श्रीलिङ्गमहापुराण -[पूर्वभाग] -046
॥ श्रीसाम्बसदाशिवाय नमः ॥
छियालीसवाँ अध्याय
भुवन सन्निवेश में सात द्वीपों तथा सात समुद्रों का वर्णन एवं सर्वत्र भगवान् शिव की व्यापकता, स्वायम्भुव मन्वन्तर के प्रियव्रतादि राजवंशों का वर्णन, जम्बूद्वीप, कुशद्वीप तथा क्रौंचद्वीप के राजाओं का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे
षट्चत्वारिंशोऽध्यायः
भुवनकोशे द्वीपद्वीपेश्वरकथनं ॥ सूत उवाच ॥
सप्तद्वीपा तथा पृथ्वी नदीपर्वतसङ्कुला ।
समुद्रैः सप्तभिश्चैव सर्वतः समलङ्कृता ॥ १ ॥
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रौञ्चस्तथैव च ।
शाकः पुष्करनामा च द्वीपास्त्वभ्यन्तरे क्रमात् ॥ २ ॥
सप्तद्वीपेषु सर्वेषु साम्बः सर्वगणैर्वृतः ।
नानावेषधरो भूत्वा सान्निध्यं कुरुते हरः ॥ ३ ॥
क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदधिः ।
दध्यर्णवश्च क्षीरोदः स्वादूदश्चाप्यनुक्रमात् ॥ ४ ॥
समुद्रेष्विह सर्वेषु सर्वदा सगणः शिवः ।
जलरूपी भवः श्रीमान् क्रीडते चोर्मिबाहुभिः ॥ ५ ॥
क्षीरार्णवामृतमिव सदा क्षीरार्णवे हरिः ।
शेते शिवज्ञानधिया साक्षाद्वै योगनिद्रया ॥ ६ ॥
यदा प्रबुद्धो भगवान् प्रबुद्धमखिलं जगत् ।
यदा सुप्तस्तदा सुप्तं तन्मयं च चराचरम् ॥ ७ ॥
तेनैव सृष्टमखिलं धृतं रक्षितमेव च ।
संहृतं देवदेवस्य प्रसादात् परमेष्ठिनः ॥ ८ ॥
सुषेणा इति विख्याता यजन्ते पुरुषर्षभम् ।
अनिरुद्धं मुनिश्रेष्ठाः शङ्खचक्रगदाधरम् ॥ ९ ॥
ये चानिरुद्धं पुरुषं ध्यायन्त्यात्मविदां वराः ।
नारायणसमाः सर्वे सर्वसम्पत् समन्विताः ॥ १० ॥
सनन्दनश्च भगवान् सनकश्च सनातनः ।
वालखिल्याश्च सिद्धाश्च मित्रावरुणकौ तथा ॥ ११ ॥
यजन्ति सततं तत्र विश्वस्य प्रभवं हरिम् ।
सप्तद्वीपेषु तिष्ठन्ति नानाशृङ्गा महोदयाः ॥ १२ ॥
आसमुद्रायताः केचिद् गिरयो गह्वरैस्तथा ।
धरायाः पतयश्चासन् बहवः कालगौरवात् ॥ १३ ॥
सामर्थ्यात् परमेशानाः क्रौञ्चारेर्जनकात् प्रभोः ।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ १४ ॥
प्रवक्ष्यामि धरेशान् वो वक्ष्ये स्वायम्भुवेऽन्तरे ।
मन्वन्तरेषु सर्वेषु अतीतानागतेषु च ॥ १५ ॥
तुल्याभिमानिनश्चैव सर्वे तुल्यप्रयोजनाः ।
स्वायम्भुवस्य च मनोः पौत्रास्त्वासन्महाबलाः ॥ १६ ॥
प्रियव्रतात्मजा वीरास्ते दशेह प्रकीर्तिताः ।
आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ॥ १७ ॥
ज्योतिष्मान् द्युतिमान् हव्यः सवनः पुत्र एव च ।
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ॥ १८ ॥
जम्बूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम् ।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ १९ ॥
शाल्मलेश्च वपुष्मन्तं राजानमभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् नृपः ॥ २० ॥
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥ २१ ॥
पुष्कराधिपतिं चक्रे सवनं चापि सुव्रताः ।
पुष्करे सवनस्यापि महावीतः सुतोऽभवत् ॥ २२ ॥
धातकी चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ।
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः ॥ २३ ॥
नाम्ना तु धातकेश्चैव धातकीखण्डमुच्यते ।
हव्योऽप्यजनयत् पुत्राञ्छाकद्वीपेश्वरः प्रभुः ॥ २४ ॥
जलदं च कुमारं च सुकुमारं मणीचकम् ।
कुसुमोत्तरमोदाकी सप्तमस्तु महाद्रुमः ॥ २५ ॥
अलदं जलदस्याथ वर्षं प्रथममुच्यते ।
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम् ॥ २६ ॥
सुकुमारं तृतीयं तु सुकुमारस्य कीर्त्यते ।
मणीचकं चतुर्थं तु माणीचकमिहोच्यते ॥ २७ ॥
कुसुमोत्तरस्य वै वर्षं पञ्चमं कुसुमोत्तरम् ।
मोदकं चापि मोदाकेर्वर्षं षष्ठं प्रकीर्तितम् ॥ २८ ॥
महाद्रुमस्य नाम्ना तु सप्तमं तन्महाद्रुमम् ।
तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै ॥ २९ ॥
क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै ।
कुशलो मनुगश्चोष्णः पीवरश्चान्धकारकः ॥ ३० ॥
मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ।
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ ३१ ॥
कुशलदेशः कुशले मनुगस्य मनोनुगः ।
उष्णस्योष्णः स्मृतो देशः पीवरः पीवरस्य च ॥ ३२ ॥
अन्धकारस्य कथितो देशो नाम्नान्धकारकः ।
मुनेर्देशो मुनिः प्रोक्तो दुन्दुभेर्दुन्दुभिः स्मृतः ॥ ३३ ॥
एते जनपदाः सप्त क्रौञ्चद्वीपेषु भास्वराः ।
ज्योतिष्मन्तः कुशद्वीपे सप्त चासन्महौजसः ॥ ३४ ॥
उद्भिदो वेणुमांश्चैव द्वैरथो लवणो धृतिः ।
षष्ठः प्रभाकरश्चापि सप्तमः कपिलः स्मृतः ॥ ३५ ॥
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।
तृतीयं द्वैरथं चैव चतुर्थं लवणं स्मृतम् ॥ ३६ ॥
पञ्चमं धृतिमत्षष्ठं प्रभाकरमनुत्तमम् ।
सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ॥ ३७ ॥
शाल्मलस्येश्वराः सप्त सुतास्ते वै वपुष्मतः ।
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ॥ ३८ ॥
वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा ।
श्वेतस्य देशः श्वेतस्तु हरितस्य च हारितः ॥ ३९ ॥
जीमूतस्य च जीमूतो रोहितस्य च रोहितः ।
वैद्युतो वैद्युतस्यापि मानसस्य च मानसः ॥ ४० ॥
सुप्रभः सुप्रभस्यापि सप्त वै देशलाञ्छकाः ।
प्लक्षद्वीपे तु वक्ष्यामि जम्बूद्वीपादनन्तरम् ॥ ४१ ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः ।
ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै ॥ ४२ ॥
तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः ।
आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा ॥ ४३ ॥
तानि तेषां तु नामानि सप्तवर्षाणि भागशः ।
निवेशितानि तैस्तानि पूर्वं स्वायम्भुवेऽन्तरे ॥ ४४ ॥
मेधातिथेस्तु पुत्रैस्तैः प्लक्षद्वीपनिवासिभिः ।
वर्णाश्रमाचारयुताः प्रजास्तत्र निवेशिताः ॥ ४५ ॥
प्लक्षद्वीपादिवर्षेषु शाकद्वीपान्तिकेषु वै ।
ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ॥ ४६ ॥
सुखमायुः स्वरूपं च बलं धर्मो द्विजोत्तमाः ।
पञ्चस्वेतेषु द्वीपेषु सर्वसाधारणं स्मृतम् ॥ ४७ ॥
रुद्रार्चनरता नित्यं महेश्वरपरायणाः ।
अन्ये च पुष्करद्वीपे प्रजाताश्च प्रजेश्वराः ॥ ४८ ॥
प्रजापतेश्च रुद्रस्य भावामृतसुखोत्कटाः ॥ ४९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशे
द्वीपद्वीपेश्वरकथनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें