श्रीलिङ्गमहापुराण -[पूर्वभाग] -040

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -040

॥ श्रीसाम्बसदाशिवाय नमः ॥
चालीसवाँ अध्याय
कलियुग के धर्मों का वर्णन, कलियुग में धर्म आदि का ह्रास तथा स्वल्प भी धर्माचरण का महत्फल एवं कलियुग के अन्त में पुनः सत्ययुग की प्रवृत्ति
श्रीलिङ्गमहापुराणे पूर्वभागे चत्वारिंशोऽध्यायः
चतुर्युगपरिमाणं

॥ शक्र उवाच ॥

तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ।
साधयन्ति नरास्तत्र तमसा व्याकुलेन्द्रियाः ॥ १ ॥
कलौ प्रमादको रोगः सततं क्षुद्भयानि च ।
अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ २ ॥


न प्रामाण्यं श्रुतेरस्ति नृणां चाधर्मसेवनम् ।
अधार्मिकास्त्वनाचारा महाकोपाल्पचेतसः ॥ ३ ॥
अनृतं ब्रुवते लुब्धास्तिष्ये जाताश्च दुष्प्रजाः ।
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥ ४ ॥
विप्राणां कर्म दोषेण प्रजानां जायते भयम् ।
नाधीयन्ते तदा वेदान्न यजन्ति द्विजातयः ॥ ५ ॥
उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात् ।
शूद्राणां मन्त्रयोगेन संबन्धो ब्राह्मणैः सह ॥ ६ ॥
भवतीह कलौ तस्मिन् शयनासनभोजनैः ।
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति ते ॥ ७ ॥
भ्रूणहत्या वीरहत्या प्रजायन्ते प्रजासु वै ।
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ ८ ॥
राजवृत्तिस्थिताश्चौराश्चौराचाराश्च पार्थिवाः ।
एकपत्न्यो न शिष्यन्ति वर्धिष्यन्त्यभिसारिकाः ॥ ९ ॥
वर्णाश्रमप्रतिष्ठानो जायते नृषु सर्वतः ।
तदा स्वल्पफला भूमिः क्वचिच्चापि महाफला ॥ १० ॥
अरक्षितारो हर्तारः पार्थिवाश्च शिलाशन ।
शूद्रा वै ज्ञानिनः सर्वे ब्राह्मणैरभिवन्दिताः ॥ ११ ॥
अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
आसनस्था द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः ॥ १२ ॥
ताडयन्ति द्विजेन्द्रांश्च शूद्रा वै स्वल्पबुद्धयः ।
आस्ये निधाय वै हस्तं कर्णं शूद्रस्य वै द्विजाः ॥ १३ ॥
नीचस्येव तदा वाक्यं वदन्ति विनयेन तम् ।
उच्चासनस्थान् शूद्रांश्च द्विजमध्ये द्विजर्षभ ॥ १४ ॥
ज्ञात्वा न हिंसते राजा कलौ कालवशेन तु ।
पुष्पैश्च वासितैश्चैव तथान्यैर्मङ्गलैः शुभैः ॥ १५ ॥
शूद्रानभ्यर्चयन्त्यल्प श्रुतभाग्यबलान्विताः ।
न प्रेक्षन्ते गर्विताश्च शूद्रा द्विजवरान् द्विज ॥ १६ ॥
सेवावसरमालोक्य द्वारे तिष्ठन्ति वै द्विजाः ।
वाहनस्थान् समावृत्य शूद्राञ्शूद्रोपजीविनः ॥ १७ ॥
सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ ।
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ॥ १८ ॥
यतयश्च भविष्यन्ति बहवोऽस्मिन् लौ युगे ।
पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते ॥ १९ ॥
निन्दन्ति वेदविद्यां च द्विजाः कर्माणि वै कलौ ।
कलौ देवो महादेवः शङ्करो नीललोहितः ॥ २० ॥
प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ।
ये तं विप्रा निषेवन्ते येन केनापि शङ्करम् ॥ २१ ॥
कलिदोषान् विनिर्जित्य प्रयान्ति परमं पदम् ।
श्वापदप्रबलत्वं च गवां चैव परिक्षयः ॥ २२ ॥
साधूनां विनिवृत्तिश्च वेद्या तस्मिन्युगक्षये ।
तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान् ॥ २३ ॥
