श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशोऽध्यायः
बालचरितं

॥ दूता ऊचुः ॥

विनायकं रथस्थं तमाज्ञां प्राप्य गता वयम् ।
सर्वैरेव तदा दृष्टः कृतान्तसदृशस्तु सः ॥ १ ॥
सर्वे निशाचराः स्वामिन् मृतास्तद्भीतितोऽनघ ।
वयं तव प्रसादेन जीवन्तस्त्वां समागताः ॥ २ ॥


ईश्वरीय कृपायोगात् सिंहवृन्दाद् गजा इव ।
त्रैलोक्ये तु पुमान् नास्ति यो युध्येत् सह तेन वै ॥ ३ ॥
॥ ब्रह्मोवाच ॥
इत्थं निशम्य तद्वाक्यं जगदे स नरान्तकः ।
किं वा वदथ बालिश्यात् क्व बालः क्व नरान्तकः ॥ ४ ॥
किं कर्तव्यं पतङ्गेन प्रलयानलसन्निधौ ।
मेरुगिरिः पतेत् किं वा खनता मूषकेन च ॥ ५ ॥
ततश्चाज्ञापद् दैत्यान् काशिराजपुरीं प्रति ।
लुण्ठनं तत्र कर्तव्यं येन व्यग्रो भवेन्नृपः ॥ ६ ॥
तस्मिन् व्यग्रे सोऽपि भवेत् कश्यपस्य सुतोऽपि च ।
नो चेदुभौ निहन्तव्यौ सर्वैः सर्वप्रयत्नतः ॥ ७ ॥
ततो ददौ महार्हाणि तेभ्यो रत्नान्यनेकशः ।
वस्त्राणि च विशिष्टानि शस्त्राणि विविधानि च ॥ ८ ॥
ते तं तदा नमस्कृत्य ययुः काशीशपत्तनम् ।
परस्परं समूचुस्ते दिक्चक्रं व्याप्य सेनया ॥ ९ ॥
तत्र योऽभून् महासेनानीरेवं सोऽदिशत् तदा ।
यस्य दृष्टिगतो दैत्याः स तु तेन निहन्यताम् ॥ १० ॥
अन्यथा मम दण्ड्यः स तस्याहं प्राणनाशकृत् ।
एवं तेन समादिष्टा दैत्या जग्मुर्दिशोदश ॥ ११ ॥
विनायकस्तेन राज्ञा रथस्थेन गतः पुरीम् ।
नानाध्वजपताकाभिश्चित्रितां रङ्गमालया ॥ १२ ॥
वाद्यैन्दुन्दुभिर्निर्घोषैः पूजाद्रव्यैरनेकधा ।
अमात्या नागराश्चैव प्रतिजग्मुर्विनायकम् ॥ १३ ॥
उपचारैः षोडशभिर्भक्त्या सर्वेऽप्यपूजयन् ।
राजानं च ततो जग्मुर्नगरीमन्तराऽखिलः ॥ १४ ॥
तस्मिन् प्रविष्टे प्रासादान् रुरुहुर्योषितोऽखिलाः ।
काश्चिद् द्रष्टुं बहिर्याता व्यस्तालङ्करणाम्बराः ॥ १५ ॥
अनादृतपितृभ्रातृभर्तृमातृ सुहृज्जनाः ।
त्यक्त्वा भोजनपात्रं च भुक्तवन्त पतिं च काः ॥ १६ ॥
एका निरुद्धा सर्वैः सा ध्यात्वा देवं विनायकम् ।
भक्त्या निमील्य नयने जहौ प्राणांस्तदद्भुतम् ॥ १७ ॥
लाजवर्षैः पुष्पवर्षैर्ववर्षुस्तं कुमारिकाः ।
विमानस्था देवगणा ददृशुस्तं महोत्सवम् ॥ १८ ॥
ब्राह्मणाः परमात्मानं पश्यन्ति स्म विनायकम् ।
क्षत्रियास्तं महावीरं पश्यन्ति स्मरणोत्सुकम् ॥ १९ ॥
वैश्यास्तं ददृशुः सर्वे रुद्रं संहारकारकम् ।
शूद्रास्तं हरिरूपेण नृपरूपेण चालुकन् ॥ २० ॥
यस्य यस्य यथा भावस्तादृशं सोऽभ्यवीक्षत ।
यथा रक्ते सिते पीते स्फटिकस्तादृशाकृतिः ॥ २१ ॥
एक एव पुमान् यद्वत् पिता भ्राता च श्यालकः ।
ततो विनायकोऽपश्यत् पुरमध्ये महासुरौ ॥ २२ ॥
विघण्टं दन्तुरं रन्तुं समाह्वयत सादरम् ।
तौ दैत्योर्दुष्टमनसौ बालकैः समुपागतौ ॥ २३ ॥
आलिङ्गितुं कृतोद्योगौ तेन ज्ञातौ दुराशयौ ।
आलिङ्ग्य चूर्णयामास पुष्पं हस्तगतं यथा ॥ २४ ॥
त्यक्तौ भूमिगतौ तौ तु रेजतुर्दशयोजनौ ।
काशिराजश्च लोकाश्च दृष्ट्वाऽश्चर्यं तु मेनिरे ॥ २५ ॥
मुमुचुः पुष्पवर्षाणि देवास्तस्मिन् नभोगताः ।
साधु साध्विति शब्दैश्च जयशब्दैश्च केचन ॥ २६ ॥
मुनयश्चैव देवाश्च तुष्टुवुस्तं विनायकम् ।
मायामानुषरूपेण चरन्तं बाललीलया ॥ २७ ॥
शक्रादीनामजेयौ यौ तावनेन हि चूर्णितौ ।
ततो वीथीरतिक्रम्य रथो यातोऽग्रतोऽग्रतः ॥ २८ ॥
ततोऽन्यावसुरौ दृष्टौ हन्तुमेनं समीयतुः ।
पतङ्गविधुलौ नाम्ना वात्यारुपौ महाबलौ ॥ २९ ॥
ततो व्याकुलितो लोको रजसाच्छादितोऽखिलः ।
प्रासादा वृक्षसङ्घाश्च पतिता वसुधातले ॥ ३० ॥
प्रावारनिचया भान्ति गगने पक्षिसन्निभाः ।
केषाच्चिन्मस्तकात् पेतुरुष्णिषाणि दिशो दश ॥ ३१ ॥
कोलाहलो महानासीन् न प्राज्ञायत किञ्चन ।
रथोऽपि गगनं गन्तुमुद्यतस्तम्भितोऽमुना ॥ ३२ ॥
निःसारमनुजाः पेतुः सद्योजाता इवाननीम् ।
ततोऽतिबलिनौ ज्ञात्वा दधार शिखयोरुभौ ॥ ३३ ॥
एकेन मुष्टिना देवो भ्रामयित्वा बलाच्चिरम् ।
तत्याज स धरापृष्ठे व्यसू तौ ददृशे जनः ॥ ३४ ॥
तर्कयामास देवोऽयं कश्यपस्य सुतो बली ।
यतोऽनेन हतावेतावसुरौ योजनायतौ ॥ ३५ ॥
अस्मिन् वयसि कस्यापि नेदृशं वीक्ष्यते बलम् ।
एतावद्दृष्टसामर्थ्यं काशिराजोऽप्यनन्दत ॥ ३६ ॥
अवप्लुत्य रथात् तस्मात् तं ननाम विनायकम् ।
उवाच च महायोगिन् बालस्यापि न ते कृतिः ॥ ३७ ॥
ब्रह्मादिज्ञानविषया कुतःस्याच्चर्मचक्षुषः ।
जगदुत्पादकोऽनेकरूपोऽस्यवनहेतवे ॥ ३८ ॥
न सङ्ख्या वर्तते स्वामिन्नवतारगता तव ।
ततोऽग्रतो रथो यातस्त्वरया नृपतेर्गृहम् ॥ ३९ ॥
ततो ददर्श बालोऽसौ दैत्यं पाषाणरूपिणम् ।
ततोऽहनत् परशुना शतधा सोऽभवत् तदा ॥ ४० ॥
तस्माद् विनिःसृतो भीमो दंष्ट्रादशनभासुरः ।
श्मश्रुलो दीर्घकायश्च पुरुषः पिङ्गलो महान् ॥ ४१ ॥
ततस्ते बालकाः सर्वे लोकाश्चान्येऽपि दुद्रुवुः ।
तं चापि न्यहनन् मुष्टया स चापि न्यपतद् भुवि ॥ ४२ ॥
असंमत जना बालं भगवन्तं धृताकृतिम् ।
ततो राजा हृष्टमना रथादुत्तीर्य बालकम् ॥ ४३ ॥
अन्तःप्रवेशयामास स्वयमादाय सत्वरम् ।
रत्नवर्णमये स्वीये आसने चोपवेश्य तम् ॥ ४४ ॥
उपचारैः षोडशभिः प्रपूज्य च यथाविधि ।
महार्हवस्त्राभरणैर्दिव्यैश्चैव सुगन्धिभिः ॥ ४५ ॥
परमाह्लाद संयुक्तस्तुष्टाव च ननाम च ।
अन्नं च षड्रसं नाना पक्वान्नं व्यञ्जनान्वितम् ॥ ४६ ॥
सुहृद्भिर्भोजयामास परमान्नमनेकधा ।
ततो नानाफलान्याशु ददौ तेभ्यो नराधिपः ॥ ४७ ॥
ततोऽष्टाङ्गं च ताम्बूलं रत्नकाञ्चनसंयुतम् ।
ततः स्वयं बुभोजाशु शिशुभिः परिवारितः ॥ ४८ ॥
ततः प्रस्वापयामास कृतसन्ध्याविधिं च तम् ।
पर्यङ्के रुचिरे दीपवितानपरिशोभिते ॥ ४९ ॥
स्वयं तदाज्ञया राजासुष्वाप प्रियया सह ।
अत्याप्तांश्चतुरः स्थाप्य जागराय तदन्तिके ॥ ५० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विघण्टदन्तूरवधोनाम त्रयोदशोऽध्यायः ॥ १३ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-13

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...