श्रीलिङ्गमहापुराण -[पूर्वभाग] -038
॥ श्रीसाम्बसदाशिवाय नमः ॥
अड़तीसवाँ अध्याय
विष्णु द्वारा महेश्वर के माहात्म्य का कथन तथा नारायण द्वारा सृष्टि का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे
अष्टत्रिंशोऽध्यायः
वैष्णवकथनं
॥ शैलादिरुवाच ॥
गते महेश्वरे देवे तमुद्दिश्य जनार्दनः ।
प्रणम्य भगवान् प्राह पद्मयोनिमजोद्भवः ॥ १ ॥
॥ श्रीविष्णुरुवाच ॥
परमेशो जगन्नाथः शङ्करस्त्वेष सर्वगः ।
आवयोरखिलस्येशः शरणं च महेश्वरः ॥ २ ॥
अहं वामाङ्गजो ब्रह्मन् शङ्करस्य महात्मनः ।
भवान् भवस्य देवस्य दक्षिणाङ्गभवः स्वयम् ॥ ३ ॥
मामाहुर्ऋषयः प्रेक्ष्य प्रधानं प्रकृतिं तथा ।
अव्यक्तमजमित्येवं भवन्तं पुरुषस्त्विति ॥ ४ ॥
एवमाहुर्महादेवमावयोरपि कारणम् ।
ईशं सर्वस्य जगतः प्रभुमव्ययमीश्वरम् ॥ ५ ॥
सोऽपि तस्यामरेशस्य वचनाद्वारिजोद्भवः ।
वरेण्यं वरदं रुद्रमस्तुवत् प्रणनाम च ॥ ६ ॥
अथाम्भसा प्लुतां भूमिं समादाय(समाधाय) जनार्दनः ।
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः ॥ ७ ॥
नदीनदसमुद्रांश्च पूर्ववच्चाकरोत् प्रभुः ।
कृत्वा चोर्वीं प्रयत्नेन निम्नोन्नतविवर्जिताम् ॥ ८ ॥
धरायां सोऽचिनोत् सर्वान् भूधरान् भूधराकृतिः ।
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥ ९ ॥
स्रष्टुं च भगवांश्चक्रे मतिं मतिमतां वरः ।
मुख्यं च तैर्यग्योन्यं च दैविकं मानुषं तथा ॥ १० ॥
विभुश्चानुग्रहं तत्र कौमारकमदीनधीः ।
पुरस्तादसृजद्देवः सनन्दं सनकं तथा ॥ ११ ॥
सनातनं सतां श्रेष्ठं नैष्कर्म्येण गताः परम् ।
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ १२ ॥
दक्षमत्रिं वसिष्ठं च सोऽसृजद्योगविद्यया ।
संकल्पं चैव धर्मं च ह्यधर्मं भगवान् प्रभुः ॥ १३ ॥
द्वादशैव प्रजास्त्वेता ब्रह्मणोऽव्यक्तजन्मनः ।
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः ॥ १४ ॥
तौ चोर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ ।
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ ॥ १५ ॥
एवं मुख्यादिकान् सृष्ट्वा पद्मयोनिः शिलाशन ।
युगधर्मानशेषांश्च कल्पयामास विश्वसृक् ॥ १६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे वैष्णवकथनं
नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें