श्रीलिङ्गमहापुराण -[पूर्वभाग] -043
॥ श्रीसाम्बसदाशिवाय नमः ॥
तैंतालीसवाँ अध्याय
शिलाद द्वारा पुत्र नन्दिकेश्वर को वेदादि की शिक्षा प्रदान करना, ऋषियों द्वारा नन्दिकेश्वर की आयु अल्प बताने पर शिलाद का दुःखी होना तथा नन्दिकेश्वर द्वारा त्र्यम्बकमन्त्र का जप एवं महेश्वर- पार्वती द्वारा उन्हें अपने पुत्ररूप में अमर होने का वरदान देना
श्रीलिङ्गमहापुराणे पूर्वभागे त्रिचत्वारिंशोऽध्यायः
नन्दिकेश्वरप्रादुर्भावनन्दिकेश्वराभिषेकमन्त्र
॥ नन्दिकेश्वर उवाच ॥
मया सह पिता हृष्टः प्रणम्य च महेश्वरम् ।
उटजं स्वं जगामाशु निधिं लब्ध्वेव निर्धनः ॥ १ ॥
यदागतोऽहमुटजं शिलादस्य महामुने ।
तदा वै दैविकं रूपं त्यक्त्वा मानुष्यमास्थितः ॥ २ ॥
नष्टा चैव स्मृतिर्दिव्या येन केनापि कारणात् ।
मानुष्यमास्थितं दृष्ट्वा पिता मे लोकपूजितः ॥ ३ ॥
विललापातिदुःखार्तः स्वजनैश्च समावृतः ।
जातकर्मादिकाश्चैव चकार मम सर्ववित् ॥ ४ ॥
शालङ्कायनपुत्रो वै शिलादः पुत्रवत्सलः ।
उपदिष्टा हि तेनैव ऋक् शाखा यजुषस्तथा ॥ ५ ॥
सामशाखासहस्रं च साङ्गोपाङ्गं महामुने ।
आयुर्वेदं धनुर्वेदं गान्धर्वं चाश्वलक्षणम् ॥ ६ ॥
हस्तिनां चरितं चैव नराणां चैव लक्षणम् ।
सम्पूर्णे सप्तमे वर्षे ततोऽथ मुनिसत्तमौ ॥ ७ ॥
मित्रावरुणनामानौ तपोयोगबलान्वितौ ।
तस्याश्रमं गतौ दिव्यौ द्रष्टुं मां चाज्ञया विभोः ॥ ८ ॥
ऊचतुश्च महात्मानौ मां निरीक्ष्य मुहुर्मुहुः ।
तात नन्द्ययमल्पायुः सर्वशास्त्रार्थपारगः ॥ ९ ॥
न दृष्टमेवमाश्चर्यमायुर्वर्षादतः परम् ।
इत्युक्तवति विप्रेन्द्रः शिलादः पुत्रवत्सलः ॥ १० ॥
समालिङ्ग्य च दुःखार्तो रुरोदातीव विस्वरम् ।
हा पुत्र पुत्र पुत्रेति पपात च समन्ततः ॥ ११ ॥
अहो बलं दैवविधेर्विधातुश्चेति दुःखितः ।
तस्य चार्तस्वरं श्रुत्वा तदाश्रमनिवासिनः ॥ १२ ॥
निपेतुर्विह्वलात्यर्थं रक्षाश्चक्रुश्च मङ्गलम् ।
तुष्टुवुश्च महादेवं त्रियंबकमुमापतिम् ॥ १३ ॥
हुत्वा त्रियम्बकेनैव मधुनैव च सम्प्लुताम् ।
दूर्वामयुतसंख्यातां सर्वद्रव्यसमन्विताम् ॥ १४ ॥
पिता विगतसंज्ञश्च तथा चैव पितामहः ।
विचेष्टश्च ललापासौ मृतवन्निपपात च ॥ १५ ॥
मृत्योर्भीतोऽहमचिराच्छिरसा चाभिवन्द्य तम् ।
मृतवत् पतितं साक्षात् पितरं च पितामहम् ॥ १६ ॥
प्रदक्षिणीकृत्य च तं रुद्रजाप्यरतोऽभवम् ।
हृत्पुण्डरीके सुषिरे ध्यात्वा देवं त्रियम्बकम् ॥ १७ ॥
त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदाशिवम् ।
सरितश्चान्तरे पुण्ये स्थितं मां परमेश्वरः ॥ १८ ॥
तुष्टोऽब्रवीन्महादेवः सोमः सोमार्धभूषणः ।
वत्स नन्दिन् महाबाहो मृत्योर्भीतिः कुतस्तव ॥ १९ ॥
मयैव प्रेषितौ विप्रौ मत् समस्त्वं न संशयः ।
वत्सैनत्तव देहं च लौकिकं परमार्थतः ॥ २० ॥
नास्त्येव दैविकं दृष्टं शिलादेन पुरा तव ।
देवैश्च मुनिभिः सिद्धैर्गन्धर्वैर्दानवोत्तमैः ॥ २१ ॥
पूजितं यत्पुरा वत्स दैविकं नन्दिकेश्वर ।
संसारस्य स्वभावोऽयं सुखं दुःखं पुनः पुनः ॥ २२ ॥
नृणां योनिपरित्यागः सर्वथैव विवेकिनः ।
एवमुक्त्वा तु मां साक्षात् सर्वदेवमहेश्वरः ॥ २३ ॥
कराभ्यां सुशुभाभ्यां च उभाभ्यां परमेश्वरः ।
पस्पर्श भगवान् रुद्रः परमार्तिहरो हरः ॥ २४ ॥
उवाच च महादेवस्तुष्टात्मा वृषभध्वजः ।
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ॥ २५ ॥
समालोक्य च तुष्टात्मा महादेवः सुरेश्वरः ।
अजरो जरया त्यक्तो नित्यं दुःखविवर्जितः ॥ २६ ॥
अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः ।
ममेष्टो गणपश्चैव मद्वीर्यो मत् पराक्रमः ॥ २७ ॥
इष्टो मम सदा चैव मम पार्श्वगतः सदा ।
मद् बलश्चैव भविता महायोगबलान्वितः ॥ २८ ॥
एवमुक्त्वा च मां देवो भगवान् सगणस्तदा ।
कुशेशयमयीं मालां समुन्मुच्यात्मनस्तदा ॥ २९ ॥
आबबन्ध महातेजा मम देवो वृषध्वजः ।
तयाहं मालया जातः शुभया कण्ठसक्तया ॥ ३० ॥
त्र्यक्षो दशभुजश्चैव द्वितीय इव शङ्करः ।
तत एव समादाय हस्तेन परमेश्वरः ॥ ३१ ॥
उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम् ।
ततो जटाश्रितं वारि गृहीत्वा चातिनिर्मलम् ॥ ३२ ॥
उक्ता नदी भवस्वेति उत्ससर्ज वृषध्वजः ।
ततः सा दिव्यतोया च पूर्णासितजला शुभा ॥ ३३ ॥
पद्मोत्पलवनोपेता प्रावर्तत महानदी ।
तामाह च महादेवो नदीं परमशोभनाम् ॥ ३४ ॥
यस्माज्जटोदकादेव प्रवृत्ता त्वं महानदी ।
तस्माज्जटोदका पुण्या भविष्यसि सरिद्वरा ॥ ३५ ॥
त्वयि स्नात्वा नरः कश्चित् सर्वपापैः प्रमुच्यते ।
ततो देव्या महादेवः शिलादतनयं प्रभुः ॥ ३६ ॥
पुत्रस्तेऽयमिति प्रोच्य पादयोः संन्यपातयत् ।
सा मामाघ्राय शिरसि पाणिभ्यां परिमार्जती ॥ ३७ ॥
पुत्रप्रेम्णाभ्यषिञ्चच्च स्रोतोभिस्तनयैस्त्रिभिः ।
पयसा शङ्खगौरेण देवदेवं निरीक्ष्य सा ॥ ३८ ॥
तानि स्रोतांसि त्रीण्यस्याः स्रोतस्विन्योऽभवंस्तदा ।
नदीं त्रिस्रोतसं देवो भगवानवदद्भवः ॥ ३९ ॥
त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः ।
ननाद नादात्तस्माच्च सरिदन्या ततोऽभवत् ॥ ४० ॥
वृषध्वनिरिति ख्याता देवदेवेन सा नदी ।
जाम्बूनदमयं चित्रं सर्वरत्नमयं शुभम् ॥ ४१ ॥
स्वं देवश्चाद्भुतं दिव्यं निर्मितं विश्वकर्मणा ।
मुकुटं चाबबन्धेशो मम मूर्ध्नि वृषध्वजः ॥ ४२ ॥
कुण्डले च शुभे दिव्ये वज्रवैडूर्यभूषिते ।
आबबन्ध महादेवः स्वयमेव महेश्वरः ॥ ४३ ॥
मां तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघैः प्रभाकरः ।
मेघाम्भसा चाभ्यषिञ्चच्छिलादनमथो मुने ॥ ४४ ॥
तस्याभिषिक्तस्य तदा प्रवृत्ता स्रोतसा भृशम् ।
यस्मात् सुवर्णान्निःसृत्य नद्येषा सम्प्रवर्तते ॥ ४५ ॥
स्वर्णोदकेति तामाह देवदेवस्त्रियम्बकः ।
जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभा ॥ ४६ ॥
प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् ।
एतत् पञ्चनदं नाम जप्येश्वरसमीपगम् ॥ ४७ ॥
यः पञ्चनदमासाद्य स्नात्वा जप्येश्वरेश्वरम् ।
पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ॥ ४८ ॥
अथ देवो महादेवः सर्वभूतपतिर्भवः ।
देवीमुवाच शर्वाणीमुमां गिरिसुतामजाम् ॥ ४९ ॥
देवी नन्दीश्वरं देवमभिषिञ्चामि भूतपम् ।
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये ॥ ५० ॥
तस्य तद्वचनं श्रुत्वा भवानी हर्षितानना ।
स्मयन्ती वरदं प्राह भवं भूतपतिं पतिम् ॥ ५१ ॥
सर्वलोकाधिपत्यं च गणेशत्वं तथैव च ।
दातुमर्हसि देवेश शैलादिस्तनयो मम ॥ ५२ ॥
ततः स भगवान् शर्वः सर्वलोकेश्वरेश्वरः ।
सस्मार गणपान् दिव्यान् देवदेवो वृषध्वजः ॥ ५३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे
नन्दिकेश्वरप्रादुर्भावनन्दिकेश्वराभिषेकमन्त्रो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें