श्रीलिङ्गमहापुराण -[पूर्वभाग] -030
॥ श्रीसाम्बसदाशिवाय नमः ॥
तीसवाँ अध्याय
शिवाराधना के माहात्म्य में श्वेतमुनि का आख्यान
श्रीलिङ्गमहापुराणे पूर्वभागे त्रिंशोऽध्यायः
शिवाराधनमहिमवर्णनं
॥ शैलादिरुवाच ॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्राह्मणर्षभाः ।
श्वेतस्य च कथां पुण्यामपृच्छन् परमर्षयः ॥ १ ॥
॥ पितामह उवाच ॥
श्वेतो नाम मुनिः श्रीमान् गतायुर्गिरिगह्वरे ।
सक्तो ह्यभ्यर्च्य यद्भक्त्या तुष्टाव च महेश्वरम् ॥ २ ॥
रुद्राध्यायेन पुण्येन नमस्तेत्यादिना द्विजाः ।
ततः कालो महातेजाः कालप्राप्तं द्विजोत्तमम् ॥ ३ ॥
नेतुं सञ्चिन्त्य विप्रेन्द्राः सान्निध्यमकरोन्मुनेः ।
श्वेतोऽपि दृष्ट्वा तं कालं कालप्राप्तोऽपि शङ्करम् ॥ ४ ॥
पूजयामास पुण्यात्मा त्रियम्बकमनुस्मरन् ।
त्रियम्बकं यजेदेवं सुगन्धिं पुष्टिवर्धनम् ॥ ५ ॥
किं करिष्यति मे मृत्युर्मृत्योर्मृत्युरहं यतः ।
तं दृष्ट्वा सस्मितं प्राह श्वेतं लोकभङ्यकरः ॥ ६ ॥
एह्येहि श्वेत चानेन विधिना किं फलं तव ।
रुद्रो वा भगवान् विष्णुर्ब्रह्मा वा जगदीश्वरः ॥ ७ ॥
कः समर्थः परित्रातुं मया ग्रस्तं द्विजोत्तम ।
अनेन मम किं विप्र रौद्रेण विधिना प्रभोः ॥ ८ ॥
नेतुं यस्योत्थितश्चाहं यमलोकं क्षणेन वै ।
यस्माद्गतायुस्त्वं तस्मान्मुने नेतुमिहोद्यतः ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा भैरवं धर्ममिश्रितम् ।
हा रुद्र रुद्र रुद्रेति ललाप मुनिपुङ्गवः ॥ १० ॥
तं प्राह च महादेवं कालं सम्प्रेक्ष्य वै दृशा ।
नेत्रेण बाष्पमिश्रेण सम्भ्रान्तेन समाकुलः ॥ ११ ॥
॥ श्वेत उवाच ॥
त्वया किं काल नो नाथश्चास्ति चेद्धि वृषध्वजः ।
लिङ्गेऽस्मिन् शङ्करो रुद्रः सर्वदेवभवोद्भवः ॥ १२ ॥
अतीव भवभक्तानां मद्विधानां महात्मनाम् ।
विधिना किं महाबाहो गच्छ गच्छ यथागतम् ॥ १३ ॥
ततो निशम्य कुपितस्तीक्ष्णदंष्ट्रो भयङ्करः ।
श्रुत्वा श्वेतस्य तद्वाक्यं पाशहस्तो भयावहः ॥ १४ ॥
सिंहनादं महत् कृत्वा चास्फाट्य च मुहुर्मुहुः ।
बबन्ध च मुनिं कालः कालप्राप्तं तमाह च ॥ १५ ॥
मया बद्धोऽसि विप्रर्षे श्वेतं नेतुं यमालयम् ।
अद्य वै देवदेवेन तव रुद्रेण किं कृतम् ॥ १६ ॥
क्व शर्वस्तव भक्तिश्च क्व पूजा पूजया फलम् ।
क्व चाहं क्व च मे भीतिः श्वेत बद्धोऽसि वै मया ॥ १७ ॥
लिङ्गेऽस्मिन् संस्थितः श्वेत तव रुद्रो महेश्वरः ।
निश्चेष्टोऽसौ महादेवः कथं पूज्यो महेश्वरः ॥ १८ ॥
ततः सदाशिवः स्वयं द्विजं निहन्तुमागतम् ।
निहन्तुमन्तकं स्मयन् स्मरारि यज्ञहा हरः ॥ १९ ॥
त्वरन् विनिर्गतः परः शिवः स्वयं त्रिलोचनः ।
त्रियम्बकोऽम्बया समं सनन्दिना गणेश्वरैः ॥ २० ॥
ससर्ज जीवितं क्षणाद्भवं निरीक्ष्य वै भयात् ।
पपात चाशु वै बली मुनेस्तु सन्निधौ द्विजाः ॥ २१ ॥
ननाद चोर्ध्वमुच्चधीर्निरीक्ष्य चान्तकान्तकम् ।
निरीक्षणेन वै मृतं भवस्य विप्रपुङ्गवाः ॥ २२ ॥
विनेदुरुच्चमीश्वराः सुरेश्वरा महेश्वरम् ।
प्रणेमुरम्बिकामुमां मुनीश्वरास्तु हर्षिताः ॥ २३ ॥
ससर्जुरस्य मूर्ध्नि वै मुनेर्भवस्य खेचराः ।
सुशोभनं सुशीतलं सुपुष्पवर्षमम्बरात् ॥ २४ ॥
अहो निरीक्ष्य चान्तकं मृतं तदा सुविस्मितः ।
शिलाशनात्मजोऽव्ययं शिवं प्रणम्य शङ्करम् ॥ २५ ॥
उवाच बालधीर्मृतः प्रसीद चेति वै मुनेः ।
महेश्वरं महेश्वरस्य चानुगो गणेश्वरः ॥ २६ ॥
ततो विवेश भगवाननुगृह्य द्विजोत्तमम् ।
क्षणाद् गूढशरीरं हि ध्वस्तं दृष्ट्वान्तकं क्षणात् ॥ २७ ॥
तस्मान् मृत्युञ्जयं चैव भक्त्या सम्पूजये द्विजाः ।
मुक्तिदं भुक्तिदं चैव सर्वेषामपि शङ्करम् ॥ २८ ॥
बहुना किं प्रलापेन संन्यस्याभ्यर्च्य वै भवम् ।
भक्त्या चापरया तस्मिन् विशोका वै भविष्यथ ॥ २९ ॥
॥ शैलादिरुवाच ॥
एवमुक्तास्तदा तेन ब्रह्मणा ब्रह्मवादिनः ।
प्रसीद भक्तिर्देवेशे भवेद्रुद्रे पिनाकिनि ॥ ३० ॥
केन वा तपसा देव यज्ञेनाप्यथ केन वा ।
व्रतैर्वा भगवद्भक्ता भविष्यन्ति द्विजातयः ॥ ३१ ॥
॥ पितामह उवाच ॥
न दानेन मुनिश्रेष्ठास्तपसा च न विद्यया ।
यज्ञैर्होमैर्व्रतैर्वेदैर्योगशास्त्रैर्निरोधनैः ॥ ३२ ॥
प्रसादे नैव सा भक्तिः शिवे परमकारणे ।
अथ तस्य वचः श्रुत्वा सर्वे ते परमर्षयः ॥ ३३ ॥
सदारतनयाः श्रान्ताः प्रणेमुश्च पितामहम् ।
तस्मात् पाशुपती भक्तिर्धर्मकामार्थसिद्धिदा ॥ ३४ ॥
मुनेर्विजयदा चैव सर्वमृत्युजयप्रदा ।
दधीचस्तु पुरा भक्त्या हरिं जित्वामरैर्विभुम् ॥ ३५ ॥
क्षुपं जघान पादेन वज्रास्थित्वं च लब्धवान् ।
मयापि निर्जितो मृत्युर्महादेवस्य कीर्तनात् ॥ ३६ ॥
श्वेतेनापि गतेनास्यं मृत्योर्मुनिवरेण तु ।
महादेवप्रसादेन जितो मृत्युर्यथा मया ॥ ३७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवाराधनमहिमवर्णनं
नाम त्रिंशोऽध्यायः ॥ ३० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें