श्रीलिङ्गमहापुराण -[पूर्वभाग] -062

श्रीलिङ्गमहापुराण -[पूर्वभाग] -062
॥ श्रीसाम्बसदाशिवाय नमः ॥
बासठवाँ अध्याय
उत्तानपाद के पुत्र ध्रुव का आख्यान, ध्रुव की तपस्या तथा ध्रुवलोक संस्थान का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे द्विषष्टितमोऽध्यायः
भुवनकोशे ध्रुवसंस्थानवर्णनं

॥ ऋषय ऊचुः ॥

कथं विष्णोः प्रसादाद्वै ध्रुवो बुद्धिमतां वरः ।
मेढीभूतो ग्राहाणां वै वक्तुमर्हसि साम्प्रतम् ॥ १ ॥
॥ सूत उवाच ॥
एतमर्थं मया पृष्टो नानाशास्त्रविशारदः ।
मार्कण्डेयः पुरा प्राह मह्यं शुश्रूषवे द्विजाः ॥ २ ॥

॥ मार्कण्डेय उवाच ॥
सार्वभौमो महातेजाः सर्वशस्त्रभृतां वरः ।
उत्तानपादो राजा वै पालयामास मेदिनीम् ॥ ३ ॥
तस्य भार्याद्वयमभूत्सुनीतिः सुरुचिस्तथा ।
अग्रजायामभूत् पुत्रः सुनीत्यां तु महायशाः ॥ ४ ॥
ध्रुवो नाम महाप्राज्ञः कुलदीपो महामतिः ।
कदाचित् सप्तवर्षेऽपि पितुरङ्कमुपाविशत् ॥ ५ ॥
सुरुचिस्तं विनिर्धूय स्वपुत्रं प्रीतिमानसा ।
न्यवेशयत्तं विप्रेन्द्रा ह्यङ्कं रूपेण मानिता ॥ ६ ॥
अलब्ध्वा स पितुर्धीमानङ्कं दुःखितमानसः ।
मातुः समीपमागम्य रुरोद स पुनः पुनः ॥ ७ ॥
रुदन्तं पुत्रमाहेदं माता शोकपरिप्लुता ।
सुरुचिर्दयिता भर्तुस्तस्याः पुत्रोऽपि तादृशः ॥ ८ ॥
मम त्वं मन्दभाग्याया जातः पुत्रोऽप्यभाग्यवान् ।
किं शोचसि किमर्थं त्वं रोदमानः पुनः पुनः ॥ ९ ॥
सन्तप्तहृदयो भूत्वा मम शोकं करिष्यसि ।
स्वस्थस्थानं ध्रुवं पुत्र स्वशक्त्या त्वं समाप्नुयाः ॥ १० ॥
इत्युक्तः स तु मात्रा वै निर्जगाम तदा वनम् ।
विश्वामित्रं ततो दृष्ट्वा प्रणिपत्य यथाविधि ॥ ११ ॥
उवाच प्राञ्जलिर्भूत्वा भगवन् वक्तुमर्हसि ।
सर्वेषामुपरिस्थानं केन प्राप्स्यामि सत्तम ॥ १२ ॥
पितुरङ्के समासीनं माता मां सुरुचिर्मुने ।
व्यधूनयत्स तं राजा पिता नोवाच किञ्चन ॥ १३ ॥
एतस्मात् कारणाद् ब्रह्मंस्त्रस्तोऽहं मातरं गतः ।
सुनीतिराह मे माता मा कृथाः शोकमुत्तमम् ॥ १४ ॥
स्वकर्मणा परं स्थानं प्राप्तुमर्हसि पुत्रक ।
तस्या हि वचनं श्रुत्वा स्थानं तव महामुने ॥ १५ ॥
प्राप्तो वनमिदं ब्रह्मन्नद्य त्वां दृष्टवान् प्रभो ।
तव प्रसादात् प्राप्स्येऽहं स्थानमद्भुतमुत्तमम् ॥ १६ ॥
इत्युक्तः स मुनिः श्रीमान् प्रहसन्निदमब्रवीत् ।
राजपुत्र शृणुष्वेदं स्थानमुत्तममाप्स्यसि ॥ १७ ॥
आराध्य जगतामीशं केशवं क्लेशनाशनम् ।
दक्षिणाङ्गभवं शम्भोर्महादेवस्य धीमतः ॥ १८ ॥
जप नित्यं महाप्राज्ञ सर्वपापविनाशनम् ।
इष्टदं परमं शुद्धं पवित्रममलं परम् ॥ १९ ॥
ब्रूहि मन्त्रमिमं दिव्यं प्रणवेन समन्वितम् ।
नमोऽस्तु वासुदेवाय इत्येवं नियतेन्द्रियः ॥ २० ॥
ध्यायन् सनातनं विष्णुं जपहोमपरायणः ।
इत्युक्तः प्रणिपत्यैनं विश्वामित्रं महायशाः ॥ २१ ॥
प्राङ्मुखो नियतो भूत्वा जजाप प्रीतमानसः ।
शाकमूलफलाहारः संवत्सरमतन्द्रितः ॥ २२ ॥
जजाप मन्त्रमनिशमजस्रं स पुनः पुनः ।
वेताला राक्षसा घोराः सिंहाद्याश्च महामृगाः ॥ २३ ॥
तमभ्ययुर्महात्मानं बुद्धिमोहाय भीषणाः ।
जपन् स वासुदेवेति न किञ्चित् प्रत्यपद्यत ॥ २४ ॥
सुनीतिरस्य या माता तस्या रूपेण संवृता ।
पिशाचि समनुप्राप्ता रुरोद भृशदुःखिता ॥ २५ ॥
मम त्वमेकः पुत्रोऽसि किमर्थं क्लिश्यते भवान् ।
मामनाथामपहाय तप आस्थितवानसि ॥ २६ ॥
एवमादीनि वाक्यानि भाषमाणां महातपाः ।
अनिरीक्ष्यैव हृष्टात्मा हरेर्नाम जजाप सः ॥ २७ ॥
ततः प्रशेमुः सर्वत्र विघ्नरूपाणि तत्र वै ।
ततो गरुडमारुह्य कालमेघसमद्युतिः ॥ २८ ॥
सर्वदेवैः परिवृतः स्तूयमानो महर्षिभिः ।
आययौ भगवान् विष्णुः ध्रुवान्तिकमरातिहा ॥ २९ ॥
समागतं विलोक्याथ कोऽसावित्येव चिन्तयन् ।
पिबन्निव हृषीकेशं नयनाभ्यां जगत्पतिम् ॥ ३० ॥
जपन् स वासुदेवेति ध्रुवस्तस्थौ महाद्युतिः ।
शङ्खप्रान्तेन गोविन्दः पस्पर्शास्यं हि तस्य वै ॥ ३१ ॥
ततः स परमं ज्ञानमवाप्य पुरुषोत्तमम् ।
तुष्टाव प्राञ्जलिर्भूत्वा सर्वलोकेश्वरं हरिम् ॥ ३२ ॥
प्रसीद देवदेवेश शङ्खचक्रगदाधर ।
लोकात्मन् वेदगुह्यात्मन् त्वां प्रपन्नोऽस्मि केशव ॥ ३३ ॥
न विदुस्त्वां महात्मानं सनकाद्या महर्षयः ।
तत्कथं त्वामहं विद्यां नमस्ते भुवनेश्वर ॥ ३४ ॥
तमाह प्रहसन्विष्णुरेहि वत्स ध्रुवो भवान् ।
स्थानं ध्रुवं समासाद्य ज्योतिषामग्रभुग्भव ॥ ३५ ॥
मात्रा त्वं सहितस्तत्र ज्योतिषां स्थानमाप्नुहि ।
मत्स्थानमेतत्परमं ध्रुवं नित्यं सुशोभनम् ॥ ३६ ॥
तपसाराध्य देवेशं पुरा लब्धं हि शङ्करात् ।
वासुदेवेति यो नित्यं प्रणवेन समन्वितम् ॥ ३७ ॥
नमस्कारसमायुक्तं भगवच्छब्दसंयुतम् ।
जपेदेवं हि यो विद्वान् ध्रुवं स्थानं प्रपद्यते ॥ ३८ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
मात्रा सह ध्रुवं सर्वे तस्मिन् स्थाने न्यवेशयन् ॥ ३९ ॥
विष्णोराज्ञां पुरस्कृत्य ज्योतिषां स्थानमाप्तवान् ।
एवं ध्रुवो महातेजा द्वादशाक्षरविद्यया ॥ ४० ॥
अवाप महतीं सिद्धिमेतत्ते कथितं मया ॥ ४१ ॥
॥ सूत उवाच ॥
तस्माद्यो वासुदेवाय प्रणामं कुरुते नरः ।
स याति ध्रुवसालोक्यं ध्रुवत्वं तस्य तत्तथा ॥ ४२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशे ध्रुवसंस्थानवर्णनं नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-62

कोई टिप्पणी नहीं:

123