श्रीलिङ्गमहापुराण -[पूर्वभाग] -047

श्रीलिङ्गमहापुराण -[पूर्वभाग] -047
॥ श्रीसाम्बसदाशिवाय नमः ॥
सैंतालीसवाँ अध्याय
जम्बूद्वीप के अधिपति प्रियव्रत के पुत्र महाराज आग्नीध्र का वंश वर्णन तथा आग्नीध्र के शिवभक्त नौ पुत्रों का अजनाभ वर्ष ( भारतवर्ष), किम्पुरुष वर्ष आदि नौ वर्षों (देशों ) - का स्वामी बनना

श्रीलिङ्गमहापुराणे पूर्वभागे सप्तचत्वारिंशोऽध्यायः
भरतवर्षकथनं
॥ सूत उवाच ॥
आग्नीध्रं ज्येष्ठदायादं काम्यपुत्रं महाबलम् ।
प्रियव्रतोऽभ्यषिञ्चद्वै जम्बूद्वीपेश्वरं नृपः ॥ १ ॥
सोऽतीव भवभक्तश्च तपस्वी तरुणः सदा ।
भवार्चनरतः श्रीमान् गोमान् धीमान् द्विजर्षभाः ॥ २ ॥


तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ।
सर्वे माहेश्वराश्चैव महादेवपरायणाः ॥ ३ ॥
ज्येष्ठो नाभिरिति ख्यातस्तस्य किम्पुरुषोऽनुजः ।
हरिवर्षस्तृतीयस्तु चतुर्थो वै त्विलावृतः ॥ ४ ॥
रम्यस्तु पञ्चमस्तत्र हिरण्मान् षष्ठ उच्यते ।
कुरुस्तु सप्तमस्तेषां भद्राश्वस्त्वष्टमः स्मृतः ॥ ५ ॥
नवमः केतुमालस्तु तेषां देशान्निबोधत ।
नाभेस्तु दक्षिणं वर्षं हेमाख्यं तु पिता ददौ ॥ ६ ॥
हेमकूटं तु यद्वर्षं ददौ किम्पुरुषाय सः ।
नैषधं यत्स्मृतं वर्षं हरये तत् पिता ददौ ॥ ७ ॥
इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥ ८ ॥
श्वेतं यदुत्तरं तस्मात् पित्रा दत्तं हिरण्मते ।
यदुत्तरं शृङ्गवर्षं पिता तत्कुरवे ददौ ॥ ९ ॥
वर्षं माल्यवतं चापि भद्राश्वस्य न्यवेदयत् ।
गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥ १० ॥
इत्येतानि महान्तीह नव वर्षाणि भागशः ।
आग्नीध्रस्तेषु वर्षेषु पुत्रांस्तानभिषिच्य वै ॥ ११ ॥
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ।
तपसा भावितश्चैव स्वाध्यायनिरतस्त्वभूत् ॥ १२ ॥
स्वाध्यायनिरतः पश्चाच्छिवध्यानरतस्त्वभूत् ।
यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि च ॥ १३ ॥
तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ।
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ॥ १४ ॥
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वतः ॥ १५ ॥
रुद्रक्षेत्रे मृताश्चैव जङ्गमाः स्थावरास्तथा ।
भक्ताः प्रासङ्गिकाश्चापि तेषु क्षेत्रेषु यान्ति ते ॥ १६ ॥
तेषां हिताय रुद्रेण चाष्टक्षेत्रं विनिर्मितम् ।
तत्र तेषां महादेवः सान्निध्यं कुरुते सदा ॥ १७ ॥
दृष्ट्वा हृदि महादेवमष्टक्षेत्रनिवासिनः ।
सुखिनः सर्वदा तेषां स एवेह परा गतिः ॥ १८ ॥
नाभेर्निसर्गं वक्ष्यामि हिमाङ्केऽस्मिन्निबोधत ।
नाभिस्त्वजनयत्पुत्रं मेरुदेव्यां महामतिः ॥ १९ ॥
ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूजितम् ।
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः ॥ २० ॥
सोऽभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः ।
ज्ञानवैराग्यमाश्रित्य जित्वेन्द्रियमहोरगान् ॥ २१ ॥
सर्वात्मनात्मनि स्थाप्य परमात्मानमीश्वरम् ।
नग्नो जटी निराहारो चीरी ध्वान्तगतो हि सः ॥ २२ ॥
निराशस्त्यक्तसन्देहः शैवमाप परं पदम् ।
हिमाद्रेर्दक्षिणं वर्षं भरताय न्यवेदयत् ॥ २३ ॥
तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ।
भरतस्यात्मजो विद्वान् सुमतिर्नाम धार्मिकः ॥ २४ ॥
बभूव तस्मिंस्तद्राज्यं भरतः सन्यवेशयत् ।
पुत्रसङ्क्रामितश्रीको वनं राजा विवेश सः ॥ २५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भरतवर्षकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-47

कोई टिप्पणी नहीं:

123