श्रीलिङ्गमहापुराण -[पूर्वभाग] -049

श्रीलिङ्गमहापुराण -[पूर्वभाग] -049
॥ श्रीसाम्बसदाशिवाय नमः ॥
उनचासवाँ अध्याय
जम्बूद्वीप का विस्तृत वर्णन, वहाँ के कुलपर्वतों, नदियों, वनों तथा वहाँ रहने वाले लोगों का वर्णन

श्रीलिङ्गमहापुराणे पूर्वभागे एकोनपञ्चाशत्तमोऽध्यायः

जम्बूद्वीपवर्णनं
॥ सूत उवाच ॥

शतमेकं सहस्राणां योजनानां स तु स्मृतः ।
अनु द्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम् ॥ १ ॥
पञ्चाशत् कोटिविस्तीर्णा ससमुद्रा धरा स्मृता ।
द्वीपैश्च सप्तभिर्युक्ता लोकालोकावृता शुभा ॥ २ ॥


नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः ।
शृङ्गी तस्योत्तरे विप्रास्त्रयस्ते वर्षपर्वताः ॥ ३ ॥
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।
निषधो दक्षिणे मेरोस्तस्य दक्षिणतो गिरिः ।
हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे ॥ ४ ॥
मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ ।
माल्यवान् गन्धमादश्च द्वावेतावुदगायतौ ॥ ५ ॥
एते पर्वतराजानः सिद्धचारणसेविताः ।
तेषामन्तरविष्कम्भो नवसाहस्रमेकशः ॥ ६ ॥
इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ।
हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम् ॥ ७ ॥
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ।
हरिवर्षात्परं चैव मेरोः शुभमिलावृतम् ॥ ८ ॥
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ।
रम्यात्परतरं श्वेतं विख्यातं तद्धिरण्मयम् ॥ ९ ॥
हिरण्मयात्परं चापि शृङ्गी चैव कुरुः स्मृतः ।
धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ॥ १० ॥
दीर्घाणि तत्र चत्वारि मध्यतस्तदिलावृतम् ।
मेरोः पश्चिमपूर्वेण द्वे तु दीर्घेतरे स्मृते ॥ ११ ॥
अर्वाक्तु निषधस्याथ वेद्यर्धं चोत्तरं स्मृतम् ।
वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ १२ ॥
तयोर्मध्ये च विज्ञेयं मेरुमध्यमिलावृतम् ।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ १३ ॥
उदगायतो महाशैलो माल्यवान्नाम पर्वतः ।
योजनानां सहस्रे द्वे उपरिष्टात्तु विस्तृतः ॥ १४ ॥
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ।
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ॥ १५ ॥
आयामतः स विज्ञेयो माल्यवानिव विस्तृतः ।
जम्बूद्वीपस्य विस्तारात्समेन तु समन्ततः ॥ १६ ॥
प्रागायताः सुपर्वाणः षडेते वर्षपर्वताः ।
अवगाढाश्चोभयतः समुद्रौ पूर्वपश्चिमौ ॥ १७ ॥
हिमप्रायस्तु हिमवान् हेमकूटस्तु हेमवान् ।
तरुणादित्यसङ्काशो हैरण्यो निषधः स्मृतः ॥ १८ ॥
चतुर्वर्णः स सौवर्णो मेरुश्चोर्ध्वायतः स्मृतः ।
वृत्ताकृतिपरीणाहश्चतुरस्रः समुत्थितः ॥ १९ ॥
नीलश्च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः ।
मयूरबर्हवर्णस्तु शातकुम्भस्त्रिशृङ्गवान् ॥ २० ॥
एवं सङ्क्षेपतः प्रोक्ताः पुनः शृणु गिरीश्वरान् ।
मन्दरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ॥ २१ ॥
कैलासो गन्धमादश्च हेमवांश्चैव पर्वतौ ।
पूर्वतश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ २२ ॥
निषधः पारियात्रश्च द्वावेतौ वरपर्वतौ ।
यथा पूर्वौ तथा याम्यावेतौ पश्चिमतः श्रितौ ॥ २३ ॥
त्रिशृङ्गो जारुचिश्चैव उत्तरौ वरपर्वतौ ।
पूर्वतश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ २४ ॥
मर्यादापर्वतानेतानष्टावाहुर्मनीषिणः ।
योऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः ॥ २५ ॥
तस्य पादास्तु चत्वारश्चतुर्दिक्षु नगोत्तमाः ।
यैर्विष्टब्धा न चलति सप्तद्वीपवती मही ॥ २६ ॥
दशयोजनसाहस्रमायामस्तेषु पठ्यते ।
पूर्वे तु मन्दरो नाम दक्षिणे गन्धमादनः ॥ २७ ॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ।
महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥ २८ ॥
मन्दरस्य गिरेः शृङ्गे महावृक्षः स केतुराट् ।
प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ॥ २९ ॥
दक्षिणस्यापि शैलस्य शिखरे देवसेविता ।
जम्बूः सदा पुण्यफला सदा माल्योपशोभिता ॥ ३० ॥
सकेतुर्दक्षिणे द्वीपे जम्बूर्लोकेषु विश्रुता ।
विपुलस्यापि शैलस्य पश्चिमे च महात्मनः ॥ ३१ ॥
सञ्जातः शिखरेऽश्वत्थः स महान् चैत्यपादपः ।
सुपार्श्वस्योत्तरस्यापि शृङ्गे जातो महाद्रुमः ॥ ३२ ॥
न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ।
