श्रीलिङ्गमहापुराण -[पूर्वभाग] -050

श्रीलिङ्गमहापुराण -[पूर्वभाग] -050
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचासवाँ अध्याय
भुवनविन्यास में विभिन्न कुलाचल पर्वतों पर रहने वाली देवयोनियों आदि का वर्णन

श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चाशत्तमोऽध्यायः

भुवनविन्यासोद्देशस्थानवर्णनं
॥ सूत उवाच ॥

शितान्तशिखरे शक्रः पारिजातवने शुभे ।
तस्य प्राच्यां कुमुदाद्रि कूटोऽसौ बहुविस्तरः ॥ १ ॥
अष्टौ पुराण्युदीर्णानि दानवानां द्विजोत्तमाः ।
सुवर्णकोटरे पुण्ये राक्षसानां महात्मनाम् ॥ २ ॥


नीलकानां पुराण्याहुरष्टषष्टिर्द्विजोत्तमाः ।
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च ॥ ३ ॥
हयाननानां मुख्यानां किन्नराणां च सुव्रताः ।
वेणुसौधे महाशैले विद्याधरपुरत्रयम् ॥ ४ ॥
वैकुण्ठे गरुडः श्रीमान् करञ्जे नीललोहितः ।
वसुधारे वसूनां तु निवासः परिकीर्तितः ॥ ५ ॥
रत्नधारे गिरिवरे सप्तर्षीणां महात्मनाम् ।
सप्तस्थानानि पुण्यानि सिद्धावासयुतानि च ॥ ६ ॥
महत् प्रजापतेः स्थानमेकशृङ्गे नगोत्तमे ।
गजशैले तु दुर्गाद्याः सुमेधे वसवस्तथा ॥ ७ ॥
आदित्याश्च तथा रुद्राः कृतावासास्तथाश्विनौ ।
अशीतिर्देवपुर्यस्तु हेमकक्षे नगोत्तमे ॥ ८ ॥
सुनीले रक्षसां वासाः पञ्चकोटिशतानि च ।
पञ्चकूटे पुराण्यासन् पञ्चकोटिप्रमाणतः ॥ ९ ॥
शतशृङ्गे पुरशतं यक्षाणाममितौजसाम् ।
ताम्राभे काद्रवेयाणां विशाखे तु गुहस्य वै ॥ १० ॥
श्वेतोदरे मुनिश्रेष्ठाः सुपर्णस्य महात्मनः ।
पिशाचके कुबेरस्य हरिकूटे हरेर्गृहम् ॥ ११ ॥
कुमुदे किन्नरावासस्त्वञ्जने चारणालयः ।
कृष्णे गन्धर्वनिलयः पाण्डुरे पुरसप्तकम् ॥ १२ ॥
विद्याधराणां विप्रेन्द्रा विश्वभोगसमन्वितम् ।
सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम् ॥ १३ ॥
पुराणां तु सहस्राणि सप्त शक्रारिणां द्विजाः ।
मुकुटे पन्नगावासः पुष्पकेतौ मुनीश्वराः ॥ १४ ॥
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च ।
तक्षके चैव शैलेन्द्रे चत्वार्यायतनानि च ॥ १५ ॥
ब्रह्मेन्द्रविष्णुरुद्राणां गुहस्य च महात्मनः ।
कुबेरस्य च सोमस्य तथान्येषां महात्मनाम् ॥ १६ ॥
सन्त्यायतनमुख्यानि मर्यादापर्वतेष्वपि ।
श्रीकण्ठाद्रिगुहावासी सर्वावासः सहोमया ॥ १७ ॥
श्रीकण्ठस्याधिपत्यं वै सर्वदेवेश्वरस्य च ।
अण्डस्यास्य प्रवृत्तिस्तु श्रीकण्ठेन न संशयः ॥ १८ ॥
अनन्तेशादयस्त्वेवं प्रत्येकं चाण्डपालकाः ।
चक्रवर्तिन इत्युक्तास्ततो विद्येश्वरास्त्विह ॥ १९ ॥
श्रीकण्ठाधिष्ठितान्यत्र स्थानानि च समासतः ।
मर्यादापर्वतेष्वद्य शृण्वन्तु प्रवदाम्यहम् ॥ २० ॥
श्रीकण्ठाधिष्ठितं विश्वं चराचरमिदं जगत् ।
कालाग्निशिवपर्यन्तं कथं वक्ष्ये सविस्तरम् ॥ २१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनविन्यासोद्देशस्थानवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-50

कोई टिप्पणी नहीं:

123