श्रीलिङ्गमहापुराण -[पूर्वभाग] -035

श्रीलिङ्गमहापुराण -[पूर्वभाग] -035
॥ श्रीसाम्बसदाशिवाय नमः ॥
पैंतीसवाँ अध्याय
महर्षि दधीच एवं राजा क्षुप की कथा तथा महामृत्युंजय मन्त्र की स्वरूपमीमांसा

श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चत्रिंशोऽध्यायः

क्षुपाभिधनृपपराभववर्णनं
॥ सनत्कुमार उवाच ॥

कथं जघान राजानं क्षुपं पादेन सुव्रत ।
दधीचः समरे जित्वा देवदेवं जनार्दनम् ॥ १ ॥
वज्रास्थित्वं कथं लेभे महादेवान् महातपाः ।
वक्तुमर्हसि शैलादे जितो मृत्युस्त्वया यथा ॥ २ ॥


॥ शैलादिरुवाच ॥
ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः ।
अभून्मित्रो दधीचस्य मुनीन्द्रस्य जनेश्वरः ॥ ३ ॥
चिरात्तयोः प्रसंगाद्वै वादः क्षुपदधीचयोः ।
अभवत् क्षत्रियश्रेष्ठो विप्र एवेति विश्रुतः ॥ ४ ॥
अष्टानां लोकपालानां वपुर्धारयते नृपः ।
तस्मादिन्द्रो ह्ययं वह्निर्यमश्च निर्ऋतिस्तथा ॥ ५ ॥
वरुणश्चैव वायुश्च सोमो धनद एव च ।
ईश्वरोऽहं न संदेहो नावमन्तव्य एव च ॥ ६ ॥
महती देवता या सा महतश्चापि सुव्रत ।
तस्मात्त्वया महाभाग च्यावनेय सदा ह्यहम् ॥ ७ ॥
नावमन्तव्य एवेह पूजनीयश्च सर्वथा ।
श्रुत्वा तथा मतं तस्य क्षुपस्य मुनिसत्तमः ॥ ८ ॥
दधीचश्च्यावनिश्चोग्रो गौरवादात्मनो द्विजः ।
अताडयत्क्षुपं मूर्ध्नि दधीचो वाममुष्टिना ।
चिच्छेद वज्रेण च तं दधीचं बलवान् क्षुपः ॥ ९ ॥
ब्रह्मलोके पुरासौ हि ब्रह्मणः क्षुतसम्भवः ।
लब्धं वज्रं च कार्यार्थं वज्रिणा चोदितः प्रभुः ॥ १० ॥
स्वेच्छयैव नरो भूत्वा नरपालो बभूव सः ।
तस्माद्राजा स विप्रेन्द्रमजयद्वै महाबलः ॥ ११ ॥
यथा वज्रधरः श्रीमान् बलवांस्तमसान्वितः ।
पपात भूमौ निहतो वज्रेण द्विजपुङ्गवः ॥ १२ ॥
सस्मार च तदा तत्र दुःखाद्वै भार्गवं मुनिम् ।
शुक्रोऽपि सन्धयामास ताडितं कुलिशेन तम् ॥ १३ ॥
योगादेत्य दधीचस्य देहं देहभृतांवरः ।
सन्धाय पूर्ववद्देहं दधीचस्याह भार्गवः ॥ १४ ॥
भो दधीच महाभाग देवदेवमुमापतिम् ।
सम्पूज्य पूज्यं ब्रह्माद्यैर्देवदेवं निरञ्जनम् ॥ १५ ॥
अवध्यो भव विप्रर्षे प्रसादात्त्र्यम्बकस्य तु ।
मृतसञ्जीवनं तस्माल्लब्धमेतन्मया द्विज ॥ १६ ॥
नास्ति मृत्युभयं शम्भोर्भक्तानामिह सर्वतः ।
मृतसञ्जीवनं चापि शैवमद्य वदामि ते ॥ १७ ॥
त्रियम्बकं यजामहे त्रैलोक्यपितरं प्रभुम् ।
त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम् ॥ १८ ॥
त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः ।
त्रिवेदस्य महादेवं सुगन्धिं पुष्टिवर्धनम् ॥ १९ ॥
सर्वभूतेषु सर्वत्र त्रिगुणे प्रकृतौ तथा ।
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च ॥ २० ॥
पुष्पेषु गन्धवत्सूक्ष्मः सुगन्धिः परमेश्वरः ।
पुष्टिश्च प्रकृतिर्यस्मात् पुरुषस्य द्विजोत्तम ॥ २१ ॥
महदादिविशेषान्त विकल्पस्यापि सुव्रत ।
विष्णोः पितामहस्यापि मुनीनां च महामुने ॥ २२ ॥
इन्द्रस्यापि च देवानां तस्माद्वै पुष्टिवर्धनः ।
तं देवममृतं रुद्रं कर्मणा तपसा तथा ॥ २३ ॥
स्वाध्यायेन च योगेन ध्यानेन च यजामहे ।
सत्येनानेन मुक्षीयान्मृत्युपाशाद्भवः स्वयम् ॥ २४ ॥
बन्धमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ।
मृतसञ्जीवनो मन्त्रो मया लब्धस्तु शङ्करात् ॥ २५ ॥
जप्त्वा हुत्वाभिमन्त्र्यैवं जलं पीत्वा दिवानिशम् ।
लिङ्गस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं द्विज ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा तपसाराध्य शङ्करम् ।
वज्रास्थित्वमवध्यत्वमदीनत्वं च लब्धवान् ॥ २७ ॥
एवमाराध्य देवेशं दधीचो मुनिसत्तमः ।
प्राप्यावध्यत्वमन्यैश्च वज्रास्थित्वं प्रयत्नतः ॥ २८ ॥
अताडयच्च राजेन्द्रं पादमूलेन मूर्धनि ।
क्षुपो दधीचं वज्रेण जघानोरसि च प्रभुः ॥ २९ ॥
नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः ।
प्रभावात्परमेशस्य वज्रबद्धशरीरिणः ॥ ३० ॥
दृष्ट्वाप्यवध्यत्वमदीनतां च क्षुपो दधीचस्य तदा प्रभावम् ।
आराधयामास हरिं मुकुन्दमिन्द्रानुजं प्रेक्ष्य तदाम्बुजाक्षम् ॥ ३१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे क्षुपाबिधनृपपराभववर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-35

कोई टिप्पणी नहीं:

123