श्रीलिङ्गमहापुराण -[पूर्वभाग] -036

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -036

॥ श्रीसाम्बसदाशिवाय नमः ॥
छत्तीसवाँ अध्याय
राजा क्षुप द्वारा विष्णु की आराधना, विष्णु द्वारा शिवभक्तों की महिमा का कथन
श्रीलिङ्गमहापुराणे पूर्वभागे षट्त्रिंशोऽध्यायः
क्षुपदधीचिसंवाद

॥ नन्द्युवाच ॥
पूजया तस्य संतुष्टो भगवान् पुरुषोत्तमः ।
श्रीभूमिसहितः श्रीमान् शङ्खचक्रगदाधरः ॥ १ ॥
किरीटी पद्महस्तश्च सर्वाभरणभूषितः ।
पीताम्बरश्च भगवान् देवैर्दैत्यैश्च संवृतः ॥ २ ॥


प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ।
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् ॥ ३ ॥
तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ।
त्वमादिस्त्वमनादिश्च प्रकृतिस्त्वं जनार्दनः ॥ ४ ॥
पुरुषस्त्वं जगन्नाथो विष्णुर्विश्वेश्वरो भवान् ।
योऽयं ब्रह्मासि पुरुषो विश्वमूर्तिः पितामहः ॥ ५ ॥
तत्त्वमाद्यं भवानेव परं ज्योतिर्जनार्दन ।
परमात्मा परं धाम श्रीपते भूपते प्रभो ॥ ६ ॥
त्वत्क्रोधसम्भवो रुद्रस्तमसा च समावृतः ।
त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः ॥ ७ ॥
त्वत्प्रसादात्स्वयं विष्णुः सत्त्वेन पुरुषोत्तमः ।
कालमूर्ते हरे विष्णो नारायण जगन्मय ॥ ८ ॥
महांस्तथा च भूतादिस्तन्मात्राणीन्द्रियाणि च ।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ ९ ॥
महादेव जगन्नाथ पितामह जगद्गुरो ।
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ १० ॥
प्रसीद त्वं जगन्नाथ शरण्यं शरणं गतः ।
वैकुण्ठ शौरे सर्वज्ञ वासुदेव महाभुज ॥ ११ ॥
सङ्कर्षण महाभाग प्रद्युम्न पुरुषोत्तम ।
अनिरुद्ध महाविष्णो सदा विष्णो नमोऽस्तु ते ॥ १२ ॥
विष्णो तवासनं दिव्यमव्यक्तं मध्यतो विभुः ।
सहस्रफणसंयुक्तस्तमोमूर्तिर्धराधरः ॥ १३ ॥
अधश्च धर्मो देवेश ज्ञानं वैराग्यमेव च ।
ऐश्वर्यमासनस्यास्य पादरूपेण सुव्रत ॥ १४ ॥
सप्तपातालपादस्त्वं धराजघनमेव च ।
वासांसि सागराः सप्त दिशश्चैव महाभुजाः ॥ १५ ॥
द्यौर्मूर्धा ते विभो नाभिः खं वायुर्नासिकां गतः ।
नेत्रे सोमश्च सूर्यश्च केशा वै पुष्करादयः ॥ १६ ॥
नक्षत्रतारका द्यौश्च ग्रैवेयकविभूषणम् ।
कथं स्तोष्यामि देवेशं पूज्यश्च पुरुषोत्तमः ॥ १७ ॥
श्रद्धया च कृतं दिव्यं यच्छ्रुतं यच्च कीर्तितम् ।
यदिष्टं तत्क्षमस्वेश नारायण नमोऽस्तु ते ॥ १८ ॥
॥ शैलादिरुवाच ॥
इदं तु वैष्णवं स्तोत्रं सर्वपापप्रणाशनम् ।
यः पठेच्छृणुयाद्वापि क्षुपेण परिकीर्तितम् ॥ १९ ॥
श्रावयेद्वा द्विजान् भक्त्या विष्णुलोकं स गच्छति ॥ २० ॥
सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम् ।
विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ २१ ॥
॥ राजोवाच ॥
भगवन् ब्राह्मणः कश्चिद्दधीच इति विश्रुतः ।
धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥ २२ ॥
अवध्यः सर्वदा सर्वैः शङ्करार्चनतत्परः ।
सावज्ञं वामपादेन स मां मूर्ध्नि सदस्यथ ॥ २३ ॥
ताडयामास देवेश विष्णो विश्वजगत्पते ।
उवाच च मदाविष्टो न बिभेमीति सर्वतः ॥ २४ ॥
जेतुमिच्छामि तं विप्रं दधीचं जगदीश्वर ।
यथा हि तं तथा कर्तुं त्वमर्हसि जनार्दन ॥ २५ ॥
॥ शैलादिरुवाच ॥
ज्ञात्वा सोऽपि दधीचस्य ह्यवध्यत्वं महात्मनः ।
सस्मार च महेशस्य प्रभावमतुलं हरिः ॥ २६ ॥
एवं स्मृत्वा हरिः प्राह ब्रह्मणः क्षुतसम्भवम् ।
विप्राणां नास्ति राजेन्द्र भयमेत्य महेश्वरम् ॥ २७ ॥
विशेषाद्रुद्रभक्तानामभयं सर्वदा नृप ।
नीचानामपि सर्वत्र दधीचस्यास्य किं पुनः ॥ २८ ॥
तस्मात्तव महाभाग विजयो नास्ति भूपते ।
दुःखं करोमि विप्रस्य शापार्थं ससुरस्य मे ॥ २९ ॥
भविता तस्य शापेन दक्षयज्ञे सुरैः समम् ।
विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥ ३० ॥
तस्मात्समेत्य विप्रेन्द्रं सर्वयत्नेन भूपते ।
करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥ ३१ ॥
॥ शैलादिरुवाच ॥
श्रुत्वा वाक्यं क्षुपः प्राह तथास्त्विति जनार्दनम् ।
भगवानपि विप्रस्य दधीचस्याश्रमं ययौ ॥ ३२ ॥
आस्थाय रूपं विप्रस्य भगवान् भक्तवत्सलः ।
दधीचमाह ब्रह्मर्षिमभिवन्द्य जगद्गुरुः ॥ ३३ ॥
॥ श्रीभगवानुवाच ॥
भो भो दधीच ब्रह्मर्षे भवार्चनरताव्यय ।
वरमेकं वृणे त्वत्तस्तं भवान् दातुमर्हति ॥ ३४ ॥
याचितो देवदेवेन दधीचः प्राह विष्णुना ।
ज्ञातं तवेप्सितं सर्वं न बिभेमि तवाप्यहम् ॥ ३५ ॥
भवान् विप्रस्य रूपेण आगतोऽसि जनार्दन ।
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥ ३६ ॥
ज्ञातं प्रसादाद् रूद्रस्य द्विजत्वं त्यज सुव्रत ।
आराधितोऽसि देवेश क्षुपेण मधुसूदन ॥ ३७ ॥
जाने तवैनां भगवन् भक्तवत्सलतां हरे ।
स्थाने तवैषा भगवन् भक्तवात्सल्यता हरे ॥ ३८ ॥
अस्ति चेद् भगवन् भीतिर्भवार्चनरतस्य मे ।
वक्तुमर्हसि यत्नेन वरदाम्बुजलोचन ॥ ३९ ॥
वदामि न मृषा तस्मान्न बिभेमि जनार्दन ।
न बिभेमि जगत् यस्मिन् देवदैत्यद्विजादपि ॥ ४० ॥
॥ नन्द्युवाच ॥
श्रुत्वा वाक्यं दधीचस्य तदास्थाय जनार्दनः ।
स्वरूपं सस्मितं प्राह संत्यज्य द्विजतां क्षणात् ॥ ४१ ॥
॥ श्रीभगवानुवाच ॥
भयं दधीच सर्वत्र नास्त्येव तव सुव्रत ।
भवार्चनरतो यस्माद् भवान् सर्वज्ञ एव च ॥ ४२ ॥
बिभेमीति सकृद्वक्तुं त्वमर्हसि नमस्तव ।
नियोगान् मम विप्रेन्द्र क्षुपं प्रति सदस्यथ ॥ ४३ ॥
एवं श्रुत्वापि तद्वाक्यं सान्त्वं विष्णोर्महामुनिः ।
न बिभेमीति तं प्राह दधीचो देवसत्तमम् ॥ ४४ ॥
प्रभावाद्देवदेवस्य शम्भोः साक्षात् पिनाकिनः ।
शर्वस्य शङ्करस्यास्य सर्वज्ञस्य महामुनिः ॥ ४५ ॥
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ।
चक्रमुद्यम्य भगवान् दिधक्षुर्मुनिसत्तमम् ॥ ४६ ॥
अभवत् कुण्ठिताग्रं हि विष्णोश्चक्रं सुदर्शनम् ।
प्रभावाद्धि दधीचस्य क्षुपस्यैव हि सन्निधौ ॥ ४७ ॥
दृष्ट्वा तत्कुण्ठिताग्रं हि चक्रं चक्रिणमाह सः ।
दधीचः सस्मितं साक्षात् सदसद्व्यक्तिकारणम् ॥ ४८ ॥
भगवन् भवता लब्धं पुरातीव सुदारुणम् ।
सुदर्शनमिति ख्यातं चक्रं विष्णो प्रयत्नतः ॥ ४९ ॥
भवस्यैतच्छुभं चक्रं न जिघांसति मामिह ।
ब्रह्मास्त्राद्यैस्तथान्यैर्हि प्रयत्नं कर्तुमर्हसि ॥ ५० ॥
॥ शैलादिरुवाच ॥
तस्य तद्वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमायुधम् ।
ससर्ज च पुनस्तस्मै सर्वास्त्राणि समन्ततः ॥ ५१ ॥
चक्रुर्देवास्ततस्तस्य विष्णोः साहाय्यमव्ययाः ।
द्विजेनैकेन योद्धुं हि प्रवृत्तस्य महाबलाः ॥ ५२ ॥
कुशमुष्टिं तदादाय दधीचः संस्मरन् भवम् ।
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥ ५३ ॥
दिव्यं त्रिशूलमभवत् कालाग्निसदृशप्रभम् ।
दग्धुं देवान् मतिं चक्रे युगान्ताग्निरिवापरः ॥ ५४ ॥
इन्द्रनारायणाद्यैश्च देवैस्त्यक्तानि यानि तु ।
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं मुने ॥ ५५ ॥
देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या द्विजोत्तम ।
ससर्ज भगवान् विष्णुः स्वदेहात् पुरुषोत्तमः ॥ ५६ ॥
आत्मनः सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ।
तानि सर्वाणि सहसा ददाह मुनिसत्तमः ॥ ५७ ॥
ततो विस्मयनार्थाय विश्वमूर्तिरभूद्धरिः ।
तस्य देहे हरेः साक्षादपश्यद् द्विजसत्तमः ॥ ५८ ॥
दधीचो भगवान् विप्रः देवतानां गणान् पृथक् ।
रुद्राणां कोटयश्चैव गणानां कोटयस्तदा ॥ ५९ ॥
अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा ।
दृष्ट्वैतदखिलं तत्र च्यावनिर्विस्मितं तदा ॥ ६० ॥
विष्णुमाह जगन्नाथं जगन्मयमजं विभुम् ।
अम्भसाभ्युक्ष्य तं विष्णुं विश्वरूपं महामुनिः ॥ ६१ ॥
मायां त्यज महाबाहो प्रतिभासा विचारतः ।
विज्ञानानां सहस्राणि दुर्विज्ञेयानि माधव ॥ ६२ ॥
मयि पश्य जगत् सर्वं त्वया सार्धमनिन्दित ।
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ६३ ॥
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ।
तं प्राह च हरिं देवं सर्वदेवभवोद्भवम् ॥ ६४ ॥
मायया ह्यनया किं वा मन्त्रशक्त्याथ वा प्रभो ।
वस्तुशक्त्याथ वा विष्णो ध्यानशक्त्याथ वा पुनः ॥ ६५ ॥
त्यक्त्वा मायामिमां तस्माद्योद्धुमर्हसि यत्नतः ।
एवं तस्य वचः श्रुत्वा दृष्ट्वा माहात्म्यमद्भुतम् ॥ ६६ ॥
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ।
वारयामास निश्चेष्टं पद्मयोनिर्जगद्गुरुः ॥ ६७ ॥
निशम्य वचनं तस्य ब्रह्मणस्तेन निर्जितः ।
जगाम भगवान् विष्णुः प्रणिपत्य महामुनिम् ॥ ६८ ॥
क्षुपो दुःखातुरो भूत्वा सम्पूज्य च मुनीश्वरम् ।
दधीचमभिवन्द्याशु प्रार्थयामास विक्लवः ॥ ६९ ॥
दधीच क्षम्यतां देव मयाज्ञानात्कृतं सखे ।
विष्णुना हि सुरैर्वापि रुद्रभक्तस्य किं तव ॥ ७० ॥
प्रसीद परमेशान दुर्लभा दुर्जनैर्द्विज ।
भक्तिर्भक्तिमतां श्रेष्ठ मद्विधैः क्षत्रियाधमैः ॥ ७१ ॥
श्रुत्वानुगृह्य तं विप्रो दधीचस्तपतां वरः ।
राजानं मुनिशार्दूलः शशाप च सुरोत्तमान् ॥ ७२ ॥
रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वरैः ।
ध्वस्ता भवन्तु देवेन विष्णुना च समन्विताः ॥ ७३ ॥
प्रजापतेर्मखे पुण्ये दक्षस्य सुमहात्मनः ।
एवं शप्त्वा क्षुपं प्रेक्ष्य पुनराह द्विजोत्तमः ॥ ७४ ॥
देवैश्च पूज्या राजेन्द्र नृपैश्च विविधैर्गणैः ।
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ॥ ७५ ॥
इत्युक्त्वा स्वोटजं विप्रः प्रविवेश महाद्युतिः ।
दधीचमभिवन्द्यैव जगाम स्वं नृपः क्षयम् ॥ ७६ ॥
तदेव तीर्थमभवत्स्थानेश्वरमिति स्मृतम् ।
स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ७७ ॥
कथितस्तव सङ्क्षेपाद्विवादः क्षुब्दधीचयोः ।
प्रभावश्च दधीचस्य भवस्य च महामुने ॥ ७८ ॥
य इदं कीर्तयेद्दिव्यं विवादं क्षुब्दधीचयोः ।
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ७९ ॥
य इदं कीर्त्य सङ्ग्रामं प्रविशेत्तस्य सर्वदा ।
नास्ति मृत्युभयं चैव विजयी च भविष्यति ॥ ८० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे क्षुपदधीचिसंवादो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-36

कोई टिप्पणी नहीं:

123