श्रीगणेशपुराणे क्रीडाखण्डे द्वादशोऽध्यायः
निशाचरवधो
॥ ब्रह्मोवाच ॥
ततस्तु सप्तमे वर्षे प्रवृत्तेऽसौ विनायकः ।
स्नात्वा नित्यविधिं कृत्वा मुकुटभ्राजि मस्तकः ॥ १ ॥
आयुधानि च चत्वारि सिंहारूढो दधार सः ।
अङ्कुशं परशुं पद्मं पाशं सर्वभयापहम् ॥ २ ॥
दण्डाजिने कुण्डले च काञ्चने रत्नसंयुते ।
बिभ्रत् कमण्डलुं दर्भान् कौशेयं पीतमुत्तमम् ॥ ३ ॥
कस्तूरीतिलकं चन्द्रं ललाटे क्षीणतेजसम् ।
मुक्ताफलमयीं मालां कण्ठे नाभौ फणीश्वरम् ॥ ४ ॥
रोदसी कम्पयन्नुच्चैर्जगर्जाऽसौ स्वलीलया ।
मेघस्वन इति भ्रान्त्या चातका व्याददुर्मुखम् ॥ ५ ॥
उत्छलन्त्यो महानद्यः सिषिचुर्व्योममण्डलम् ।
तदाननन्दतुरुभावदितिः कश्यपोऽपि च ॥ ६ ॥
धन्या वयं पूर्वजा न इत्यात्मानं प्रशंसतुः ।
एतस्मिन्समये काशीराजोऽप्याश्रममभ्यगात् ॥ ७ ॥
परस्परालिङ्गनेन मुमुदुस्तेऽखिलास्तदा ।
न्यविशन्ताऽऽसने सर्वे नमस्कृत्य परस्परम् ॥ ८ ॥
स्वाद्वन्नं भोजयामास मुनिस्तं षड्रसैर्नृपम् ।
विश्रान्तं परिपप्रच्छ किमागमनकारणम् ॥ ९ ॥
श्रीमतां दर्शनं नोऽद्य जातं पुण्यवशान्नृप ।
पुरोहितस्य मे न त्वं वृत्तान्तं किं गृहीतवान् ॥ १० ॥
॥ ब्रह्मोवाच ॥
एवं मुनिवचः श्रुत्वा जगाद नृपसत्तमः ।
क्षमापराधं मे ब्रह्मन् राज्याकुलित चेतसः ॥ ११ ॥
पुत्रस्य मे विवाहोऽस्ति त्वामाकारयितुं प्रभो ।
आगतोऽहं मुने जातः कृतार्थस्तव दर्शनात् ॥ १२ ॥
चल शीघ्र विवाहं त्वं सम्पाद्य पुनरेव हि ।
न श्लाघ्यो लोकवर्येषु विना चैवागमं तव ॥ १३ ॥
अहमेव समायातोऽतस्त्वां नेतुं महामुने ।
॥ मुनिरुवाच ॥
नाहमेष्ये नृपश्रेष्ठ चातुर्मास्यरतोऽधुना ॥ १४ ॥
पुत्रं नय समर्थं मे यदीच्छसि जनाधिप ।
॥ राजोवाच ॥
पुत्रामाज्ञापय मुने गमिष्यावो जवान्वितौ ॥ १५ ॥
एवं नृपवचः श्रुत्वा मुनिः पुत्रमथाब्रवीत् ।
वचोऽनुरोधाद्राज्ञोऽस्य प्रेषये त्वां विनायक ॥ १६ ॥
विद्यमानेतु महति दुःखे विरहजे तव ।
धृत्वाज्ञां शिरसा वन्द्य चरणावुभयोरपि ॥ १७ ॥
मातापित्रोर्बहिरगाद् राज्ञा चारोऽपितो रथे ।
सोऽपि नत्वा तयोः पादौ स्वयमारुरुहे रथम् ॥ १८ ॥
आजगामादितिस्तं च प्रावदन् नृपसत्तमम् ।
अयं मे बालको राजन् रक्षणीयो निरन्तरम् ॥ १९ ॥
उत्पातो जायते तत्र यत्र मे बालको भवेत् ।
