श्रीलिङ्गमहापुराण -[पूर्वभाग] -032

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -032

॥ श्रीसाम्बसदाशिवाय नमः ॥
बत्तीसवाँ अध्याय
मुनियों द्वारा की गयी शिवस्तुति
श्रीलिङ्गमहापुराणे पूर्वभागे द्वात्रिंशोऽध्यायः
शिवस्तुतिवर्णनं

॥ ऋषय ऊचुः ॥
नमो दिग्वाससे नित्यं कृतान्ताय त्रिशूलिने ।
विकटाय करालाय करालवदनाय च ॥ १ ॥
अरूपाय सुरूपाय विश्वरूपाय ते नमः ।
कटङ्कटाय रुद्राय स्वाहाकाराय वै नमः ॥ २ ॥


सर्वप्रणतदेहाय स्वयं च प्रणतात्मने ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ॥ ३ ॥
नीलकण्ठाय देवाय चिताभस्माङ्गधारिणे ।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ ४ ॥
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यते ।
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ॥ ५ ॥
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ।
ॐ-कारः सर्ववेदानां श्रेष्ठं साम च सामसु ॥ ६ ॥
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः ।
ग्राम्याणामृषभश्चासि भगवान् लोकपूजितः ॥ ७ ॥
सर्वथा वर्तमानोऽपि यो यो भावो भविष्यति ।
त्वामेव तत्र पश्यामो ब्रह्मणा कथितं तथा ॥ ८ ॥
कामः क्रोधश्च लोभश्च विषादो मद एव च ।
एतदिच्छामहे बोद्धुं प्रसीद परमेश्वर ॥ ९ ॥
महासंहरणे प्राप्ते त्वया देव कृतात्मना ।
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥ १० ॥
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ।
तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ॥ ११ ॥
कामः क्रोधश्च लोभश्च मोहो दम्भ उपद्रवः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ १२ ॥
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १३ ॥
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ।
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १४ ॥
आज्ञापय वयं नाथ कर्तारो वचनं तव ।
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १५ ॥
अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ १६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे 'शिवस्तुतिवर्णनं' नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-32

कोई टिप्पणी नहीं:

123