श्रीलिङ्गमहापुराण -[पूर्वभाग] -034

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -034

॥ श्रीसाम्बसदाशिवाय नमः ॥
चौंतीसवाँ अध्याय
भगवान् शिव द्वारा भस्म, भस्मस्नान एवं शिवयोगियों की महिमा का प्रतिपादन

श्रीलिङ्गमहापुराणे पूर्वभागे चतुस्त्रिंशोऽध्यायः

योगिप्रशंसा
॥ श्रीभगवानुवाच ॥

एतद्वः सम्प्रवक्ष्यामि कथा सर्वस्वमद्य वै ।
अग्निर्ह्यहं सोमकर्ता सोमश्चाग्निमुपाश्रितः ॥ १ ॥
कृतमेतद्वहत्यग्निर्भूयो लोकसमाश्रयात् ।
असकृत्त्वग्निना दग्धं जगत्स्थावरजङ्गमम् ॥ २ ॥


भस्मसाद्विहितं सर्वं पवित्रमिदमुत्तमम् ।
भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति ॥ ३ ॥
अग्निकार्यं च यः कृत्वा करिष्यति त्रियायुषम् ।
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः ॥ ४ ॥
भासत इत्येव यद्भस्म शुभं भावयते च यत् ।
भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् ॥ ५ ॥
ऊष्मपाः पितरो ज्ञेया देवा वै सोमसम्भवाः ।
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ ६ ॥
अहमग्निर्महातेजाः सोमश्चैषा महाम्बिका ।
अहमग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम् ॥ ७ ॥
तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते ।
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः ॥ ८ ॥
तदाप्रभृति लोकेषु रक्षार्थमशुभेषु च ।
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च ॥ ९ ॥
भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः ।
मत्समीपं समागम्य न भूयो विनिवर्तते ॥ १० ॥
व्रतं पाशुपतं योगं कापिलं चैव निर्मितम् ।
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम् ॥ ११ ॥
शेषाश्चाश्रमिणः सर्वे पश्चात् सृष्टाः स्वयम्भुवा ।
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका ॥ १२ ॥
नग्ना एव हि जायन्ते देवता मुनयस्तथा ।
ये चान्ये मानवा लोके सर्वे जायन्त्यवाससः ॥ १३ ॥
इन्द्रियैरजितैर्नग्नो दुकूलेनापि संवृतः ।
तैरेव संवृतैर्गुप्तो न वस्त्रं कारणं स्मृतम् ॥ १४ ॥
क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः ।
तुल्यौ मानावमानौ च तदावरणमुत्तमम् ॥ १५ ॥
भस्मस्नानेन दिग्धाङ्गो ध्यायते मनसा भवम् ।
यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ॥ १६ ॥
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ।
तस्माद्यत्नपरो भूत्वा त्रिकालमपि यः सदा ॥ १७ ॥
भस्मना कुरुते स्नानं गाणपत्यं स गच्छति ।
समाहृत्य क्रतून् सर्वान् गृहीत्वा व्रतमुत्तमम् ॥ १८ ॥
ध्यायन्ति ये महादेवं लीलासद्भावभाविताः ।
उत्तरेणार्यपन्थानं तेऽमृतत्वमवाप्नुयुः ॥ १९ ॥
दक्षिणेन च पन्थानं ये श्मशानानि भेजिरे ।
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च ॥ २० ॥
इच्छा कामावसायित्वं तथा प्राकाम्यमेव च ।
ईशित्वं च वशित्वं च अमरत्वं च ते गताः ॥ २१ ॥
इन्द्रादयस्तथा देवाः कामिकव्रतमास्थिताः ।
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः ॥ २२ ॥
व्यपगतमदमोहमुक्तरागस्तमरजदोषविवर्जितस्वभावः ।
परिभवमिदमुत्तमं विदित्वा पशुपतियोगपरो भवेत्सदैव ॥ २३ ॥
इमं पाशुपतं ध्यायन् सर्वपापप्रणाशनम् ।
यः पठेच्च शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः ॥ २४ ॥
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ।
ते सर्वे मुनयः श्रुत्वा वसिष्ठाद्या द्विजोत्तमाः ॥ २५ ॥
भस्मपाण्डुरदिग्धाङ्गा बभूवुर्विगतस्पृहाः ।
रुद्रलोकाय कल्पान्ते संस्थिताः शिवतेजसा ॥ २६ ॥
तस्मान्न निन्द्याः पूज्याश्च विकृता मलिना अपि ।
रूपान्विताश्च विप्रेन्द्राः सदा योगीन्द्रशङ्कया ॥ २७ ॥
बहुना किं प्रलापेन भवभक्ता द्विजोत्तमाः ।
सम्पूज्याः सर्वयत्नेन शिववन्नात्र संशयः ॥ २८ ॥
मलिनाश्चैव विप्रेन्द्रा भवभक्ता दृढव्रताः ।
दधीचस्तु यथा देव देवं जित्वा व्यवस्थितः ॥ २९ ॥
नारायणं तथा लोके रुद्रभक्त्या न संशयः ।
तस्मात् सर्वप्रयत्नेन भस्मदिग्धतनूरुहाः ॥ ३० ॥
जटिनो मुण्डिनश्चैव नग्ना नानाप्रकारिणः ।
सम्पूज्याः शिववन्नित्यं मनसा कर्मणा गिरा ॥ ३१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे योगिप्रशंसा नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-34

कोई टिप्पणी नहीं:

123