श्रीलिङ्गमहापुराण -[पूर्वभाग] -037
॥ श्रीसाम्बसदाशिवाय नमः ॥
सैंतीसवाँ अध्याय
नन्दी के जन्म का वृत्तान्त, ब्रह्मा तथा विष्णु का परस्पर संवाद और शिव द्वारा दोनों पर अनुग्रह करना
श्रीलिङ्गमहापुराणे पूर्वभागे सप्तत्रिंशोऽध्यायः
ब्रह्मणो वरप्रदानं
॥ सनत्कुमार उवाच ॥
भवान् कथमनुप्राप्तो महादेवमुमापतिम् ।
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ॥ १ ॥
॥ शैलादिरुवाच ॥
प्रजाकामः शिलादोऽभूत्पिता मम महामुने ।
सोऽप्यन्धः सुचिरं कालं तपस्तेपे सुदुश्चरम् ॥ २ ॥
तपतस्तस्य तपसा सन्तुष्टो वज्रधृक् प्रभुः ।
शिलादमाह तुष्टोऽस्मि वरयस्व वरानिति ॥ ३ ॥
ततः प्रणम्य देवेशं सहस्राक्षं सहामरैः ।
प्रोवाच मुनिशार्दूल कृताञ्जलिपुटो हरिम् ॥ ४ ॥
॥ शिलाद उवाच ॥
भगवन् देवतारिघ्न सहस्राक्ष वरप्रद ।
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सुव्रत ॥ ५ ॥
॥ शक्र उवाच ॥
पुत्रं दास्यामि विप्रर्षे योनिजं मृत्युसंयुतम् ।
अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै ॥ ६ ॥
न दास्यति सुतं तेऽत्र मृत्युहीनमयोनिजम् ।
पितामहोऽपि भगवान् किमुतान्ये महामुने ॥ ७ ॥
सोऽपि देवः स्वयं ब्रह्मा मृत्युहीनो न चेश्वरः ।
योनिजश्च महातेजाश्चाण्डजः पद्मसम्भवः ॥ ८ ॥
महेश्वराङ्गजश्चैव भवान्यास्तनयः प्रभुः ।
तस्याप्यायुः समाख्यातं परार्धद्वयसम्मितम् ॥ ९ ॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै ।
समतीतानि कल्पानां तावच्छेषापरत्र ये ॥ १० ॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः ।
परित्यजाशां विप्रेन्द्र गृहाणात्मसमं सुतम् ॥ ११ ॥
॥ शैलादिरुवाच ॥
तस्य तद्वचनं श्रुत्वा पिता मे लोकविश्रुतः ।
शिलाद इति पुण्यात्मा पुनः प्राह शचीपतिम् ॥ १२ ॥
॥ शिलाद उवाच ॥
भगवन्नण्डयोनित्वं पद्मयोनित्वमेव च ।
महेश्वराङ्गयोनित्वं श्रुतं वै ब्रह्मणो मया ॥ १३ ॥
पुरा महेन्द्र दायादाद् गदतश्चास्य पूर्वजात् ।
नारदाद्वै महाबाहो कथमत्राशु नो वद ॥ १४ ॥
दाक्षायणी सा दक्षोऽपि देवः पद्मोद्भवात्मजः ।
पौत्रीकनकगर्भस्य कथं तस्याः सुतो विभुः ॥ १५ ॥
॥ शक्र उवाच ॥
स्थाने संशयितुं विप्र तव वक्ष्यामि कारणम् ।
कल्पे तत्पुरुषे वृत्तं ब्रह्मणः परमेष्ठिनः ॥ १६ ॥
ससर्ज सकलं ध्यात्वा ब्रह्माणं परमेश्वरः ।
जनार्दनो जगन्नाथः कल्पे वै मेघवाहने ॥ १७ ॥
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धरम् ।
नारायणो महादेवं बहुमानेन सादरम् ॥ १८ ॥
