श्रीलिङ्गमहापुराण -[पूर्वभाग] -041

श्रीलिङ्गमहापुराण -[पूर्वभाग] -041
॥ श्रीसाम्बसदाशिवाय नमः ॥
इकतालीसवाँ अध्याय
विभिन्न कल्पों में त्रिदेवों का परस्पर प्राकट्य तथा ब्रह्मा द्वारा महेश्वर की नामाष्टक स्तुति का वर्णन

श्रीलिङ्गमहापुराणे पूर्वभागे एकचत्वारिंशोऽध्यायः
 इन्द्रवाक्यं
॥ इन्द्र उवाच ॥

पुनः ससर्ज भगवान् प्रभ्रष्टाः पूर्ववत्प्रजाः ।
सहस्रयुगपर्यन्ते प्रभाते तु पितामहः ॥ १ ॥
एवं परार्धे विप्रेन्द्र द्विगुणे तु तथा गते ।
तदा धराम्भसि व्याप्ता ह्यापो वह्नौ समीरणे ॥ २ ॥


वह्निः समीरणश्चैव व्योम्नि तन्मात्रसंयुतः ।
इन्द्रियाणि दशैकं च तन्मात्राणि द्विजोत्तम ॥ ३ ॥
अहङ्कारमनुप्राप्य प्रलीनास्तत्क्षणादहो ।
अभिमानस्तदा तत्र महान्तं व्याप्य वै क्षणात् ॥ ४ ॥
महानपि तथा व्यक्तं प्राप्य लीनोऽभवद्द्विज ।
अव्यक्तं स्वगुणैः सार्धं प्रलीनमभवद्भवे ॥ ५ ॥
ततः सृष्टिरभूत्तस्मात् पूर्ववत् पुरुषाच्छिवात् ।
अथ सृष्टास्तदा तस्य मनसा तेन मानसाः ॥ ६ ॥
न व्यवर्धन्त लोकेऽस्मिन् प्रजाः कमलयोनिना ।
वृद्ध्यर्थं भगवान् ब्रह्मा पुत्रैर्वै मानसैः सह ॥ ७ ॥
दुश्चरं विचचारेशं समुद्दिश्य तपः स्वयम् ।
तुष्टस्तु तपसा तस्य भवो ज्ञात्वा स वाञ्छितम् ॥ ८ ॥
ललाटमध्यं निर्भिद्य ब्रह्मणः पुरुषस्य तु ।
पुत्रस्नेहमिति प्रोच्य स्त्रीपुंरूपोऽभवत्तदा ॥ ९ ॥
तस्य पुत्रो महादेवो ह्यर्धनारीश्वरोऽभवत् ।
ददाह भगवान् सर्वं ब्रह्माणं च जगद्गुरुम् ॥ १० ॥
अथार्धमात्रां कल्याणीमात्मनः परमेश्वरीम् ।
बुभुजे योगमार्गेण वृद्ध्यर्थं जगतां शिवः ॥ ११ ॥
तस्यां हरिं च ब्रह्माणं ससर्ज परमेश्वरः ।
विश्वेश्वरस्तु विश्वात्मा चास्त्रं पाशुपतं तथा ॥ १२ ॥
तस्माद् ब्रह्मा महादेव्याश्चांशजश्च हरिस्तथा ।
अण्डजः पद्मजश्चैव भवाङ्गभव एव च ॥ १३ ॥
एतत्ते कथितं सर्वमितिहासं पुरातनम् ।
परार्धं ब्रह्मणो यावत्तावद्भूतिः समासतः ॥ १४ ॥
वैराग्यं ब्रह्मणो वक्ष्ये तमोद्भूतं समासतः ।
नारायणोऽपि भगवान् द्विधा कृत्वात् मनस्तनुम् ॥ १५ ॥
ससर्ज सकलं तस्मात्स्वाङ्गादेव चराचरम् ।
ततो ब्रह्माणमसृजद् ब्रह्मा रुद्रं पितामहः ॥ १६ ॥
मुने कल्पान्तरे रुद्रो हरिं ब्रह्माणमीश्वरम् ।
ततो ब्रह्माणमसृजन्मुने कल्पान्तरे हरिः ॥ १७ ॥
नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः ।
तदा विचार्य वै ब्रह्मा दुःखं संसार इत्यजः ॥ १८ ॥
सर्गं विसृज्य चात्मानमात्मन्येव नियोज्य च ।
संहृत्य प्राणसञ्चारं पाषाण इव निश्चलः ॥ १९ ॥
दशवर्षसहस्राणि समाधिस्थोऽभवत् प्रभुः ।
अधोमुखं तु यत्पद्मं हृदि संस्थं सुशोभनम् ॥ २० ॥
पूरितं पूरकेणैव प्रबुद्धं चाभवत्तदा ।
तदूर्ध्ववक्त्रमभवत् कुम्भकेन निरोधितम् ॥ २१ ॥
तत्पद्मकर्णिकामध्ये स्थापयामास चेश्वरम् ।
तदोमिति शिवं देवमर्धमात्रापरं परम् ॥ २२ ॥
मृणालतन्तुभागैक शतभागे व्यवस्थितम् ।
यमी यमविशुद्धात्मा नियम्यैवं हृदीश्वरम् ॥ २३ ॥
यमपुष्पादिभिः पूज्यं याज्यो ह्ययजदव्ययम् ।
तस्य हृत्कमलस्थस्य नियोगाच्चांशजो विभुः ॥ २४ ॥
ललाटमस्य निर्भिद्य प्रादुरासीत् पितामहात् ।
लोहितोऽभूत्स्वयं नीलः शिवस्य हृदयोद्भवः ॥ २५ ॥
वह्नेश्चैव तु संयोगात् प्रकृत्य पुरुषः प्रभुः ।
नीलश्च लोहितश्चैव यतः कालाकृतिः पुमान् ॥ २६ ॥
नीललोहित इत्युक्तस्तेन देवेन वै प्रभुः ।
ब्रह्मणा भगवान् कालः प्रीतात्मा चाभवद्विभुः ॥ २७ ॥
सुप्रीतमनसं देवं तुष्टाव च पितामहः ।
नामाष्टकेन विश्वात्मा विश्वात्मानं महामुने ॥ २८ ॥
॥ पितामह उवाच ॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय देवाय रसायाम्बुमयाय ते ॥ २९ ॥
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः ॥ ३० ॥
पशूनां पतये चैव पावकायातितेजसे ।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ३१ ॥
महादेवाय सोमाय अमृताय नमोऽस्तु ते ।
उग्राय यजमानाय नमस्ते कर्मयोगिने ॥ ३२ ॥
यः पठेच्छृणुयाद्वापि पैतामहमिमं स्तवम् ।
रुद्राय कथितं विप्रां श्रावयेद्वा समाहितः ॥ ३३ ॥
अष्टमूर्तेस्तु सायुज्यं वर्षादेकादवाप्नुयात् ।
एवं स्तुत्वा महादेवमवैक्षत पितामहः ॥ ३४ ॥
तदाष्टधा महादेवः समातिष्ठत्समन्ततः ।
तदा प्रकाशते भानुः कृष्णवर्त्मा निशाकरः ॥ ३५ ॥
क्षितिर्वायुः पुमानम्भः सुषिरं सर्वगं तथा ।
तदाप्रभृति तं प्राहुरष्टमूर्तिरितीश्वरम् ॥ ३६ ॥
अष्टमूर्तेः प्रसादेन विरञ्चिश्चासृजत् पुनः ।
सृष्ट्वैतदखिलं ब्रह्मा पुनः कल्पान्तरे प्रभुः ॥ ३७ ॥
सहस्रयुगपर्यन्तं संसुप्ते च चराचरे ।
प्रजाः स्रष्टुमनास्तेपे तत उग्रं तपो महत् ॥ ३८ ॥
तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत ।
ततो दीर्घेण कालेन दुःखात् क्रोधो व्यजायत ॥ ३९ ॥
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।
ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥ ४० ॥
सर्वांस्तानग्रजान् दृष्ट्वा भूतप्रेतनिशाचरान् ।
अनिन्दत तदा देवो ब्रह्मात्मानमजो विभुः ॥ ४१ ॥
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ।
ततः प्राणमयो रुद्रः प्रादुरासीत् प्रभोर्मुखात् ॥ ४२ ॥
अर्धनारीश्वरो भूत्वा बालार्कसदृशद्युतिः ।
तदैकादशधात्मानं प्रविभज्य व्यवस्थितः ॥ ४३ ॥
अर्धेनांशेन सर्वात्मा ससर्जासौ शिवामुमाम् ।
सा चासृजत्तदा लक्ष्मीं दुर्गां श्रेष्ठां सरस्वतीम् ॥ ४४ ॥
वामां रौद्रीं महामायां वैष्णवीं वारिजेक्षणाम् ।
कलां विकिरिणीं चैव कालीं कमलवासिनीम् ॥ ४५ ॥
बलविकरिणीं देवीं बलप्रमथिनीं तथा ।
सर्वभूतस्य दमनीं ससृजे च मनोन्मनीम् ॥ ४६ ॥
तथान्या बहवः सृष्टास्तया नार्यः सहस्रशः ।
रुद्रैश्चैव महादेवस्ताभिस्त्रिभुवनेश्वरः ॥ ४७ ॥
सर्वात्मनश्च तस्याग्रे ह्यतिष्ठत् परमेश्वरः ।
मृतस्य तस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥ ४८ ॥
घृणी ददौ पुनः प्राणान् ब्रह्मपुत्रो महेश्वरः ।
ब्रह्मणः प्रददौ प्राणानात्मस्थांस्तु तदा प्रभुः ॥ ४९ ॥
प्रहृष्टोऽभूत्ततो रुद्रः किञ्चित् प्रत्यागतासवम् ।
अभ्यभाषत देवेशो ब्रह्माणं परमं वचः ॥ ५० ॥
मा भैर्देव महाभाग विरिञ्च जगतां गुरो ।
मयेह स्थापिताः प्राणास्तस्मादुत्तिष्ठ वै प्रभो ॥ ५१ ॥
श्रुत्वा वचस्ततस्तस्य स्वप्नभूतं मनोगतम् ।
पितामहः प्रसन्नात्मा नेत्रैः फुल्लाम्बुजप्रभैः ॥ ५२ ॥
ततः प्रत्यागतप्राणः समुदैक्षन् महेश्वरम् ।
स उद्वीक्ष्य चिरं कालं स्निग्धगम्भीरया गिरा ॥ ५३ ॥
उवाच भगवान् ब्रह्मा समुत्थाय कृताञ्जलिः ।
भो भो वद महाभाग आनन्दयसि मे मनः ॥ ५४ ॥
को भवानष्टमूर्तिर्वै स्थित एकादशात्मकः ।
॥ इन्द्र उवाच ॥
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥ ५५ ॥
स्पृशन् कराभ्यां ब्रह्माणं सुखाभ्यां स सुरारिहा ।
॥ श्रीशङ्कर उवाच ॥
मां विद्धि परमात्मानमेनां मायामजामिति ॥ ५६ ॥
एते वै संस्थिता रुद्रास्त्वां रक्षितुमिहागताः ।
ततः प्रणम्य तं ब्रह्मा देवदेवमुवाच ह ॥ ५७ ॥
कृताञ्जलिपुटो भूत्वा हर्षगद्गदया गिरा ।
भगवन् देवदेवेश दुःखैराकुलितो ह्यहम् ॥ ५८ ॥
संसारान्मोक्तुमीशान मामिहार्हसि शङ्कर ।
ततः प्रहस्य भगवान् पितामहमुमापतिः ॥ ५९ ॥
तदा रुद्रैर्जगन्नाथस्तया चान्तर्दधे विभुः ।
॥ इन्द्र उवाच ॥
तस्माच्छिलाद लोकेषु दुर्लभो वै त्वयोनिजः ॥ ६० ॥
मृत्युहीनः पुमान् विद्धि समृत्युः पद्मजोऽपि सः ।
किंतु देवेश्वरो रुद्रः प्रसीदति यदीश्वरः ॥ ६१ ॥
न दुर्लभो मृत्युहीनस्तव पुत्रो ह्ययोनिजः ।
मया च विष्णुना चैव ब्रह्मणा च महात्मना ॥ ६२ ॥
अयोनिजं मृत्युहीनमसमर्थं निवेदितुम् ।
॥ शैलादिरुवाच ॥
एवं व्याहृत्य विप्रेन्द्रमनुगृह्य च तं घृणी ॥ ६३ ॥
देवैर्वृतो ययौ देवः सितेनेभेन वै प्रभुः ॥ ६४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे इन्द्रवाक्यं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-41

कोई टिप्पणी नहीं:

123