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ॥ ३३ ॥
अमानुष्याणि रम्याणि सर्वकालर्तुकानि च ।
मनोहराणि चत्वारि देवक्रीडनकानि च ॥ ३४ ॥
वनानि वै चतुर्दिक्षु नामतस्तु निबोधत ।
पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ॥ ३५ ॥
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ।
मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरमतः परम् ॥ ३६ ॥
वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम् ।
महासरांसि च तथा चत्वारि मुनिपुङ्गवाः ॥ ३७ ॥
यत्र क्रीडन्ति मुनयः पर्वतेषु वनेषु च ।
अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् ॥ ३८ ॥
सितोदं पश्चिमसरो महाभद्रं तथोत्तरम् ।
शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे ॥ ३९ ॥
उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः ।
अरुणोदस्य पूर्वेण शैलेन्द्रा नामतः स्मृताः ॥ ४० ॥
तांस्तु सङ्क्षेपतो वक्ष्ये न शक्यं विस्तरेण तु ।
सितान्तश्च कुरण्डश्च कुररश्चाचलोत्तमः ॥ ४१ ॥
विकरो मणिशैलश्च वृक्षवांश्चाचलोत्तमः ।
महानीलोऽथ रुचकः सबिन्दुर्दर्दुरस्तथा ॥ ४२ ॥
वेणुमांश्च समेघश्च निषधो देवपर्वतः ।
इत्येते पर्वतवरा ह्यन्ये च गिरयस्तथा ॥ ४३ ॥
पूर्वेण मन्दरस्यैते सिद्धावासा उदाहृताः ।
तेषु तेषु गिरीन्द्रेषु गुहासु च वनेषु च ॥ ४४ ॥
रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च ।
सरसो मानसस्येह दक्षिणेन महाचलाः ॥ ४५ ॥
ये कीर्त्यमानास्तान् सर्वान् सङ्क्षिप्य प्रवदाम्यहम् ।
शैलश्च विशिराश्चैव शिखरश्चाचलोत्तमः ॥ ४६ ॥
एकशृङ्गो महाशूलो गजशैलः पिशाचकः ।
पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ॥ ४७ ॥
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ।
तेषु तेषु च सर्वेषु पर्वतेषु वनेषु च ॥ ४८ ॥
रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः ।
दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः ॥ ४९ ॥
अपरेण सितोदश्च सुरपश्च महाबलः ।
कुमुदो मधुमांश्चैव ह्यञ्जनो मुकुटस्तथा ॥ ५० ॥
कृष्णश्च पाण्डुरश्चैव सहस्रशिखरश्च यः ।
पारिजातश्च शैलेन्द्रः श्रीशृङ्गश्चाचलोत्तमः ॥ ५१ ॥
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ।
सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः ॥ ५२ ॥
महाभद्रस्य सरसश्चोत्तरे च महाबलाः ।
ये स्थिताः कीर्त्यमानांस्तान् संक्षिप्येह निबोधत ॥ ५३ ॥
शङ्खकूटो महाशैलो वृषभो हंसपर्वतः ।
नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ॥ ५४ ॥
नीलः कण्टकशृङ्गश्च शतशृङ्गश्च पर्वतः ।
पुष्पकोशः प्रशैलश्च विरजश्चाचलोत्तमः ॥ ५५ ॥
वराहपर्वतश्चैव मयूरश्चाचलोत्तमः ।
जारुधिश्चैव शैलेन्द्र एत उत्तरसंस्थिताः ॥ ५६ ॥
तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः ।
असंख्यातानि दिव्यानि विमानानि सहस्रशः ॥ ५७ ॥
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् ।
सन्ति चैवान्तरद्रोण्यः सरांस्युपवनानि च ॥ ५८ ॥
वसन्ति देवा मुनयः सिद्धाश्च शिवभाविताः ।
कृतवासाः सपत्नीकाः प्रसादात् परमेष्ठिनः ॥ ५९ ॥
लक्ष्म्याद्यानां बिल्ववने ककुभे कश्यपादयः ।
तथा तालवने प्रोक्तमिन्द्रोपेन्द्रोरगात्मनाम् ॥ ६० ॥
उदुम्बरे कर्दमस्य तथान्येषां महात्मनाम् ।
विद्याधराणां सिद्धानां पुण्ये त्वाम्रवने शुभे ॥ ६१ ॥
नागानां सिद्धसङ्घानां तथा निम्बवने स्थितिः ।
सूर्यस्य किंशुकवने तथा रुद्रगणस्य च ॥ ६२ ॥
बीजपूरवने पुण्ये देवाचार्यो व्यवस्थितः ।
कौमुदे तु वने विष्णु प्रमुखानां महात्मनाम् ॥ ६३ ॥
स्थलपद्मवनान्तस्थ न्यग्रोधेऽशेषभोगिनः ।
शेषस्त्वशेषजगतां पतिरास्तेऽतिगर्वितः ॥ ६४ ॥
स एव जगतां कालः पाताले च व्यवस्थितः ।
विष्णोर्विश्वगुरोर्मूर्तिर्दिव्यः साक्षाद्धलायुधः ॥ ६५ ॥
शयनं देवदेवस्य स हरेः कङ्कणं विभोः ।
वने पनसवृक्षाणां सशुक्रा दानवादयः ॥ ६६ ॥
किन्नरैरुरगाश्चैव विशाखकवने स्थिताः ।
मनोहरवने वृक्षाः सर्वकोटिसमन्विताः ॥ ६७ ॥
नन्दीश्वरो गणवरैः स्तूयमानो व्यवस्थितः ।
संतानकस्थलीमध्ये साक्षाद्देवी सरस्वती ॥ ६८ ॥
एवं सङ्क्षेपतः प्रोक्ता वनेषु वनवासिनः ।
असंख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु ॥ ६९ ॥
॥ श्रीलिङ्गमहापुराणे पूर्वभागे जम्बूद्वीपवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-49

कोई टिप्पणी नहीं:

123