श्रीलिङ्गमहापुराण -[पूर्वभाग] -048
॥ श्रीसाम्बसदाशिवाय नमः ॥
अड़तालीसवाँ अध्याय
भूमध्य में स्थित मेरु (सुमेरु) पर्वत और इन्द्र आदि लोकपालों की पुरियों का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे
अष्टचत्वारिंशोऽध्याय
मेरुगिरिवर्णनं ॥ सुत उवाच ॥
अस्य द्वीपस्य मध्ये तु मेरुर्नाम महागिरिः ।
नानारत्नमयैः शृङ्गैः स्थितः स्थितिमतां वरः ॥ १ ॥
चतुरशीतिसाहस्रमुत्सेधेन प्रकीर्तितः ।
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ॥ २ ॥
शराववत्संस्थितत्वाद् द्वात्रिंशन्मूर्ध्नि विस्तृतः ।
विस्तारात्त्रिगुणश्चास्य परिणाहोऽनुमण्डलः ॥ ३ ॥
हैमीकृतो महेशस्य शुभाङ्गस्पर्शनेन च ।
धत्तूरपुष्पसङ्काशः सर्वदेवनिकेतनः ॥ ४ ॥
क्रीडाभूमिश्च देवानामनेकाश्चर्यसंयुतः ।
लक्षयोजन आयामस्तस्यैवं तु महागिरेः ॥ ५ ॥
ततः षोडशसाहस्रं योजनानि क्षितेरधः ।
शेषं चोपरि विप्रेन्द्रा धरायास्तस्य शृङ्गिणः ॥ ६ ॥
मूलायामप्रमाणं तु विस्तारान्मूलतो गिरेः ।
ऊचुर्विस्तारमस्यैव द्विगुणं मूलतो गिरेः ॥ ७ ॥
पूर्वतः पद्मरागाभो दक्षिणे हेमसन्निभः ।
पश्चिमे नीलसङ्काश उत्तरे विद्रुमप्रभः ॥ ८ ॥
अमरावती पूर्वभागे नानाप्रासादसङ्कुला ।
नानादेवगणैः कीर्णा मणिजालसमावृता ॥ ९ ॥
गोपुरैर्विविधाकारैर्हेमरत्नविभूषितैः ।
तोरणैर्हेमचित्रैस्तु मणिकॢप्तैः पथि स्थितैः ॥ १० ॥
सँल्लापालापकुशलैः सर्वाभरणभूषितैः ।
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ॥ ११ ॥
स्त्रीसहस्रैः समाकीर्णा चाप्सरोभिः समन्ततः ।
दीर्घिकाभिर्विचित्राभिः फुल्लाम्भोरुहसङ्कुलैः ॥ १२ ॥
हेमसोपानसंयुक्तैर्हेमसैकतराशिभिः ।
नीलोत्पलैश्चोत्पलैश्च हैमैश्चापि सुगन्धिभिः ॥ १३ ॥
एवंविधैस्तटाकैश्च नदीभिश्च नदैर्युता ।
विराजते पुरी शुभ्रा तयासौ पर्वतः शुभः ॥ १४ ॥
तेजस्विनी नाम पुरी आग्नेय्यां पावकस्य तु ।
अमरावतीसमा दिव्या सर्वभोगसमन्विता ॥ १५ ॥
वैवस्वती दक्षिणे तु यमस्य यमिनां वराः ।
भवनैरावृता दिव्यैर्जाम्बूनदमयैः शुभैः ॥ १६ ॥
नैर्ऋते कृष्णवर्णा च तथा शुद्धवती शुभा ।
तादृशी गन्धवन्ती च वायव्यां दिशि शोभना ॥ १७ ॥
महोदया चोत्तरे च ऐशान्यां तु यशोवती ।
पर्वतस्य दिगन्तेषु शोभते दिवि सर्वदा ॥ १८ ॥
ब्रह्मविष्णुमहेशानां तथान्येषां निकेतनम् ।
सर्वभोगयुतं पुण्यं दीर्घिकाभिर्नगोत्तमम् ॥ १९ ॥
सिद्धैर्यक्षैस्तु सम्पूर्णं गन्धर्वैर्मुनिपुङ्गवैः ।
तथान्यैर्विविधाकारैर्भूतसङ्घैश्चतुर्विधैः ॥ २० ॥
गिरेरुपरि विप्रेन्द्राः शुद्धस्फटिकसन्निभम् ।
सहस्रभौमं विस्तीर्णं विमानं वामतः स्थितम् ॥ २१ ॥
तस्मिन् महाभुजः शर्वः सोमसूर्याग्निलोचनः ।
सिंहासने मणिमये देव्यास्ते षण्मुखेन च ॥ २२ ॥
हरेस्तदर्धं विस्तीर्णं विमानं तत्र सोऽपि च ।
पद्मरागमयं दिव्यं पद्मजस्य च दक्षिणे ॥ २३ ॥
तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च ।
सोमस्य वरुणस्याथ निर्ऋतेः पावकस्य च ॥ २४ ॥
वायोश्चैव तु रुद्रस्य सर्वालयसमन्ततः ।
तेषां तेषां विमानेषु दिव्येषु विविधेषु च ॥ २५ ॥
ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता ।
सिद्धेश्वरैश्च भगवाञ्छैलादिः शिष्यसम्मतः ॥ २६ ॥
सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः ।
सनकश्च सनन्दश्च सदृशाश्च सहस्रशः ॥ २७ ॥
योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित् क्वचित् ।
बालसूर्यप्रतीकाशं विमानं तत्र शोभनम् ॥ २८ ॥
शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः ।
षण्मुखस्य गणेशस्य गणानां तु सहस्रशः ॥ २९ ॥
सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च ।
तस्य जम्बूनदी नाम मूलमावेष्ट्य संस्थिता ॥ ३० ॥
तस्य दक्षिणपार्श्वे तु जम्बूवृक्षः सुशोभनः ।
अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः ॥ ३१ ॥
मेरोः समन्ताद्विस्तीर्णं शुभं वर्षमिलावृतम् ।
तत्र जम्बूफलाहाराः केचिच्चामृतभोजनाः ॥ ३२ ॥
जाम्बूनदसमप्रख्या नानावर्णाश्च भोगिनः ।
मेरुपादाश्रितो विप्रा द्वीपोऽयं मध्यमः शुभः ॥ ३३ ॥
नववर्षान्वितश्चैव नदीनदगिरीश्वरैः ।
नववर्षं तु वक्ष्यामि जम्बूद्वीपं यथातथम् ॥ ३४ ॥
विस्तारान्मण्डलाच्चैव योजनैश्च निबोधत ॥ ३५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे मेरुगिरिवर्णनं
नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें