श्रीलिङ्गमहापुराण -[पूर्वभाग] -044
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौवालीसवाँ अध्याय
भगवान् शिव द्वारा नन्दिकेश्वर को गणों के अधिपति के रूप में प्रतिष्ठित करना एवं सभी देवों के द्वारा नन्दिकेश्वर का अभिषेक तथा शिवनाममन्त्र की महिमा
श्रीलिङ्गमहापुराणे पूर्वभागे चतुश्चत्वारिंशोऽध्यायः
नन्दिकेश्वराभिषेक
॥ शैलादिरुवाच ॥
स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ।
सर्वे सहस्रहस्ताश्च सहस्रायुधपाणयः ॥ १ ॥
त्रिनेत्राश्च महात्मानस्त्रिदशैरपि वन्दिताः ।
कोटिकालाग्निसङ्काशा जटामुकुटधारिणः ॥ २ ॥
दंष्ट्राकरालवदना नित्या बुद्धाश्च निर्मलाः ।
कोटिकोटिगणैस्तुल्यैरात्मना च गणेश्वराः ।
असंख्याता महात्मानस्तत्राजग्मुर्मुदा युताः ॥ ३ ॥
गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः ।
मुखाडम्बरवाद्यानि वादयन्तस्तथैव च ॥ ४ ॥
रथैर्नागैर्हयैश्चैव सिंहमर्कटवाहनाः ।
विमानेषु तथारूढा हेमचित्रेषु वै गणाः ॥ ५ ॥
भेरीमृदङ्गकाद्यैश्च पणवानकगोमुखैः ।
वादित्रैर्विविधैश्चान्यैः पटहैरेकपुष्करैः ॥ ६ ॥
भेरीमुरजसंनादैराडम्बरकडिण्डिमैः ।
मर्दलैर्वेणुवीणाभिर्विविधैस्तालनिःस्वनैः ॥ ७ ॥
दर्दुरैस्तलघातैश्च कच्छपैः पणवैरपि ।
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् ॥ ८ ॥
ते गणेशा महासत्त्वाः सर्वदेवेश्वरेश्वराः ।
प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ ९ ॥
भगवन् देवदेवेश त्रियम्बक वृषध्वज ।
किमर्थं च स्मृता देव आज्ञापय महाद्युते ॥ १० ॥
किं सागरान् शोषयामो यमं वा सह किङ्करैः ।
हन्मो मृत्युसुतां मृत्युं पशुवद्धन्म पद्मजम् ॥ ११ ॥
बद्ध्वेन्द्रं सह देवैश्च सह विष्णुं च वायुना ।
आनयामः सुसङ्क्रुद्धा दैत्यान् वा सह दानवैः ॥ १२ ॥
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥ १३ ॥
तांस्तथावादिनः सर्वान् गणेशान् सर्वसम्मतान् ।
उवाच देवः सम्पूज्य कोटिकोटिशतान् प्रभुः ॥ १४ ॥
शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः ।
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः ॥ १५ ॥
नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः ।
विप्रोऽयं नायकश्चैव सेनानीर्वः समृद्धिमान् ॥ १६ ॥
तमिमं मम सन्देशाद्यूयं सर्वेऽपि सम्मताः ।
सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ॥ १७ ॥
एवमुक्ता भगवता गणपाः सर्व एव ते ।
एवमस्त्विति सम्मन्त्र्य संभारानाहरंस्ततः ॥ १८ ॥
तस्य सर्वाश्रयं दिव्यं जाम्बूनदमयं शुभम् ।
आसनं मेरुसङ्काशं मनोहरमुपाहरन् ॥ १९ ॥
नैकस्तम्भमयं चापि चामीकरवरप्रभम् ।
मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ २० ॥
स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् ।
चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् ॥ २१ ॥
कृत्वा विन्यस्य तन्मध्ये तदासनवरं शुभम् ।
तस्याग्रतः पादपीठं नीलवज्रावभासितम् ॥ २२ ॥
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ ।
सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ २३ ॥
कलशानां सहस्रं तु सौवर्णं राजतं तथा ।
ताम्रजं मृन्मयं चैव सर्वतीर्थाम्बुपूरितम् ॥ २४ ॥
वासोयुगं तथा दिव्यं गन्धं दिव्यं तथैव च ।
केयूरे कुण्डले चैव मुकुटं हारमेव च ॥ २५ ॥
छत्रं शतशलाकं च वालव्यजनमेव च ।
दत्तं महात्मना तेन ब्रह्मणा परमेष्ठिना ॥ २६ ॥
शङ्खहाराङ्गगौरेण पृष्ठेनापि विराजितम् ।
व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचामरम् ॥ २७ ॥
ऐरावतः सुप्रतीको गजावेतौ सुपूजितौ ।
मुकुटं काञ्चनं चैव निर्मितं विश्वकर्मणा ॥ २८ ॥
कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ।
जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ २९ ॥
सम्भाराणि तथान्यानि विविधानि बहून्यपि ।
समन्तान्निन्युरव्यग्रा गणपा देवसम्मताः ॥ ३० ॥
ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ।
मुनयो भगवान् ब्रह्मा नवब्रह्माण एव च ॥ ३१ ॥
देवैश्च लोकाः सर्वे ते ततो जग्मुर्मुदा युताः ।
तेष्वागतेषु सर्वेषु भगवान् परमेश्वरः ॥ ३२ ॥
सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ।
पितामहोऽपि भगवान् नियोगादेव तस्य तु ॥ ३३ ॥
चकार सर्वं भगवानभिषेकं समाहितः ।
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषेचयत् ॥ ३४ ॥
ततो विष्णुस्ततः शक्रो लोकपालास्तथैव च ।
अभ्यषिञ्चन्त विधिवद्गणेन्द्रं शिवशासनात् ॥ ३५ ॥
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ।
स्तुतवत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥ ३६ ॥
शिरस्यञ्जलिमादाय तुष्टाव च समाहितः ।
प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥ ३७ ॥
ततो गणाधिपाः सर्वे ततो देवास्ततोऽसुराः ।
एवं स्तुतश्चाभिषिक्तो देवैः सब्रह्मकैस्तदा ॥ ३८ ॥
उद्वाहश्च कृतस्तत्र नियोगात् परमेष्ठिनः ।
मरुतां च सुता देवी सुयशाख्या बभूव या ॥ ३९ ॥
लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ।
चामरे चामरासक्त हस्ताग्रैः स्त्रीगणैर्युता ॥ ४० ॥
सिंहासनं च परमं तया चाधिष्ठितं मया ।
अलङ्कृता महालक्ष्म्या मुकुटाद्यैः सुभूषणैः ॥ ४१ ॥
लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ।
वृषेन्द्रश्च सितो नागः सिंहः सिंहध्वजस्तथा ॥ ४२ ॥
रथश्च हेमच्छत्रं च चन्द्रबिम्बसमप्रभम् ।
अद्यापि सदृशः कश्चिन्मया नास्ति विभुः क्वचित् ॥ ४३ ॥
सान्वयं च गृहीत्वेशस्तथा सम्बन्धिबान्धवैः ।
आरुह्य वृषमीशानो मया देव्या गतः शिवः ॥ ४४ ॥
तदा देवीं भवं दृष्ट्वा मया च प्रार्थयन् गणैः ।
मुनिदेवर्षयः सिद्धा आज्ञां पाशुपतीं द्विजाः ॥ ४५ ॥
अथाज्ञां प्रददौ तेषामर्हाणामाज्ञया विभोः ।
नन्दिको नगजाभर्तुस्तेषां पाशुपतीं शुभाम् ॥ ४६ ॥
तस्माद्धि मुनयो लब्ध्वा तदाज्ञां मुनिपुङ्गवात् ।
भवभक्तास्तदा चासंस्तस्मादेवं समर्चयेत् ॥ ४७ ॥
नमस्कारविहीनस्तु नाम उद्गिरयेद्भवे ।
ब्रह्मघ्नदशसंतुल्यं तस्य पापं गरीयसम् ॥ ४८ ॥
तस्मात् सर्वप्रकारेण नमस्कारादिमुच्चरेत् ।
आदौ कुर्यान्नमस्कारं तदन्ते शिवतां व्रजेत् ॥ ४९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वराभिषेको
नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
See Also :- शिवमहापुराण – शतरुद्रसंहिता – अध्याय 07

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें