श्रीलिङ्गमहापुराण -[पूर्वभाग] -059
॥ श्रीसाम्बसदाशिवाय नमः ॥
उनसठवाँ अध्याय
पार्थिव, शुचि तथा वैद्युत नाम से अग्नि के तीन रूपों का वर्णन, बारह मास के बारह सूर्यों का नामनिर्देश एवं सूर्यरश्मियों का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे एकोनषष्टितमोऽध्यायः
सूर्यरश्मिस्वरूपकथनं
॥ सूत उवाच ॥
एतच्छ्रुत्वा तु मुनयः पुनस्तं संशयान्विताः ।
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम् ॥ १ ॥
॥ ऋषय ऊचुः ॥
यदेतदुक्तं भवता सूतेह वदतां वर ।
एतद्विस्तरतो ब्रूहि ज्योतिषां च विनिर्णयम् ॥ २ ॥
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ।
उवाच परमं वाक्यं तेषां संशयनिर्णये ॥ ३ ॥
अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं शान्तबुद्धिभिः ।
एतद्वोऽहं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम् ॥ ४ ॥
यथा देवगृहाणीह सूर्यचन्द्रादयो ग्रहाः ।
अतः परं तु त्रिविधमग्नेर्वक्ष्ये समुद्भवम् ॥ ५ ॥
दिव्यस्य भौतिकस्याग्नेरथोऽग्नेः पार्थिवस्य च ।
व्युष्टायां तु रजन्यां च ब्रह्मणोऽव्यक्तजन्मनः ॥ ६ ॥
अव्याकृतमिदं त्वासीन्नैशेन तमसा वृतम् ।
चतुर्भागावशिष्टेऽस्मिन् लोके नष्टे विशेषतः ॥ ७ ॥
स्वयंभूर्भगवांस्तत्र लोकसर्वार्थसाधकः ।
खद्योतवत्स व्यचरदाविर्भावचिकीर्षया ॥ ८ ॥
सोऽग्निं सृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितः ।
संहृत्य तत् प्रकाशार्थं त्रिधा व्यभजदीश्वरः ॥ ९ ॥
पवनो यस्तु लोकेऽस्मिन् पार्थिवो वह्निरुच्यते ।
यश्चासौ तपते (लोकादौ) सूर्ये शुचिरग्निस्तु स स्मृतः ॥ १० ॥
वैद्युतोऽब्जस्तु विज्ञेयस्तेषां वक्ष्ये तु लक्षणम् ।
वैद्युतो जाठरः सौरो वारिगर्भास्त्रयोऽग्नयः ॥ ११ ॥
तस्मादपः पिबन् सूर्यो गोभिर्दीप्यत्यसौ विभुः ।
जले चाब्जः समाविष्टो नाद्भिः शाम्यति पावकः ॥ १२ ॥
मानवानां च कुक्षिस्थो नाग्निः शाम्यति पावकः ।
अर्चिष्मान् पवनः सोऽग्निर्निष्प्रभो जाठरः स्मृतः ॥ १३ ॥
यश्चायं मण्डली शुक्ली निरूष्मा सम्प्रजायते ।
प्रभा सौरी तु पादेन ह्यस्तं याते दिवाकरे ॥ १४ ॥
अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ।
उद्यन्तं च पुनः सूर्यमौष्ण्यमग्नेः समाविशेत् ॥ १५ ॥
पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ।
प्रकाशोष्णस्वरूपे च सौराग्नेये तु तेजसी ॥ १६ ॥
परस्परानुप्रवेशादाप्यायेते परस्परम् ।
उत्तरे चैव भूम्यर्धे तथा ह्यग्निश्च दक्षिणे ॥ १७ ॥
उत्तिष्ठति पुनः सूर्यः पुनर्वै प्रविशत्यपः ।
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ १८ ॥
अस्तं याति पुनः सूर्योऽहर्वै प्रविशत्यपः ।
तस्मान्नक्तं पुनः शुक्ला आपो दृश्यन्ति भास्वराः ॥ १९ ॥
एतेन क्रमयोगेन भूम्यर्धे दक्षिणोत्तरे ।
उदयास्तमने नित्यमहोरात्रं विशत्यपः ॥ २० ॥
यश्चासौ तपते सूर्यः पिबन्नम्भो गभस्तिभिः ।
पार्थिवाग्निविमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ॥ २१ ॥
सहस्रपादसौ वह्निर्वृत्तकुम्भनिभः स्मृतः ।
आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥ २२ ॥
नादेयीश्चैव सामुद्रीः कूपाश्चैव तथा घनाः ।
स्थावरा जङ्गमाश्चैव वापीकुल्यादिका अपः ॥ २३ ॥
तस्य रश्मिसहस्रं तच्छीतवर्षोष्णनिःस्रवम् ।
तासां चतुःशता नाड्यो वर्षन्ते चित्रमूर्तयः ॥ २४ ॥
भजनाश्चैव माल्याश्च केतनाः पतनास्तथा ।
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ २५ ॥
हिमोद्वहाश्च ता नाड्यो रश्मयस्त्रिशताः पुनः ।
रेशा मेघाश्च वात्स्याश्च ह्लादिन्यो हिमसर्जनाः ॥ २६ ॥
चन्द्रभा नामतः सर्वा पीताभाश्च गभस्तयः ।
शुक्लाश्च ककुभाश्चैव गावो विश्वभृतस्तथा ॥ २७ ॥
शुक्लास्ता नामतः सर्वास्त्रिशतीर्घर्मसर्जनाः ।
सोमो बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ॥ २८ ॥
मनुष्यानौषधेनेह स्वधया च पितॄनपि ।
अमृतेन सुरान् सर्वांस्तिसृभिस्तर्पयत्यसौ ॥ २९ ॥
वसन्ते चैव ग्रीष्मे च शतैः स तपते त्रिभिः ।
वर्षास्वथो शरदि च चतुर्भिः सम्प्रवर्षति ॥ ३० ॥
हेमन्ते शिशिरे चैव हिममुत्सृजते त्रिभिः ।
इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोऽर्यमा ॥ ३१ ॥
अंशुर्विवस्वांस्त्वष्टा च पर्जन्यो विष्णुरेव च ।
वरुणो माघमासे तु सूर्य एव तु फाल्गुने ॥ ३२ ॥
चैत्रे मासि भवेदंशुर्धाता वैशाखतापनः ।
ज्येष्ठे मासि भवेदिन्द्र आषाढे चार्यमा रविः ॥ ३३ ॥
विवस्वान् श्रावणे मासि प्रौष्ठपदे भगः स्मृतः ।
पर्जन्योऽश्वयुजे मासि त्वष्टा वै कार्तिके रविः ॥ ३४ ॥
मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ।
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥ ३५ ॥
षड्भिः सहस्रैः पूषा तु देवोंऽशुः सप्तभिस्तथा ।
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥ ३६ ॥
विवस्वान् दशभिर्याति यात्येकादशभिर्भगः ।
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिः स्मृतः ॥ ३७ ॥
अर्यमा दशभिर्याति पर्जन्यो नवभिस्तथा ।
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति मेदिनीम् ॥ ३८ ॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ।
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥ ३९ ॥
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ।
इति वर्णाः समाख्याता मया सूर्यसमुद्भवाः ॥ ४० ॥
ओषधीषु बलं धत्ते स्वधया च पितृष्वपि ।
सूर्योऽमरेष्वप्यमृतं त्रयं त्रिषु नियच्छति ॥ ४१ ॥
एवं रश्मिसहस्रं तत्सौरं लोकार्थसाधकम् ।
भिद्यते लोकमासाद्य जलशीतोष्णनिःस्रवम् ॥ ४२ ॥
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसंज्ञितम् ।
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च ॥ ४३ ॥
चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ।
नक्षत्राधिपतिः सोमो नयनं वाममीशितुः ॥ ४४ ॥
नयनं चैवमीशस्य दक्षिणं भास्करः स्वयम् ।
तेषां जनानां लोकेऽस्मिन्नयनं नयते यतः ॥ ४५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यरश्मिस्वरूपकथनं
नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें