श्रीगणेशपुराणे क्रीडाखण्डे चतुर्दशोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे चतुर्दशोऽध्यायः

बालचरित्र
॥ ब्रह्मोवाच ॥

ततः प्रभात उत्थाय शौचं कृत्वा यथाविधि ।
चकार मज्जनं सोऽथ सन्ध्यां चक्रे यथाविधि ॥ १ ॥
होमं चकार समिधं स्थाप्य कृष्णाजिनं शुभम् ।
निधाय दण्डं चिक्रीड बालकैः स विनायकः ॥ २ ॥


निशम्य कीर्तिं तत्रत्यो ब्राह्मणो वेदशास्त्रवित् ।
धर्मदत्त इति ख्यातो मनिपुत्रदिदृक्षया ॥ ३ ॥
आगतो नृपवर्यस्य काशिराजस्य वेश्म सः ।
राज्ञा सम्मानितः सोऽथ प्रपच्छ नृपसत्तमम् ॥ ४ ॥
क्वासौ महाबलः पुत्र कश्यपस्य वदस्व मे ।
ततो लोका जगुरयं क्रीडते बालकैः सह ॥ ५ ॥
तत उत्थाय विप्रोऽसौ पाणौ धृत्वाऽवदच्च तम् ।
मम मित्र सुतस्त्वं हि श्रुता कीर्तिर्मया तव ॥ ६ ॥
अतस्त्वां स्वगृहे नेतुमागतोऽहं न संशयः ।
पुनीहि पादरजसा सर्व नः सफलीकुरू ॥ ७ ॥
परब्रह्मस्वरूपोऽसि परमात्मा परात्परः ।
भूभारहरणार्थाय जातोऽसि कश्यपालये ॥ ८ ॥
क्रीडामानुषरूपोऽसि जाने त्वां तत्त्वतोऽर्भक ।
ततो विनायकः प्राह किमर्थं त्वमिहागतः ॥ ९ ॥
आज्ञामात्रेण ते तात कथं नायामि तेऽन्तिकम् ।
इत्युक्त्वा त्वरया यायाद् धर्मदत्तपुरः सरः ॥ १० ॥
धूलिमुद्धूलयद्भिस्तैर्बालकैरनुगैर्बली ।
मार्गे तु गच्छतस्तस्य नरान्तक समीरितौ ॥ १ ॥
कामसंज्ञश्च क्रोधश्च द्वावेतौ राक्षसाधमौ ।
परस्परं युध्यमानौ हन्तुमन्तिकमागतौ ॥ १२ ॥
युध्यमानौ निपतितौ बालके दुष्टमानसौ ।
खररूपौ यथा वह्नि पतङ्गाविव दुर्मदौ ॥ १३ ॥
ततस्ते बालकाः सर्वे दुद्रुवुस्ते दिशो दश ।
ततो विनायको धृत्वा तयोः पादौ बलेन सः ॥ १४ ॥
भ्रामयामास बहुधा पोथयामास भूतले ।
ततस्तौ पतितौ भूमौ व्यसू लोका व्यलोकयन् ॥ १५ ॥
समकम्पत् त्रिभुवनं पतद्देहरवात् तदा ।
लोकवार्तासु विश्वासं धर्मदत्तोऽन्वपद्यत ॥ १६ ॥
दृष्ट्वा तस्य महत्कर्म प्रत्यक्षेण महामुनिः ।
ततो ययौ धर्मदत्तस्तेन साकं पुरः सरः ॥ १७ ॥
ददर्श कुञ्जरं मत्तं गूढरूपं महाबलम् ।
इतस्ततो विद्रवन्तं जनं हन्तुं समुद्यतम् ॥ १८ ॥
इतस्ततो महावीराः पलायनपरा ययुः ।
कोलाहलो महानासीज्जनानां तत्र धावताम् ॥ १९ ॥
रजसाऽव्यापि सकलं नीहारेणेव पर्वताः ।
गजो यातो राजगजान् मत्तान् हन्तुं महाबलः ॥ २० ॥
गजयुद्धं महाघोरं प्रासादस्था व्यलोकयन् ।
बभञ्जुरश्वशालां ते दृष्ट्वा बद्धान् हयानपि ॥ २१ ॥
उद्बन्धना हया याता गजाश्च ककुभो दश ।
धर्मदत्तो गृहीत्वा तं गृहान्तर्गन्तुमुद्यतः ॥ २२ ॥
आस्फाल्य तत्करं बालो रुरोह करिणं बलात् ।
बिभेद गण्डं सृणिना वारं वारं विनायकः ॥ २३ ॥
असृक्प्रवाह परितो निपपात महीतले ।
स गजो बृंहितं कृत्वा सर्वलोकभयावहम् ॥ २४ ॥
पतता तेन भग्नानि विस्तीर्णेनायतेन च ।
सङ्ख्यातीतान्यगाराणि सर्वोपस्करवन्ति च ॥ २५ ॥
च कम्पे पृथिवी सर्वा सपर्वतवनाकरा ।
ततोऽन्धकारे विगते तत्रेयुर्नागराजनाः ॥ २६ ॥
भीतभीता महारौद्रे मृते तस्मिन् निरीक्ष्य तम् ।
बालं तु बलिनो गत्वा तस्मादुत्तारयन्बलात् ॥ २७ ॥
धर्मदत्तः पुनश्चैनं कटावेवाऽभ्यधारयत् ।
गृहमध्ये निनायाशु पुनरुत्पातशङ्कया ॥ २८ ॥
निवृत्ते त्वनिमित्ते स द्विजातिभ्यो ददौ धनम् ।
पूजयामास चैवैनमुपचारैः पृथक्पृथक् ॥ २९ ॥
वस्त्रालङ्कारकुसुमैर्नानानैवेद्य सञ्चयैः ।
भोजयामास विधिवत् सिद्धिबुद्धि उभे ददौ ॥ ३० ॥
दक्षिणार्थं धर्मदत्तो ननाम दण्डवत् क्षितौ ।
उवाच च प्रसन्नात्मा हर्षगद्गदया गिरा ॥ ३१ ॥
मम भाग्यं तु फलितं यद्दृष्टं चरणाम्बुजम् ।
जगदीशो जगत्कर्ता जगत्साक्षीजगद्गुरूः ॥ ३२ ॥
मम वाक्यादिहायात उद्धर्तुं मम पूर्वजान् ।
एवं ब्रुवन्नेव मुनिः स्वासने सन्निवेशितः ॥ ३३ ॥
विनायकेन देवेन पूजितो बहुभक्तितः ।
ततोऽतिशुशुभे बालः सिद्धिबुद्धियुतो भृशम् ॥ ३४ ॥
गङ्गागौरियुतो यद्वच्छूलपाणिस्त्रिलोचनः ।
एतस्मिन्नन्तरे तत्र जृम्भानाम्न्यागताऽशुभा ॥ ३५ ॥
पीताम्बरधरा चारूकङ्कणा चारूभूषणा ।
अतिदुष्टमनाः सा तु पत्नी धूम्राक्षरक्षसः ॥ ३६ ॥
सोवाच मधुरां वाचं निधानमिदमुत्तमम् ।
इत्यरिष्टानि जायन्ते तानि नश्यन्तयत्नतः ॥ ३७ ॥
कथं चारू भवेद् भोगो मातापित्रोरमुष्य वै ।
एवमुक्त्वा स्त्रियः सर्वा उवाच च विनायकम् ॥ ३८ ॥
महद्भाग्यं मम विभो यज्जातं तव दर्शनम् ।
परिश्रान्तोऽसि देवेश नानादुष्ट विनाशनात् ॥ ३९ ॥
अभ्यङ्गं कुरू तैलेन सुगन्धेन महामते ।
अङ्गं ते मर्दयिष्यामि तैलमुद्वर्तनं तथा ॥ ४० ॥
ओमित्युक्ते ततस्तेन विषहस्ता समादधे ।
तैलेन चरणौ तस्य विषोत्कर्षविधायिना ॥ ४१ ॥
ममदं जृम्भती जृम्भा लोकास्तां साधु मेनिरे ।
सा सिषेवे भावदुष्टाऽशुभभावा पतिं यथा ॥ ४२ ॥
ततस्तस्य शरीरस्य दाह एवा भवन्महान् ।
ततो ज्ञानेन बुद्धवा तां दुष्टभावां निशाचरीम् ॥ ४३ ॥
नारिकेलफलेनाशु मस्तके तां जघान सः ।
ततः सा पतिता भूमौ निजरूपं समास्थिता ॥ ४४ ॥
असृक् प्रवाहमध्ये सा विस्तीर्णा योजनद्वयम् ।
धर्मदत्तश्च लोकाश्च तदाश्चर्ययता बभुः ॥ ४५ ॥
पूजयामास विधिवद्भोजयामास तं पुनः ।
पक्वान्नं विविधं स्वादुरसैः षड्रभिः समन्वितम् ॥ ४६ ॥
अस्मिन्नवसरे देवाः पुष्पवर्षं प्रचक्रिरे ।
नीराजनं लाजवर्षमङ्गनाः पूजनानि च ॥ ४७ ॥
ततः स काशिराजस्तमाकारयितुमागमत् ।
रथोपरि निवेश्यैनं वाद्यघोषसमन्वितः ॥ ४८ ॥
गन्धर्वा गानसहिता नृत्यन्त्यप्सरसः पुरः ।
निनाय स्वगृहं राजा विनायकमनामयम् ॥ ४९ ॥
गच्छन् स ददृशे बालः सिंहारूढो धृतायुधः ।
अनेकवीरसंयुक्तो देवैरिव शतक्रतुः ॥ ५० ॥
सिद्धिबुद्धियुतो भाति गङ्गोमाभ्यां यथा शिवः ।
नानाबन्दिस्तूयमानः प्रविवेश नृपालयम् ॥ ५१ ॥
एवं बालचरित्रं यः शृणुयाज्जगदीशितुः ।
सर्वान् कामानवाप्नोति नारिभिर्बाध्यते क्वचित् ॥ ५२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरित्रे जृम्भावधो नाम चतुर्दशोऽध्यायः ॥ १४ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-14

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...