श्रीलिङ्गमहापुराण -[पूर्वभाग] -033

श्रीलिङ्गमहापुराण -[पूर्वभाग] -033
॥ श्रीसाम्बसदाशिवाय नमः ॥
तैंतीसवाँ अध्याय
मुनियों को शिवभक्ति का उपदेश

श्रीलिङ्गमहापुराणे पूर्वभागे त्रयस्त्रिंशोऽध्यायः

ऋषिवाक्यं
॥ नन्द्युवाच ॥

ततस्तुतोष भगवाननुगृह्य महेश्वरः ।
स्तुतिं श्रुत्वा स्तुतस्तेषामिदं वचनमब्रवीत् ॥ १ ॥
यः पठेच्छृणुयाद्वापि युष्माभिः कीर्तितं स्तवम् ।
श्रावयेद्वा द्विजान् विप्रो गाणपत्यमवाप्नुयात् ॥ २ ॥


वक्ष्यामि वो हितं पुण्यं भक्तानां मुनिपुङ्गवाः ।
स्त्रीलिङ्गमखिलं देवी प्रकृतिर्मम देहजा ॥ ३ ॥
पुंल्लिङ्गं पुरुषो विप्रा मम देहसमुद्भवः ।
उभाभ्यामेव वै सृष्टिर्मम विप्रा न संशयः ॥ ४ ॥
न निन्देद्यतिनं तस्माद्दिग्वाससमनुत्तमम् ।
बालोन्मत्तविचेष्टं तु मत्परं ब्रह्मवादिनम् ॥ ५ ॥
ये हि मां भस्मनिरता भस्मना दग्धकिल्बिषाः ।
यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः ॥ ६ ॥
महादेवपरा नित्यं चरन्तो ह्यूर्ध्वरेतसः ।
अर्चयन्ति महादेवं वाङ्मनःकायसंयताः ॥ ७ ॥
रुद्रलोकमनुप्राप्य न निवर्तन्ति ते पुनः ।
तस्मादेतद् व्रतं दिव्यमव्यक्तं व्यक्तलिङ्गिनः ॥ ८ ॥
भस्मव्रताश्च मुण्डाश्च व्रतिनो विश्वरूपिणः ।
न तान् परिवदेद्विद्वान्न चैतान्नाभिलङ्घयेत् ॥ ९ ॥
न हसेन्नाप्रियं ब्रूयादमुत्रेह हितार्थवान् ।
यस्तान्निन्दति मूढात्मा महादेवं स निन्दति ॥ १० ॥
यस्त्वेतान् पूजयेन्नित्यं स पूजयति शङ्करम् ।
एवमेष महादेवो लोकानां हितकाम्यया ॥ ११ ॥
युगे युगे महायोगी क्रीडते भस्मगुण्ठितः ।
एवं चरत भद्रं वस्ततः सिद्धिमवाप्स्यथ ॥ १२ ॥
अतुलमिह महाभयप्रणाशहेतुं शिवकथितं परमं पदं विदित्वा ।
व्यपगतभवलोभमोहचित्ताः प्रणिपतिताः सहसा शिरोभिरुग्रम् ॥ १३ ॥
ततः प्रमुदिता विप्राः श्रुत्वैवं कथितं तदा ।
गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः ॥ १४ ॥
स्नापयन्ति महाकुम्भैरद्भिरेव महेश्वरम् ।
गायन्ति विविधैर्गुह्यैर्हुंकारैश्चापि सुस्वरैः ॥ १५ ॥
नमो देवाधिदेवाय महादेवाय वै नमः ।
अर्धनारीशरीराय सांख्ययोगप्रवर्तिने ॥ १६ ॥
मेघवाहनकृष्णाय गजचर्मनिवासिने ।
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥ १७ ॥
सुरचितसुविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् ।
मृगपतिवरचर्मवाससे च प्रथितयशसे नमोऽस्तु शङ्कराय ॥ १८ ॥
ततस्तान् स मुनीन् प्रीतः प्रत्युवाच महेश्वरः ।
प्रीतोऽस्मि तपसा युष्मान् वरं वृणुत सुव्रताः ॥ १९ ॥
ततस्ते मुनयः सर्वे प्रणिपत्य महेश्वरम् ।
भृग्वङ्गिरा वसिष्ठश्च विश्वामित्रस्तथैव च ॥ २० ॥
गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिः कश्यपः कण्वः संवर्तश्च महातपाः ॥ २१ ॥
ते प्रणम्य महादेवमिदं वचनमब्रुवन् ।
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता ॥ २२ ॥
सेव्यासेव्यत्वमेवं च ह्येतदिच्छाम वेदितुम् ।
ततस्तेषां वचः श्रुत्वा भगवान् परमेश्वरः ॥ २३ ॥
सस्मितं प्राह सम्प्रेक्ष्य सर्वान् मुनिवरांस्तदा ॥ २४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ऋषिवाक्यं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-33

कोई टिप्पणी नहीं:

123