श्रीलिङ्गमहापुराण -[पूर्वभाग] -058

श्रीलिङ्गमहापुराण -[पूर्वभाग] -058
॥ श्रीसाम्बसदाशिवाय नमः ॥
अट्ठावनवाँ अध्याय
ब्रह्मा द्वारा शिव के आदेश से ग्रहों, नक्षत्रों, जलों आदि के अधिपति के रूप में सूर्य, चन्द्रमा, वरुण आदि की प्रतिष्ठा का निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे अष्टपञ्चाशत्तमोऽध्याय
सूर्याद्यभिषेककथनं

॥ ऋषय ऊचुः ॥

अभ्यषिञ्चत् कथं ब्रह्मा चाधिपत्ये प्रजापतिः ।
देवदैत्यमुखान् सर्वान् सर्वात्मा वद साम्प्रतम् ॥ १ ॥
॥ सूत उवाच ॥
ग्रहाधिपत्ये भगवानभ्यषिञ्चद् दिवाकरम् ।
ऋक्षाणामोषधीनां च सोमं ब्रह्मा प्रजापतिः ॥ २ ॥

अपां च वरुणं देवं धनानां यक्षपुङ्गवम् ।
आदित्यानां तथा विष्णुं वसूनां पावकं तथा ॥ ३ ॥
प्रजापतीनां दक्षं च मरुतां शक्रमेव च ।
दैत्यानां दानवानां च प्रह्लादं दैत्यपुङ्गवम् ॥ ४ ॥
धर्मं पितॄणामधिपं निर्ऋतिं पिशिताशिनाम् ।
रुद्रं पशूनां भूतानां नन्दिनं गणनायकम् ॥ ५ ॥
वीराणां वीरभद्रं च पिशाचानां भयङ्करम् ।
मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम् ॥ ६ ॥
रुद्राणां देवदेवेशं नीललोहितमीश्वरम् ।
विघ्नानां व्योमजं देवं गजास्यं तु विनायकम् ॥ ७ ॥
स्त्रीणां देवीमुमां देवीं वचसां च सरस्वतीम् ।
विष्णुं मायाविनां चैव स्वात्मानं जगतां तथा ॥ ८ ॥
हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम् ।
समुद्राणां च सर्वेषामधिपं पयसां निधिम् ॥ ९ ॥
वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः ॥ १० ॥
गन्धर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार ।
नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम् ॥ ११ ॥
दिग्वारणानामधिपं चकार गजेन्द्रमैरावतमुग्रवीर्यम् ।
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार ॥ १२ ॥
सिंहं मृगाणां वृषभं गवां च मृगाधिपानां शरभं चकार ।
सेनाधिपानां गुहमप्रमेयं श्रुतिस्मृतीनां लकुलीशमीशम् ॥ १३ ॥
अभ्यषिञ्चत्सुधर्माणं तथा शङ्खपदं दिशाम् ।
केतुमन्तं क्रमेणैव हेमरोमाणमेव च ॥ १४ ॥
पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम् ।
चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम् ॥ १५ ॥
प्रसादाद्भगवाञ्छम्भोश्चाभ्यषिञ्चद्यथाक्रमम् ।
पुराभिषिच्य पुण्यात्मा रराज भुवनेश्वरः ॥ १६ ॥
एतद्वो विस्तरेणैव कथितं मुनिपुङ्गवाः ।
अभिषिक्तास्ततस्त्वेते विशिष्टा विश्वयोनिना ॥ १७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्याद्यभिषेककथनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-58

कोई टिप्पणी नहीं:

123