चातुराश्रमशैथिल्ये धर्मः प्रतिचलिष्यति ।
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ॥ २४ ॥
युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ।
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ॥ २५ ॥
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ।
चित्रवर्षी तदा देवो यदा प्राहुर्युगक्षयम् ॥ २६ ॥
सर्वे वणिग्जनाश्चापि भविष्यन्त्यधमे युगे ।
कुशीलचर्याः पाखण्डैर्वृथारूपैः समावृताः ॥ २७ ॥
बहुयाजनको लोको भविष्यति परस्परम् ।
नाव्याहृतक्रूरवाक्यो नार्जवी नानसूयकः ॥ २८ ॥
न कृते प्रतिकर्ता च युगक्षीणे भविष्यति ।
निन्दकाश्चैव पतिता युगान्तस्य च लक्षणम् ॥ २९ ॥
नृपशून्या वसुमती न च धान्यधनावृता ।
मण्डलानि भविष्यन्ति देशेषु नगरेषु च ॥ ३० ॥
अल्पोदका चाल्पफला भविष्यति वसुन्धरा ।
गोप्तारश्चाप्यगोप्तारः सम्भविष्यन्त्यशासनाः ॥ ३१ ॥
हर्तारः परवित्तानां परदारप्रधर्षकाः ।
कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः ॥ ३२ ॥
प्रनष्टचेष्टनाः पुंसो मुक्तकेशाश्च शूलिनः ।
जनाः षोडशवर्षाश्च प्रजायन्ते युगक्षये ॥ ३३ ॥
शुक्लदन्ताजिनाक्षाश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ ३४ ॥
सस्यचौरा भविष्यन्ति दृढचैलाभिलाषिणः ।
चौराश्चोरस्वहर्तारो हर्तुर्हर्ता तथापरः ॥ ३५ ॥
योग्यकर्मण्युपरते लोके निष्क्रियतां गते ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ ३६ ॥
सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं तदा ।
कौशिकीं प्रतिपत्स्यन्ते देशान् क्षुद् भयपीडिताः ॥ ३७ ॥
दुःखेनाभिप्लुतानां च परमायुः शतं तदा ।
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः ॥ ३८ ॥
उत्सीदन्ति तदा यज्ञाः केवलाधर्मपीडिताः ।
काषायिणोऽप्यनिर्ग्रन्थाः कापालीबहुलास्त्विह ॥ ३९ ॥
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ।
वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः ॥ ४० ॥
उत्पद्यन्ते तदा ते वै सम्प्राप्ते तु कलौ युगे ।
अधीयन्ते तदा वेदान् शूद्रा धर्मार्थकोविदाः ॥ ४१ ॥
यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः ।
स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥ ४२ ॥
उपद्रवांस्तथान्योन्यं साधयन्ति तदा प्रजाः ।
दुःखप्रभूतमल्पायुर्देहोत्सादः सरोगता ॥ ४३ ॥
अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम् ।
प्रजासु ब्रह्महत्यादि तदा वै सम्प्रवर्तते ॥ ४४ ॥
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते ।
तदा त्वल्पेन कालेन सिद्धिं गच्छन्ति मानवाः ॥ ४५ ॥
धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः ।
श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः ॥ ४६ ॥
त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः ।
यथाक्लेशं चरन् प्राज्ञस्तदह्ना प्राप्नुते कलौ ॥ ४७ ॥
एषा कलियुगावस्था सन्ध्यांशं तु निबोध मे ।
युगे युगे च हीयन्ते त्रींस्त्रीन् पादांस्तु सिद्धयः ॥ ४८ ॥
युगस्वभावाः सन्ध्यास्तु तिष्ठन्तीह तु पादशः ।
सन्ध्यास्वभावाः स्वांशेषु पादशस्ते प्रतिष्ठिताः ॥ ४९ ॥
एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके ।
तेषां शास्ता ह्यसाधूनां भूतानां निधनोत्थितः ॥ ५० ॥
गोत्रेऽस्मिन् वै चन्द्रमसो नाम्ना प्रमितिरुच्यते ।
मानवस्य तु सोंऽशेन पूर्वं स्वायंभुवेऽन्तरे ॥ ५१ ॥
समाः स विंशतिः पूर्णाः पर्यटन् वै वसुन्धराम् ।
अनुकर्षन् स वै सेनां सवाजिरथकुञ्जराम् ॥ ५२ ॥
प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः ।
स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः ॥ ५३ ॥
स हत्वा सर्वशश्चैव राज्ञस्तान् शूद्रयोनिजान् ।
पाखण्डांस्तु ततः सर्वान्निःशेषं कृतवान् प्रभुः ॥ ५४ ॥
नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वतः ।
वर्णव्यत्यासजाताश्च ये च ताननुजीविनः ॥ ५५ ॥
प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृत्स तु ।
अधृष्यः सर्वभूतानां चचाराथ वसुन्धराम् ॥ ५६ ॥
मानवस्य तु सोंऽशेन देवस्येह विजज्ञिवान् ।
पूर्वजन्मनि विष्णोस्तु प्रमितिर्नाम वीर्यवान् ॥ ५७ ॥
गोत्रतो वै चन्द्रमसः पूर्णे कलियुगे प्रभुः ।
द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्तो विंशतिः समाः ॥ ५८ ॥
विनिघ्नन् सर्वभूतानि शतशोऽथ सहस्रशः ।
कृत्वा बीजावशेषां तु पृथिवीं क्रूरकर्मणः ॥ ५९ ॥
परस्परनिमित्तेन कोपेनाकस्मिकेन तु ।
स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान् ॥ ६० ॥
गङ्गायमुनयोर्मध्ये स्थितिं प्राप्तः सहानुगः ।
ततो व्यतीते काले तु सामात्यः सह सैनिकः ॥ ६१ ॥
उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः ।
तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके ॥ ६२ ॥
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित् ।
अप्रग्रहास्ततस्ता वै लोभाविष्टास्तु कृत्स्नशः ॥ ६३ ॥
उपहिंसन्ति चान्योन्यं प्रणिपत्य परस्परम् ।
अराजके युगवशात् संशये समुपस्थिते ॥ ६४ ॥
प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः ।
व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान् गृहाणि च ॥ ६५ ॥
स्वान् प्राणाननपेक्षन्तो निष्कारुण्याः सुदुःखिताः ।
नष्टे श्रौते स्मार्तधर्मे परस्परहतास्तदा ॥ ६६ ॥
निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः ।
नष्टे धर्मे प्रतिहताः ह्रस्वकाः पञ्चविंशकाः ॥ ६७ ॥
हित्वा पुत्रांश्च दारांश्च विवादव्याकुलेन्द्रियाः ।
अनावृष्टिहताश्चैव वार्तामुत्सृज्य दूरतः ॥ ६८ ॥
प्रत्यन्तानुपसेवन्ते हित्वा जनपदान् स्वकान् ।
सरित् सागरकूपांस्ते सेवन्ते पर्वतांस्तथा ॥ ६९ ॥
मधुमांसैर्मूलफलैर्वर्तयन्ति सुदुःखिताः ।
चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः ॥ ७० ॥
वर्णाश्रमपरिभ्रष्टाः सङ्कटं घोरमास्थिताः ।
एवं कष्टमनुप्राप्ता अल्पशेषाः प्रजास्तदा ॥ ७१ ॥
जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमानसाः ।
विचारणा तु निर्वेदात्साम्यावस्था विचारणा ॥ ७२ ॥
साम्यावस्थात्मको बोधः सम्बोधाद्धर्मशीलता ।
अरूपशमयुक्तास्तु कलिशिष्टा हि वै स्वयम् ॥ ७३ ॥
अहोरात्रात्तदा तासां युगं तु परिवर्तते ।
चित्तसम्मोहनं कृत्वा तासां वै सुप्तमत्तवत् ॥ ७४ ॥
भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ।
प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै ॥ ७५ ॥
उत्पन्नाः कलिशिष्टास्तु प्रजाः कार्तयुगास्तदा ।
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च ॥ ७६ ॥
सप्त सप्तर्षिभिश्चैव तत्र ते तु व्यवस्थिताः ।
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह ॥ ७७ ॥
कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन् ।
तेषां सप्तर्षयो धर्मं कथयन्तीतरेऽपि च ॥ ७८ ॥
वर्णाश्रमाचारयुतं श्रौतं स्मार्तं द्विधा तु यम् ।
ततस्तेषु क्रियावत्सु वर्धन्ते वै प्रजाः कृते ॥ ७९ ॥
श्रौतस्मार्तकृतानां च धर्मे सप्तर्षिदर्शिते ।
केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीह युगक्षये ॥ ८० ॥
मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ।
यथा दावप्रदग्धेषु तृणेष्विह ततः क्षितौ ॥ ८१ ॥
वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः ।
तथा कार्तयुगानां तु कलिजेष्विह सम्भवः ॥ ८२ ॥
एवं युगाद्युगस्येह सन्तानं तु परस्परम् ।
वर्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तर क्षयः ॥ ८३ ॥
सुखमायुर्बलं रूपं धर्मोऽर्थः काम एव च ।
युगेष्वेतानि हीयन्ते त्रींस्त्रीन् पादान् क्रमेण तु ॥ ८४ ॥
ससन्ध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः ।
इत्येषा प्रतिसिद्धिर्वै कीर्तितैषा क्रमेण तु ॥ ८५ ॥
चतुर्युगानां सर्वेषामनेनैव तु साधनम् ।
एषा चतुर्युगावृत्तिरा सहस्राद्गुणीकृता ॥ ८६ ॥
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता ।
अनार्जवं जडीभावो भूतानामा युगक्षयात् ॥ ८७ ॥
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् ।
एषां चतुर्युगाणां च गुणिता ह्येकसप्ततिः ॥ ८८ ॥
क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ।
चतुर्युगे यथैकस्मिन् भवतीह यदा तु यत् ॥ ८९ ॥
तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ।
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु ॥ ९० ॥
पञ्चविंशत् परिमिता न न्यूना नाधिकास्तथा ।
तथा कल्पा युगैः सार्धं भवन्ति सह लक्षणैः ॥ ९१ ॥
मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ ९२ ॥
यथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् ।
तथा तु सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ ९३ ॥
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः ।
अतीतानागतानां हि सर्वमन्वन्तरेषु वै ॥ ९४ ॥
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च ।
व्याख्यातानि न सन्देहः कल्पः कल्पेन चैव हि ॥ ९५ ॥
अनागतेषु तद्वच्च तर्कः कार्यो विजानता ।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ ९६ ॥
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ।
देवा ह्यष्टविधा ये च ये च मन्वन्तरेश्वराः ॥ ९७ ॥
ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः ।
एवं वर्णाश्रमाणां तु प्रविभागो युगे युगे ॥ ९८ ॥
युगस्वभावश्च तथा विधत्ते वै तदा प्रभुः ।
वर्णाश्रमविभागाश्च युगानि युगसिद्धयः ॥ ९९ ॥
युगानां परिमाणं ते कथितं हि प्रसङ्गतः ।
वदामि देवी पुत्रत्वं पद्मयोनेः समासतः ॥ १०० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्युगपरिमाणं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-40

कोई टिप्पणी नहीं:

123