श्रीलिङ्गमहापुराण -[पूर्वभाग] -042

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -042

॥ श्रीसाम्बसदाशिवाय नमः ॥
बयालीसवाँ अध्याय
शिलाद द्वारा तप करने से भगवान् महेश्वर का नन्दी नाम से उनके पुत्र के रूप में प्रकट होना और शिलाद द्वारा नन्दिकेश्वर शिव की स्तुति

श्रीलिङ्गमहापुराणे पूर्वभागे द्विचत्वारिंशोऽध्यायः
नन्दिकेश्वरोत्पत्तिः
॥ सूत उवाच ॥

गते पुण्ये च वरदे सहस्राक्षे शिलाशनः ।
आराधयन् महादेवं तपसातोषयद्भवम् ॥ १ ॥
अथ तस्यैवमनिशं तत्परस्य द्विजस्य तु ।
दिव्यं वर्षसहस्रं तु गतं क्षणमिवाद्भुतम् ॥ २ ॥


वल्मीकेनावृताङ्गश्च लक्ष्यः कीटगणैर्मुनिः ।
वज्रसूचीमुखैश्चान्यै रक्तकीटैश्च सर्वतः ॥ ३ ॥
निर्मांसरुधिरत्वग्वै निर्लेपः कुड्यवत्स्थितः ।
अस्थिशेषोऽभवत्पश्चात्तममन्यत शङ्करः ॥ ४ ॥
यदा स्पृष्टो मुनिस्तेन करेण च स्मरारिणा ।
तदैव मुनिशार्दूलश्चोत्ससर्ज क्लमं द्विजः ॥ ५ ॥
तपतस्तस्य तपसा प्रभुस्तुष्टाथ शङ्करः ।
तुष्टस्तवेत्यथोवाच सगणश्चोमया सह ॥ ६ ॥
तपसानेन किं कार्यं भवतस्ते महामते ।
ददामि पुत्रं सर्वज्ञं सर्वशास्त्रार्थपारगम् ॥ ७ ॥
ततः प्रणम्य देवेशं स्तुत्वोवाच शिलाशनः ।
हर्षगद्गदया वाचा सोमं सोमविभूषणम् ॥ ८ ॥
॥ शिलाद उवाच ॥
भगवन् देवदेवेश त्रिपुरार्दन शङ्कर ।
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सत्तम ॥ ९ ॥
॥ सूत उवाच ॥
पूर्वमाराधितः प्राह तपसा परमेश्वरः ।
शिलादं ब्रह्मणा रुद्रः प्रीत्या परमया पुनः ॥ १० ॥
॥ श्रीदेवदेव उवाच ॥
पूर्वमाराधितो विप्र ब्रह्मणाहं तपोधन ।
तपसा चावतारार्थं मुनिभिश्च सुरोत्तमैः ॥ ११ ॥
तव पुत्रो भविष्यामि नन्दिनाम्ना त्वयोनिजः ।
पिता भविष्यसि मम पितुर्वै जगतां मुने ॥ १२ ॥
एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्य स्थितं घृणी ।
सोमः सोमोपमः प्रीतस्तत्रैवान्तरधीयत ॥ १३ ॥
लब्धपुत्रः पिता रुद्रात्प्रीतो मम महामुने ।
यज्ञाङ्गणं महत् प्राप्य यज्ञार्थं यज्ञवित्तमः ॥ १४ ॥
तदङ्गणादहं शम्भोस्तनुजस्तस्य चाज्ञया ।
सञ्जातः पूर्वमेवाहं युगान्ताग्निसमप्रभः ॥ १५ ॥
ववर्षुस्तदा पुष्करावर्तकाद्या जगुः खेचराः किन्नराः सिद्धसाध्याः ।
शिलादात्मजत्वं गते मय्युपेन्द्रः ससर्जाथ वृष्टिं सुपुष्पौघमिश्राम् ॥ १६ ॥
मां दृष्ट्वा कालसूर्याभं जटामुकुटधारिणम् ।
त्र्यक्षं चतुर्भुजं बालं शूलटङ्कगदाधरम् ॥ १७ ॥
वज्रिणं वज्रदंष्ट्रं च वज्रिणाराधितं शिशुम् ।
वज्रकुण्डलिनं घोरं नीरदोपमनिः स्वनम् ॥ १८ ॥
ब्रह्माद्यास्तुष्टुवुः सर्वे सुरेन्द्रश्च मुनीश्वराः ।
नेदुः समन्ततः सर्वे ननृतुश्चाप्सरोगणाः ॥ १९ ॥
ऋषयो मुनिशार्दूल ऋग्यजुः सामसम्भवैः ।
मन्त्रैर्माहेश्वरैः स्तुत्वा सम्प्रणेमुर्मुदान्विताः ॥ २० ॥
ब्रह्मा हरिश्च रुद्रश्च शक्रः साक्षाच्छिवाम्बिका ।
जीवश्चेन्दुर्महातेजा भास्करः पवनोऽनलः ॥ २१ ॥
ईशानो निर्ऋतिर्यक्षो यमो वरुण एव च ।
विश्वेदेवास्तथा रुद्रा वसवश्च महाबलाः ॥ २२ ॥
लक्ष्मीः साक्षाच्छची ज्येष्ठा देवी चैव सरस्वती ।
अदितिश्च दितिश्चैव श्रद्धा लज्जा धृतिस्तथा ॥ २३ ॥
नन्दा भद्रा च सुरभी सुशीला सुमनास्तथा ।
वृषेन्द्रश्च महातेजा धर्मो धर्मात्मजस्तथा ॥ २४ ॥
आवृत्य मां तथालिङ्ग्य तुष्टुवुर्मुनिसत्तम ।
शिलादोऽपि मुनिर्दृष्ट्वा पिता मे तादृशं तदा ॥ २५ ॥
प्रीत्या प्रणम्य पुण्यात्मा तुष्टावेष्टप्रदं सुतम् ।
॥ शिलाद उवाच ॥
भगवन् देवदेवेश त्रियम्बक ममाव्यय ॥ २६ ॥
पुत्रोऽसि जगतां यस्मात्त्राता दुःखाद्धि किं पुनः ।
रक्षको जगतां यस्मात्पिता मे पुत्र सर्वग ॥ २७ ॥
अयोनिज नमस्तुभ्यं जगद्योने पितामह ।
पिता पुत्र महेशान जगतां च जगद्गुरो ॥ २८ ॥
वत्स वत्स महाभाग पाहि मां परमेश्वर ।
त्वयाहं नन्दितो यस्मान्नन्दी नाम्ना सुरेश्वर ॥ २९ ॥
तस्मान्नन्दय मां नन्दिन्नमामि जगदीश्वरम् ।
प्रसीद पितरौ मेऽद्य रुद्रलोकं गतौ विभो ॥ ३० ॥
पितामहश्च भो नन्दिन्नवतीर्णे महेश्वरे ।
ममैव सफलं लोके जन्म वै जगतां प्रभो ॥ ३१ ॥
अवतीर्णे सुते नन्दिन् रक्षार्थं मह्यमीश्वर ।
तुभ्यं नमः सुरेशान नन्दीश्वर नमोऽस्तु ते ॥ ३२ ॥
पुत्र पाहि महाबाहो देवदेव जगद्गुरो ।
पुत्रत्वमेव नन्दीश मत्वा यत्कीर्तितं मया ॥ ३३ ॥
त्वया तत्क्षम्यतां वत्स स्तवस्तव्य सुरासुरैः ।
यः पठेच्छृणुयाद्वापि मम पुत्रप्रभाषितम् ॥ ३४ ॥
श्रावयेद्वा द्विजान् भक्त्या मया सार्धं स मोदते ।
एवं स्तुत्वा सुतं बालं प्रणम्य बहुमानतः ॥ ३५ ॥
मुनीश्वरांश्च सम्प्रेक्ष्य शिलाद उवाच सुव्रतः ।
पश्यध्वं मुनयः सर्वे महाभाग्यं ममाव्ययः ॥ ३६ ॥
नन्दी यज्ञाङ्गणे देवश्चावतीर्णो यतः प्रभुः ।
मत्समः कः पुमांल्लोके देवो वा दानवोऽपि वा ॥ ३७ ॥
एष नन्दी यतो जातो यज्ञभूमौ हिताय मे ॥ ३८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वरोत्पत्तिर्नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥

See Also:-  शिवमहापुराण – शतरुद्रसंहिता – अध्याय 06

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-42


कोई टिप्पणी नहीं:

123