अतोऽयं यत्नतो रक्ष्यः पक्ष्मणीव कनीनिकाम् ॥ २० ॥
यथा नयसि पुत्रं मे तथाऽत्र त्वं समानय ।
ओमित्युक्त्वाऽदितिं राजा प्रणिपत्य विसृज्य ताम् ॥ २१ ॥
सह तेन ययौ शीघ्रं रथेनाऽनिलरं हसा ।
गच्छता रथमार्गेण राज्ञा प्राप्ता महाटवी ॥ २२ ॥
नरान्तक पितृव्यस्य स्थानं तच्चातिसुन्दरम् ।
रौद्रकेतोर्बली भ्राता धूम्राक्षो नाम नामतः ॥ २३ ॥
दशवर्षसहस्रं स तरस्तेपे सुदारुणम् ।
सहस्रकिरणं नित्यं नित्यमाराधयन्मुदा ॥ २४ ॥
प्रार्थयन् सर्वसंहारकरमायुधमुत्तमम् ।
त्रयाणां भुवनानां स इच्छन् वश्यत्वमात्मनः ॥ २५ ॥
वृक्षस्कन्धालम्बिपादोऽधोमुखो धूममापिबन् ।
एवं बहुगते कालेऽमोघं शस्त्रमुपस्थितम् ॥ २६ ॥
प्रेषितं भानुना तस्मै राक्षसाय तपस्यते ।
व्योमव्यापी यस्य तेजो ददर्श स विनायकः ॥ २७ ॥
शीघ्रमुड्डीय जग्राह गरुत्मानिव पन्नगम् ।
तदा विस्मयमापेदे काशिराजो महामनाः ॥ २८ ॥
तर्कयामास मनसि लाभे हानौ च जीवने ।
नास्ति दैवातिरेकेण निमित्तं भुवनत्रये ॥ २९ ॥
मम नैवाऽभवत्प्राप्तिः सहसा तस्य तस्य या ।
ज्ञातुं तदस्त्रसामर्थ्यं तोलयित्वाऽक्षिपच्च सः ॥ ३० ॥
ऊर्ध्वं गतं तदैवाशु रवं कृत्वा भयानकम् ।
धूम्राक्षे पतितं तत्तु स तदैव द्विधाऽभवत् ॥ ३१ ॥
गण्डशैला द्रुमास्ताभ्यां खण्डाभ्यां चूर्णिता भृशम् ।
धनुः पञ्चशतं पृथ्वी पतद्भ्यां व्यापिता तदा ॥ ३२ ॥
ततस्तस्य सुतौ ख्यातौ जघनो मनुरेव च ।
शुश्रूषायां रतौ तस्य पितरं वीक्ष्य तादृशम् ॥ ३३ ॥
क्रोधाविष्टौ ददृशतुस्तं विनायकमन्तिके ।
दुद्रुवतुः प्रसार्यैवं वक्त्रं कालान्तकोपमम् ॥ ३४ ॥
बटुमानीय पितरं कथं घातितवानसि ।
इत्यूचतुः काशिराजं रोषाविष्टौ निशाचरौ ॥ ३५ ॥
रक्षितोऽसि पुरा पित्रा मम पूर्वं नरान्तकात् ।
तं मारयित्वा यत्नेन कथं जीवसि रे नृप ॥ ३६ ॥
॥ ब्रह्मोवाच ॥
इत्याकर्ण्य नृपो वाक्यं च कम्पे भृशविह्वलः ।
तर्कयामास मनसि कथमानीतवानहम् ॥ ३७ ॥
नन्दन कश्यपस्यैनमपस्मारमिव स्थितम् ।
क्रुद्धो नरान्तकश्चेन्मे बलाद् राज्यं ग्रहीष्यति ॥ ३८ ॥
तदा मे रक्षिता कः स्यात् ततः शपथमारभत् ।
॥ नृप उवाच ॥
एतदर्थं मयाऽनीतो नैवायमर्भकः क्वचित् ॥ ३९ ॥
ब्राह्मणेश्वरयोरत्र शपथो मे निशाचरौ ।
पुरोहितस्य पुत्रोऽयं विवाहार्थं समाहृतः ॥ ४० ॥
न विघ्नं कुरुतं तत्र नीयतां बालकोह्ययम् ।
इत्यस्य वचन्ताते स मुनिपुत्रो जगाद तम् ॥ ४१ ॥
कथं बद्ध्वा शत्रुहस्ते शिशुं मां त्वं प्रयच्छसि ।
अदितिं कश्यपं वापि वदिष्यसि किमुत्तरम् ॥ ४२ ॥
क्रुद्धश्चेत् कश्यपस्त्वां हि कुर्याद्भस्म न संशयः ।
एवं वदति तस्मिन्स्तु बालके मुनिनन्दने ॥ ४३ ॥
भक्षितुं तं समायातौ बिडालौ मूषकं यथा ।
प्रसार्य वदनं बालो घोरं शब्दमथाकरोत् ॥ ४४ ॥
च कम्पे च त्रिभुवनं तौ च निश्वासयोगतः ।
सम्प्राप्तौ मेघपटलं वात्ययैव यथा तृणम् ॥ ४५ ॥
मूहूर्त्तद्वितये जाते व्यस्तौ द्वौ तौ निपेततु ।
नरान्तकस्य नगरे जघनो मनुरेव च ॥ ४६ ॥
गिरिशीर्षे गण्डशैलौ महावातेरितौ यथा ।
पतद्भ्यां तच्छरीराभ्यां चूर्णितानि गृहाणि च ॥ ४७ ॥
मुखहस्तरवा आसन् हाहाकारो महानभूत् ।
किमिदं किमिदं दूता धावमाना ययुस्तदा ॥ ४८ ॥
मृतौ धूम्राक्षतनयौ श्रुत्वा सम्यग् व्यलोकयन् ।
सचेतनौ च तौ दृष्ट्वा सावधानावकुर्वत ॥ ४९ ॥
दूताँस्तां वूचतुः सर्वं वृत्तान्तमनुपूर्वशः ।
वधं पितुः काश्यपेयात् तस्य श्वासान्निपातनम् ॥ ५० ॥
स गच्छति स्यन्दनेन काशीराजेन संयुतः ।
एवं दूता निशम्यैनं नरान्तकमथाब्रुवन् ॥ ५१ ॥
पितृव्यं निहतं श्रुत्वा सापराधं नरान्तकः ।
ऋषिपुत्रं तथा यान्तं काशीराजेन संयुतम् ॥ ५२ ॥
क्रोधेनारक्तनयनः पुरः पश्यन्निशाचरान् ।
अज्ञापयात् तमानेतुं सहस्रप्रमितांस्तदा ॥ ५३ ॥
धृत्वाऽनेयो मुनेः पुत्रो युद्धकृच्चेत् स हन्यताम् ।
काशीराजरथो वापि शीघ्रं गच्छन्तु राक्षसाः ॥ ५४ ॥
आज्ञामात्रेण ते जग्मुस्त्वरया वातरंहसः ।
काश्यपेयं च नृपतिं ददृशस्ते च तौ च तान् ॥ ५५ ॥
ततो विनायकश्चक्रे भीमशब्दं भयावहम् ।
ततो निशाचराः पेतुस्त्यक्त्वा प्राणांस्तु केचन ॥ ५६ ॥
केचित् पलायिताः केचिद् भग्नपादाः प्रपेदिरे ।
केषाच्चिन् मस्तका भिन्नाः केचिच्छीर्णोदराः शरैः ॥ ५७ ॥
भग्नास्या भग्ननेत्राश्च भग्नोरुबाहवः परे ।
प्रपलाय्य गता ये तु ह्यागतास्ते नरान्तकम् ।
उदन्त सर्वमाचख्युर्विनायककृतं तदा ॥ ५८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते निशाचरवधो नाम द्वादशोऽध्यायः ॥ १२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें