श्रीलिङ्गमहापुराण -[पूर्वभाग] -031
॥ श्रीसाम्बसदाशिवाय नमः ॥
इकतीसवाँ अध्याय
देवदारुवन निवासी मुनिगणों द्वारा शिवाराधना
श्रीलिङ्गमहापुराणे पूर्वभागे एकत्रिंशोऽध्यायः
मुनिकृतं शिवस्तोत्रवर्णनं
॥ सनत्कुमार उवाच ॥
कथं भवप्रसादेन देवदारुवनौकसः ।
प्रपन्नाः शरणं देवं वक्तुमर्हसि मे प्रभो ॥ १ ॥
॥ शैलादिरुवाच ॥
तानुवाच महाभागान् भगवानात्मभूः स्वयम् ।
देवदारुवनस्थांस्तु तपसा पावकप्रभान् ॥ २ ॥
॥ पितामह उवाच ॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्मात्परमं किञ्चित्पदं समधिगम्यते ॥ ३ ॥
देवानां च ऋषीनां च पितॄणां चैव स प्रभुः ।
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनः ॥ ४ ॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ॥ ५ ॥
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ।
योगी कृतयुगे चैव त्रेतायां क्रतुरुच्यते ॥ ६ ॥
द्वापरे चैव कालाग्निर्धर्मकेतुः कलौ स्मृतः ।
रुद्रस्य मूर्तयस्त्वेता येऽभिध्यायन्ति पण्डिताः ॥ ७ ॥
चतुरस्रं बहिश्चान्तरष्टास्रं पिण्डिकाश्रये ।
वृत्तं सुदर्शनं योग्यमेवं लिङ्गं प्रपूजयेत् ॥ ८ ॥
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकम् ।
मूर्तिरेका स्थिता चास्य मूर्तयः परिकीर्तिताः ॥ ९ ॥
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ।
तस्माद्धि देवदेवेशमीशानं प्रभुमव्ययम् ॥ १० ॥
आराधयन्ति विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः ।
लिङ्गं कृत्वा यथान्यायं सर्वलक्षणसंयुतम् ॥ ११ ॥
अङ्गुष्ठमात्रं सुशुभं सुवृत्तं सर्वसम्मतम् ।
समनाभं तथाष्टास्रं षोडशास्रमथापि वा ॥ १२ ॥
सुवृत्तं मण्डलं दिव्यं सर्वकामफलप्रदम् ।
वेदिका द्विगुणा तस्य समा वा सर्वसम्मता ॥ १३ ॥
गोमुखी च त्रिभागैका वेद्या लक्षणसंयुता ।
पट्टिका च समन्ताद्वै यवमात्रा द्विजोत्तमाः ॥ १४ ॥
सौवर्णं राजतं शैलं कृत्वा ताम्रमयं तथा ।
वेदिकायाश्च विस्तारं त्रिगुणं वै समन्ततः ॥ १५ ॥
वर्तुलं चतुरस्रं वा षडस्रं वा त्रिरस्रकम् ।
समन्तान्निर्व्रणं शुभ्रं लक्षणैस्तत् सुलक्षितम् ॥ १६ ॥
प्रतिष्ठाप्य यथान्यायं पूजालक्षणसंयुतम् ।
कलशं स्थापयेत्तस्य वेदिमध्ये तथा द्विजाः ॥ १७ ॥
सहिरण्यं सबीजं च ब्रह्मभिश्चाभिमन्त्रितम् ।
सेचयेच्च ततो लिङ्गं पवित्रैः पञ्चभिः शुभैः ॥ १८ ॥
पूजयेच्च यथालाभं ततः सिद्धिमवाप्स्यथ ।
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ॥ १९ ॥
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यत ।
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ॥ २० ॥
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ।
ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् ॥ २१ ॥
सम्प्रस्थिता वनौकास्ते देवदारुवनं ततः ।
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ॥ २२ ॥
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ २३ ॥
शैवालशोभनाः केचित् केचिदन्तर्जलेशयाः ।
केचिद् दर्भावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः ॥ २४ ॥
दन्तोलूखलिनस्त्वन्ये अश्मकुट्टास्तथा परे ।
स्थानवीरासनास्त्वन्ये मृगचर्यारताः परे ॥ २५ ॥
कालं नयन्ति तपसा पूजया च महाधियः ।
एवं संवत्सरे पूर्णे वसन्ते समुपस्थिते ॥ २६ ॥
ततस्तेषां प्रसादार्थं भक्तानामनुकम्पया ।
देवः कृतयुगे तस्मिन् गिरौ हिमवतः शुभे ॥ २७ ॥
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ।
भस्मपांसूपदिग्धाङ्गो नग्नो विकृतलक्षणः ॥ २८ ॥
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ।
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ॥ २९ ॥
क्वचिन्नृत्यति शृङ्गारं क्वचिद्रौति मुहुर्मुहुः ।
आश्रमे ह्यटते भैक्ष्यं याचते च पुनः पुनः ॥ ३० ॥
मायां कृत्वा तथारूपां देवस्तद्वनमागतः ।
ततस्ते मुनयः सर्वे तुष्टुवुश्च समाहिताः ॥ ३१ ॥
अद्भिर्विविधमाल्यैश्च धूपैर्गन्धैस्तथैव च ।
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः ॥ ३२ ॥
मुनयस्ते तथा वाग्भिरीश्वरं चेदमब्रुवन् ।
अज्ञानाद्देवदेवेश यदस्माभिरनुष्ठितम् ॥ ३३ ॥
कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि ।
चरितानि विचित्राणि गुह्यानि गहनानि च ॥ ३४ ॥
ब्रह्मादीनां च देवानां दुर्विज्ञेयानि ते हर ।
अगतिं ते न जानीमो गतिं नैव च नैव च ॥ ३५ ॥
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम् ॥ ३६ ॥
नमो भवाय भव्याय भावनायोद्भवाय च ।
अनन्तबलवीर्याय भूतानां पतये नमः ॥ ३७ ॥
संहर्त्रे च पिशङ्गाय अव्ययाय व्ययाय च ।
गङ्गासलिलधाराय आधाराय गुणात्मने ॥ ३८ ॥
त्र्यम्बकाय त्रिनेत्राय त्रिशूलवरधारिणे ।
कन्दर्पाय हुताशाय नमोऽस्तु परमात्मने ॥ ३९ ॥
शङ्कराय वृषाङ्काय गणानां पतये नमः ।
दण्डहस्ताय कालाय पाशहस्ताय वै नमः ॥ ४० ॥
वेदमन्त्रप्रधानाय शतजिह्वाय वै नमः ।
भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत् ॥ ४१ ॥
तव देहात्समुत्पन्नं देव सर्वमिदं जगत् ।
पासि हंसि च भद्रं ते प्रसीद भगवंस्ततः ॥ ४२ ॥
अज्ञानाद्यदि विज्ञानाद्यत्किञ्चित् कुरुते नरः ।
तत्सर्वं भगवानेव कुरुते योगमायया ॥ ४३ ॥
एवं स्तुत्वा तु मुनयः प्रहृष्टैरन्तरात्मभिः ।
याचन्त तपसा युक्ताः पश्यामस्त्वां यथा पुरा ॥ ४४ ॥
ततो देवः प्रसन्नात्मा स्वमेवास्थाय शङ्करः ।
रूपं त्र्यक्षं च संद्रष्टुं दिव्यं चक्षुरदात् प्रभुः ॥ ४५ ॥
लब्धदृष्ट्या तया दृष्ट्वा देवदेवं त्रियम्बकम् ।
पुनस्तुष्टुवुरीशानं देवदारुवनौकसः ॥ ४६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे मुनिकृतं
शिवस्तोत्रवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें