग] -060

श्रीलिङ्गमहापुराण -[पूर्वभाग] -060
॥ श्रीसाम्बसदाशिवाय नमः ॥
साठवाँ अध्याय
मंगल, बुध, बृहस्पति, शनि आदि ग्रहों एवं सूर्य के माहात्म्य का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे षष्टितमोऽध्यायः
सूर्यप्रभावर्णनं

॥ सूत उवाच ॥
शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः ।
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः ॥ १ ॥
शेषाणां प्रकृतिं सम्यग् वक्ष्यमाणां निबोधत ।
सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः ॥ २ ॥


नारायणं बुधं प्राहुर्देवं ज्ञानविदो जनाः ।
सर्वलोकप्रभुः साक्षाद्यमो लोकप्रभुः स्वयम् ॥ ३ ॥
महाग्रहो द्विजश्रेष्ठा मन्दगामी शनैश्चरः ।
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ ॥ ४ ॥
प्रजापतिसुतावुक्तौ ततः शुक्रबृहस्पती ।
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥ ५ ॥
भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ।
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राग्निदिवौकसाम् ॥ ६ ॥
द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सर्वलौकिकम् ।
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥ ७ ॥
सूर्य एव त्रिलोकेशो मूलं परमदैवतम् ।
ततः सञ्जायते सर्वं तत्रैव प्रविलीयते ॥ ८ ॥
भावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा ।
अविज्ञेयो ग्रहो विप्रा दीप्तिमान् सुप्रभो रविः ॥ ९ ॥
अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः ।
क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥ १० ॥
मासाः संवत्सरश्चैव ऋतवोऽथ युगानि च ।
तदादित्यादृते ह्येषा कालसंख्या न विद्यते ॥ ११ ॥
कालादृते न नियमो न दीक्षा नाह्निकक्रमः ।
ऋतूनां च विभागश्च पुष्पं मूलं फलं कुतः ॥ १२ ॥
कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोऽपि च ।
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ॥ १३ ॥
जगत् प्रतापनमृते भास्करं रुद्ररूपिणम् ।
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ॥ १४ ॥
तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ।
स एष तेजसां राशिः समस्तः सार्वलौकिकः ॥ १५ ॥
उत्तमं मार्गमास्थाय रात्र्यहोभिरिदं जगत् ।
पार्श्वत ऊर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ १६ ॥
यथा प्रभाकरो दीपो गृहमध्येऽवलम्बितः ।
पार्श्वत ऊर्ध्वमधश्चैव तमो नाशयते समम् ॥ १७ ॥
तद्वत् सहस्रकिरणो ग्रहराजो जगत् प्रभुः ।
सूर्यो गोभिर्जगत् सर्वमादीपयति सर्वतः ॥ १८ ॥
रवे रश्मिसहस्रं यत्प्राङ्मया समुदाहृतम् ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ १९ ॥
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च ।
विश्वव्यचाः पुनश्चाद्यः सन्नद्धश्च ततः परः ॥ २० ॥
सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः ।
सुषुम्नः सूर्यरश्मिस्तु दक्षिणां राशिमैधयत् ॥ २१ ॥
न्यगूर्ध्वाधः प्रचारोऽस्य सुषुम्नः परिकीर्तितः ।
हरिकेशः पुरस्ताद्यो ऋक्षयोनिः प्रकीर्त्यते ॥ २२ ॥
दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम् ।
विश्वव्यचास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधैः ॥ २३ ॥
सन्नद्धश्च तु यो रश्मिः स योनिर्लोहितस्य तु ।
षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः ॥ २४ ॥
शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ।
एवं सूर्यप्रभावेन नक्षत्रग्रहतारकाः ॥ २५ ॥
दृश्यन्ते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत् ।
न क्षीयन्ते यतस्तानि तस्मान्नक्षत्रता स्मृता ॥ २६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यप्रभावर्णनं नाम षष्टितमोऽध्यायः ॥ ६० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-60

कोई टिप्पणी नहीं:

123