श्रीलिङ्गमहापुराण -[पूर्वभाग] -045
॥ श्रीसाम्बसदाशिवाय नमः ॥
पैंतालीसवाँ अध्याय
भगवान् रुद्र के विराट् स्वरूप तथा सात पाताल लोकों का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चचत्वारिंशोऽध्यायः
पातालवर्णनं
॥ ऋषय ऊचुः ॥
सूत सुव्यक्तमखिलं कथितं शङ्करस्य तु ।
सर्वात्मभावं रुद्रस्य स्वरूपं वक्तुमर्हसि ॥ १ ॥
॥ सूत उवाच ॥
भूर्भुवः स्वर्महश्चैव जनः साक्षात् तपस्तथा ।
सत्यलोकश्च पातालं नरकार्णवकोटयः ॥ २ ॥
तारकाग्रहसोमार्का ध्रुवः सप्तर्षयस्तथा ।
वैमानिकास्तथान्ये च तिष्ठन्त्यस्य प्रसादतः ॥ ३ ॥
अनेन निर्मितास्त्वेवं तदात्मानो द्विजर्षभाः ।
समष्टिरूपः सर्वात्मा संस्थितः सर्वदा शिवः ॥ ४ ॥
सर्वात्मानं महात्मानं महादेवं महेश्वरम् ।
न विजानन्ति सम्मूढा मायया तस्य मोहिताः ॥ ५ ॥
तस्य देवस्य रुद्रस्य शरीरं वै जगत्त्रयम् ।
तस्मात् प्रणम्य तं वक्ष्ये जगतां निर्णयं शुभम् ॥ ६ ॥
पुरा वः कथितं सर्वं मयाण्डस्य यथा कृतिः ।
भुवनानां स्वरूपं च ब्रह्माण्डे कथयाम्यहम् ॥ ७ ॥
पृथिवी चान्तरिक्षं च स्वर्महर्जन एव च ।
तपः सत्यं च सप्तैते लोकास्त्वण्डोद्भवाः शुभाः ॥ ८ ॥
अधस्तादत्र चैतेषां द्विजाः सप्त तलानि तु ।
महातलादयस्तेषां अधस्तान्नरकाः क्रमात् ॥ ९ ॥
महातलं हेमतलं सर्वरत्नोपशोभितम् ।
प्रासादैश्च विचित्रैश्च भवस्यायतनैस्तथा ॥ १० ॥
अनन्तेन च संयुक्तं मुचुकुन्देन धीमता ।
नृपेण बलिना चैव पातालस्वर्गवासिना ॥ ११ ॥
शैलं रसातलं विप्राः शार्करं हि तलातलम् ।
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ॥ १२ ॥
सितं हि अतलं तच्च तलं यच्च सितेतरम् ।
क्ष्मायास्तु यावद्विस्तारो ह्यधस्तेषां च सुव्रताः ॥ १३ ॥
तलानां चैव सर्वेषां तावत् संख्या समाहिता ।
सहस्रयोजनं व्योम दशसाहस्रमेव च ॥ १४ ॥
लक्षं सप्तसहस्रं हि तलानां सघनस्य तु ।
व्योम्नः प्रमाणं मूलं तु त्रिंशत्साहस्रकेण तु ॥ १५ ॥
सुवर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ।
रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥ १६ ॥
विरोचनहिरण्याक्ष नरकाद्यैश्च सेवितम् ।
तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥ १७ ॥
वैनायकादिभिश्चैव कालनेमिपुरोगमैः ।
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥ १८ ॥
वितलं दानवाद्यैश्च तारकाग्निमुखैस्तथा ।
महान्तकाद्यैर्नागैश्च प्रह्रादेनासुरेण च ॥ १९ ॥
अतलं चात्र विख्यातं कम्बलाश्वनिषेवितम् ।
महाकुम्भेन वीरेण हयग्रीवेण धीमता ॥ २० ॥
शङ्कुकर्णेन सम्भिन्नं तथा नमुचिपूर्वकैः ।
तथान्यैर्विविधैर्वीरैस्तलं चैव सुशोभितम् ॥ २१ ॥
तलेषु तेषु सर्वेषु चाम्बया परमेश्वरः ।
स्कन्देन नन्दिना सार्धं गणपैः सर्वतो वृतः ॥ २२ ॥
तलानां चैव सर्वेषामूर्ध्वतः सप्त सत्तमाः ।
क्ष्मातलानि धरा चापि सप्तधा कथयामि वः ॥ २३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पातालवर्णनं नाम
पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें