श्रीलिङ्गमहापुराण -[पूर्वभाग] -039

श्रीलिङ्गमहापुराण -[पूर्वभाग] -039
॥ श्रीसाम्बसदाशिवाय नमः ॥
उनतालीसवाँ अध्याय
सत्ययुग, त्रेतायुग तथा द्वापरयुग का वर्णन, द्वापर में वेदसंहिता के विभाजन का एवं कल्पभेद से विविध पुराणों के अनुक्रम का वर्णन

श्रीलिङ्गमहापुराणे पूर्वभागे एकोनचत्वारिंशोऽध्यायः

चतुर्युगधर्माणां वर्णनं
॥ शैलादिरुवाच ॥

श्रुत्वा शक्रेण कथितं पिता मम महामुनिः ।
पुनः पप्रच्छ देवेशं प्रणम्य रचिताञ्जलिः ॥ १ ॥
॥ शिलाद उवाच ॥
भगवन् शक्र सर्वज्ञ देवदेवनमस्कृत ।
शचीपते जगन्नाथ सहस्राक्ष महेश्वर ॥ २ ॥


युगधर्मान् कथं चक्रे भगवान् पद्मसम्भवः ।
वक्तुमर्हसि मे सर्वं साम्प्रतं प्रणताय मे ॥ ३ ॥
॥ शैलादिरुवाच ॥
तस्य तद्वचनं श्रुत्वा शिलादस्य महात्मनः ।
व्याजहार यथादृष्टं युगधर्मं सुविस्तरम् ॥ ४ ॥
॥ शक्र उवाच ॥
-: चतुर्युग :-
आद्यं कृतयुगं विद्धि ततस्त्रेतायुगं मुने ।
द्वापरं तिष्यमित्येते चत्वारस्तु समासतः ॥ ५ ॥
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः ।
कलिस्तमश्च विज्ञेयं युगवृत्तिर्युगेषु च ॥ ६ ॥
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ।
भजनं द्वापरे शुद्धं दानमेव कलौ युगे ॥ ७ ॥
चत्वारि च सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ८ ॥
चत्वारि च सहस्राणि मानुषाणि शिलाशन ।
आयुः कृतयुगे विद्धि प्रजानामिह सुव्रत ॥ ९ ॥
ततः कृतयुगे तस्मिन् सन्ध्यांशे च गते तु वै ।
पादावशिष्टो भवति युगधर्मस्तु सर्वतः ॥ १० ॥
चतुर्भागैकहीनं तु त्रेतायुगमनुत्तमम् ।
कृतार्धं द्वापरं विद्धि तदर्धं तिष्यमुच्यते ॥ ११ ॥
त्रिशती द्विशती सन्ध्या तथा चैकशती मुने ।
सन्ध्यांशकं तथाप्येवं कल्पेष्वेवं युगे युगे ॥ १२ ॥
आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः ।
त्रेतायुगे त्रिपादस्तु द्विपादो द्वापरे स्थितः ॥ १३ ॥
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण धिष्ठितः ।
कृते तु मिथुनोत्पत्तिः वृत्तिः साक्षाद्रसोल्लसा ॥ १४ ॥
प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाश्च भोगिनः ।
अधमोत्तमता तासां न विशेषाः प्रजाः शुभाः ॥ १५ ॥
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ।
तासां प्रीतिर्न च द्वन्द्वं न द्वेषो नास्ति च क्लमः ॥ १६ ॥
पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः ।
विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ॥ १७ ॥
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ।
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः ॥ १८ ॥
वर्णाश्रमव्यवस्था च तदासीन्न च सङ्करः ।
रसोल्लासः कालयोगात् त्रेताख्ये नश्यते द्विज ॥ १९ ॥
तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिः प्रजायते ।
अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु वै ॥ २० ॥
मेघेभ्य स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।
सकृदेव तथा वृष्ट्या संयुक्ते पृथिवीतले ॥ २१ ॥
प्रादुरासंस्तदा तासां वृक्षास्ते गृहसंज्ञिताः ।
सर्ववृत्त्युपभोगस्तु तासां तेभ्यः प्रजायते ॥ २२ ॥
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ।
ततः कालेन महता तासामेव विपर्ययात् ॥ २३ ॥
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ।
विपर्ययेण तासां तु तेन तत्कालभाविना ॥ २४ ॥
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ।
ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥ २५ ॥
अपि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ।
प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥ २६ ॥
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च ।
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥ २७ ॥
अमाक्षिकं महीवीर्यं पुटके पुटके मधु ।
तेन ता वर्तयन्ति स्म सुखमायुः सदैव हि ॥ २८ ॥
हृष्टपुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ।
ततः कालान्तरेणैव पुनर्लोभावृतास्तु ताः ॥ २९ ॥
वृक्षांस्तान् पर्यगृह्णन्ति मधु वा माक्षिकं बलात् ।
तासां तेनोपचारेण पुनर्लोभकृतेन वै ॥ ३० ॥
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् ।
तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा ॥ ३१ ॥
आवर्तनात्तु त्रेतायां द्वन्द्वान्यभ्युत्थितानि वै ।
शीतवर्षातपैस्तीव्रैस्ततस्ता दुःखिता भृशम् ॥ ३२ ॥
द्वन्द्वैः सम्पीड्यमानाश्च चक्रुरावरणानि तु ।
कृतद्वन्द्वप्रतीघाताः केतनानि गिरौ ततः ॥ ३३ ॥
पूर्वं निकामचारास्ता ह्यनिकेता अथावसन् ।
यथायोगं यथाप्रीति निकेतेष्ववसन् पुनः ॥ ३४ ॥
कृत्वा द्वन्द्वोपघातांस्तान् वृत्त्युपायमचिन्तयन् ।
नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥ ३५ ॥
विवादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥ ३६ ॥
वार्तायाः साधिकाप्यन्या वृष्टिस्तासां निकामतः ।
तासां वृष्ट्युदकादीनि ह्यभवन्निम्नगानि तु ॥ ३७ ॥
अभवन् वृष्टिसन्तत्या स्रोतस्थानानि निम्नगाः ।
एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्जने ॥ ३८ ॥
ये पुनस्तदपां स्तोकाः पतिताः पृथिवीतले ।
अपां भूमेश्च संयोगादोषध्यस्तास्तदाभवन् ॥ ३९ ॥
अथाल्पकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ।
ऋतुपुष्पफलाश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ ४० ॥
प्रादुर्भूतानि चैतानि वृक्षजात्यौषधानि च ।
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा ॥ ४१ ॥
ततः पुनरभूत्तासां रागो लोभश्च सर्वशः ।
अवश्यं भाविनार्थेन त्रेतायुगवशेन च ॥ ४२ ॥
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ ४३ ॥
विपर्ययेण चौषध्यः प्रनष्टास्ताश्चतुर्दश ।
मत्वा धरां प्रविष्टास्ता इत्यौषध्यः पितामहः ॥ ४४ ॥
दुदोह गां प्रयत्नेन सर्वभूतहिताय वै ।
तदाप्रभृति चौषध्यः फालकृष्टास्त्वितस्ततः ॥ ४५ ॥
वार्तां कृषिं समायाता वर्तुकामाः प्रयत्नतः ।
वार्ता वृत्तिः समाख्याता कृषिकामप्रयत्नतः ॥ ४६ ॥
अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये ।
हस्तोद्भवा ह्यपश्चैव भवन्ति बहुशस्तदा ॥ ४७ ॥
तत्रापि जगृहुः सर्वे चान्योन्यं क्रोधमूर्च्छिताः ।
सुतदारधनाद्यांस्तु बलाद्युगबलेन तु ॥ ४८ ॥
मर्यादायाः प्रतिष्ठार्थं ज्ञात्वा तदखिलं विभुः ।
ससर्ज क्षत्रियांस्त्रातुं क्षतात्कमलसम्भवः ॥ ४९ ॥
वर्णाश्रमप्रतिष्ठां च चकार स्वेन तेजसा ।
वृत्तेन वृत्तिना वृत्तं विश्वात्मा निर्ममे स्वयम् ॥ ५० ॥
यज्ञप्रवर्तनं चैव त्रेतायामभवत् क्रमात् ।
पशुयज्ञं न सेवन्ते केचित्तत्रापि सुव्रताः ॥ ५१ ॥
बलाद्विष्णुस्तदा यज्ञमकरोत् सर्वदृक् क्रमात् ।
द्विजास्तदा प्रशंसन्ति ततस्त्वाहिंसकं मुने ॥ ५२ ॥
द्वापरेष्वपि वर्तन्ते मतिभेदास्तदा नृणाम् ।
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ॥ ५३ ॥
तदा तु सर्वभूतानां कायक्लेशवशात्क्रमात् ।
लोभो भृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥ ५४ ॥
वेदशाखाप्रणयनं धर्माणां सङ्करस्तथा ।
वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥ ५५ ॥
द्वापरे तु प्रवर्तन्ते रागो लोभो मदस्तथा ।
वेदो व्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ५६ ॥
एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते ।
सङ्क्षयादायुषश्चैव व्यस्यते द्वापरेषु सः ॥ ५७ ॥
ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः ।
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ ५८ ॥
संहिता ऋग्यजुः साम्नां संहन्यन्ते मनीषिभिः ।
सामान्या वैकृताश्चैव दृष्टिभिस्तैः पृथक् पृथक् ॥ ५९ ॥
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ।
अन्ये तु प्रस्थितास्तान् वै केचित्तान् प्रत्यवस्थिताः ॥ ६० ॥
इतिहासपुराणानि भिद्यन्ते कालगौरवात् ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ६१ ॥
भविष्यं नारदीयं च मार्कण्डेयमतः परम् ।
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ॥ ६२ ॥
वामनाख्यं ततः कूर्मं मात्स्यं गारुडमेव च ।
स्कान्दं तथा च ब्रह्माण्डं तेषां भेदः प्रकथ्यते ॥ ६३ ॥
लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम् ।
मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः ॥ ६४ ॥
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ।
पराशरव्यासशङ्ख लिखिता दक्षगौतमौ ॥ ६५ ॥
शातातपो वसिष्ठश्च एवमाद्यैः सहस्रशः ।
अवृष्टिर्मरणं चैव तथा व्याध्याद्युपद्रवाः ॥ ६६ ॥
वाङ्मनः कर्मजैर्दुःखैर्निर्वेदो जायते ततः ।
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ ६७ ॥
विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् ।
दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसम्भवः ॥ ६८ ॥
एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ।
आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्तते ॥ ६९ ॥
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ ७० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥

कोई टिप्पणी नहीं:

123