दृष्ट्वा भावं महादेवो हरेः स्वात्मनि शङ्करः ।
प्रददौ तस्य सकलं स्रष्टुं वै ब्रह्मणा सह ॥ १९ ॥
तदा तं कल्पमाहुर्वै मेघवाहनसंज्ञया ।
हिरण्यगर्भस्तं दृष्ट्वा तस्य देहोद्भवस्तदा ॥ २० ॥
जनार्दनसुतः प्राह तपसा प्राप्य शङ्करम् ।
तव वामाङ्गजो विष्णुर्दक्षिणाङ्गभवो ह्यहम् ॥ २१ ॥
मया सह जगत् सर्वं तथाप्यसृजदच्युतः ।
जगन्मयोऽवहद्यस्मान्मेघो भूत्वा दिवानिशम् ॥ २२ ॥
भवन्तमवहद्विष्णुर्देवदेवं जगद्गुरुम् ।
नारायणादपि विभो भक्तोऽहं तव शङ्कर ॥ २३ ॥
प्रसीद देहि मे सर्वं सर्वात्मत्वं तव प्रभो ।
तदाथ लब्ध्वा भगवान् भवात् सर्वात्मतां क्षणात् ॥ २४ ॥
त्वरमाणोऽथ सङ्गम्य ददर्श पुरुषोत्तमम् ।
एकार्णवालये शुभ्रे त्वन्धकारे सुदारुणे ॥ २५ ॥
हेमरत्नचिते दिव्ये मनसा च विनिर्मिते ।
दुष्प्राप्ये दुर्जनैः पुण्यैः सनकाद्यैरगोचरे ॥ २६ ॥
जगदावासहृदयं ददर्श पुरुषं त्वजः ।
अनन्तभोगशय्यायां शायिनं पङ्कजेक्षणम् ॥ २७ ॥
शङ्खचक्रगदापद्मं धारयन्तं चतुर्भुजम् ।
सर्वाभरणसंयुक्तं शशिमण्डलसन्निभम् ॥ २८ ॥
श्रीवत्सलक्षणं देवं प्रसन्नास्यं जनार्दनम् ।
रमामृदुकराम्भोज स्पर्शरक्तपदाम्बुजम् ॥ २९ ॥
परमात्मानमीशानं तमसा कालरूपिणम् ।
रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम् ॥ ३० ॥
सत्त्वेन सर्वभूतानां स्थापकं परमेश्वरम् ।
सर्वात्मानं महात्मानं परमात्मानमीश्वरम् ॥ ३१ ॥
क्षीरार्णवेऽमृतमये शायिनं योगनिद्रया ।
तं दृष्ट्वा प्राह वै ब्रह्मा भगवन्तं जनार्दनम् ॥ ३२ ॥
ग्रसामि त्वां प्रसादेन यथापूर्वं भवानहम् ।
स्मयमानस्तु भगवान् प्रतिबुध्य पितामहम् ॥ ३३ ॥
उदैक्षत महाबाहुः स्मितमीषच्चकार सः ।
विवेश चाण्डजं तं तु ग्रस्तस्तेन महात्मना ॥ ३४ ॥
ततस्तं चासृजद् ब्रह्मा भ्रुवोर्मध्येन चाच्युतम् ।
सृष्टस्तेन हरिः प्रेक्ष्य स्थितस्तस्याथ सन्निधौ ॥ ३५ ॥
एतस्मिन्नन्तरे रुद्रः सर्वदेवभवोद्भवः ।
विकृतं रूपमास्थाय पुरा दत्तवरस्तयोः ॥ ३६ ॥
आगच्छद्यत्र वै विष्णुर्विश्वात्मा परमेश्वरः ।
प्रसादमतुलं कर्तुं ब्रह्मणश्च हरेः प्रभुः ॥ ३७ ॥
ततः समेत्य तौ देवौ सर्वदेवभवोद्भवम् ।
अपश्यतां भवं देवं कालाग्निसदृशं प्रभुम् ॥ ३८ ॥
तौ तं तुष्टुवतुश्चैव शर्वमुग्रं कपर्दिनम् ।
प्रणेमतुश्च वरदं बहुमानेन दूरतः ॥ ३९ ॥
भवोऽपि भगवान् देवमनुगृह्य पितामहम् ।
जनार्दनं जगन्नाथस्तत्रैवान्तरधीयत ॥ ४० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मणो वरप्रदानं
नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें