श्रीगणेशपुराणे क्रीडाखण्डे अष्टमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टमोऽध्यायः
नक्रमोक्षणं

॥ ब्रह्मोवाच ॥

विरजां निहतां श्रुत्वा राक्षसीं बलवत्तराम् ।
उद्धतो धुन्धुरश्चापि राक्षसौ बलवत्तरौ ॥ १ ॥
आगतावाश्रमपदं कश्यपस्य महात्मनः ।
शुकरूपधरौ बालो दृष्ट्वा प्रोचेऽदितिं तदा ॥ २ ॥


त्यक्त्वा स्तनं दीयतां मे उभौ रन्तुं शुकाविमौ ।
सोचे तं खगमौ शक्यौ भूगया न स्त्रिया क्वचित् ॥ ३ ॥
अथापि धर्तुं याता चेदुड्डीयैतौ गमिष्यतः ।
कटेरुत्तीर्य जग्राह बालस्तौ श्येनवत्तदा ॥ ४ ॥
पक्षाघातेन चञ्च्वा च जघ्नतुस्तौ भृशं च तम् ।
तावदास्फालयत् सोऽपि तौ बलेन धरातले ॥ ५ ॥
जहतुस्तौ तदा प्राणान् निजरूपधरावुभौ ।
तद्देहभारभीत्या भूर्भृशं विह्वलिताऽभवत् ॥ ६ ॥
भग्नवृक्षौ सनिनदौ देहौ निपतितौ तयोः ।
गव्यूतिमात्रं तौ दृष्टवाऽदितिस्तं पुनरग्रहीत् ॥ ७ ॥
शरीरे ददृशे तेन मुनिना विस्तृते तयोः ।
छित्त्वा ददाह तौ लोकः काष्ठसञ्चययोगतः ॥ ८ ॥
चकाराद्भुतशान्तिं च बालकाभ्युदयेच्छया ।
आश्चर्यं परमं चक्रे शिशोर्दष्ट्वा पराक्रमम् ॥ ९ ॥
उवाच परमप्रीतोऽदितिं पुत्रयुतां तदा ।
यौ न देवेन शक्रेण न हतौ राक्षसेश्वरौ ॥ १० ॥
शुकरूपधरावेतौ लीलया शिशुना हतौ ।
अदितिं च चुकोपाऽसौ किमर्थं मोचितस्त्वया ॥ ११ ॥
रक्षितो जगदीशेन क्वायुष्यं नास्य विद्महे ।
अविस्मरो रक्षणीयो बालोऽयं यत्नतःसति ॥ १२ ॥
कथं च निहतावेतौ गिरिसारौ निशाचरौ ।
निशाचरस्थलमिदं कथं जीवेच्छिशुर्मम ॥ १३ ॥
॥ ब्रह्मोवाच ॥
उक्त्वा परस्परं तौ तु स्नाप्य बालं तथाविधम् ।
स्नात्वा सुषुपतुस्तत्र दम्पत्ती विस्मयान्वितौ ॥ १४ ॥
ततश्चतुर्थे वर्षे स स्वाश्रमात् परतो ययौ ।
कासारं जलजैर्युक्तं नक्रमत्स्यगणैर्युतम् ॥ १५ ॥
तमालवृक्षसरलजम्ब्वाम्रपनसान्वितम् ।
नानावृक्षलताकीर्णं फलपुष्पसुशोभितम् ॥ १६ ॥
नानापक्षिगणाकीर्णं नानामुनिगणान्वितम् ।
अति स्वच्छजलं रम्यं सुजनस्येव मानसम् ॥ १७ ॥
व्यतीपाते सोमवत्यां स्नातुं तत्रादितिर्ययौ ।
उपवेश्य स्वकं बालमाकण्ठं जलगाऽभवत् ॥ १८ ॥
बाल उड्डीय तां गन्तुं जलमध्ये पपात ह ।
चिक्रीड स जले यावत् तावन्नक्रो दधार तम् ॥ १९ ॥
धाव धावेति जननी चुक्रोश जलमध्यगा ।
आगत्य जननी बालं गृहीतुं नैव चाशकत् ॥ २० ॥
आकृष्यते जले तेन जनन्याः बहिरेव सः ।
स नक्रो बालसहितां दूरे दूरे चकर्ष ह ॥ २१ ॥
बालोऽवदत् ततस्तां स न मोच्योऽहं सुतस्त्वया ।
सह त्वया सहैवाऽहं मरिष्ये न बलं मम ॥ २२ ॥
दृष्ट्वा स बालामाकण्ठमग्नां तां विह्वलां भृशम् ।
निष्कासितुं बलाच्छिष्या उड्डीय पतिता वने ॥ २३ ॥
तस्माद्बलवतो नक्रात् तेऽपि शक्ता न चाभवन् ।
ततोऽत्यन्तं बलं तस्य दर्शयामास बालकः ॥ २४ ॥
लीलयैव तदा नक्रं पृथिव्यां जलतोऽक्षिपत् ।
वायुर्यथा फलं पक्वं ग्रावाणं बालको यथा ॥ २५ ॥
शरीरं दृश्यते तस्य विशीर्णं पतितं भुवि ।
गतचेष्टं गतप्राणं योजनायतमद्भुतम् ॥ २६ ॥
सबाला सह शिष्यैः सा मुदं प्राप्ताऽदितिस्तदा ।
ततो दिव्यवपुश्चित्रगन्धर्वस्तमुवाच ह ॥ २७ ॥
अहमासं पुरा राजा गन्धर्वाणां गजानन ।
विवाहे सर्वगन्धर्वा मम गेहमुपागताः ॥ २८ ॥
पूजिताः परया भक्त्या न भृगुः पूजितो मया ।
वैवाहिकानि कार्याणि कुर्वता कुपितो मुनिः ॥ २९ ॥
शशाप मां नक्रवरो भविष्यसि सरोगतः ।
समाकर्ण्य मुनेः शापमुपशापं तमर्थयम् ॥ ३० ॥
ततो भृगुरुवाचेत्थं यदा कश्यपनन्दनः ।
गजाननः स्पृशेत् त्वान्तु तदा स्वं वपुराप्स्यसि ॥ ३१ ॥
इदानीमसि विज्ञातो बालरूपी गजाननः ।
त्वमेव जगतां नाथः कर्ता पाताऽपहारकः ॥ ३२ ॥
निर्गुणो निरहङ्कारः सदसत्कारणं परम् ।
नानावतारैर्भक्तानां पालको दुष्टनाशनः ॥ ३३ ॥
सर्वव्यापी पूर्णकामोऽनेकब्रह्माण्डनायकः ।
मुनीनामप्यगम्यस्त्वं मनोवागनिरूपितः ॥ ३४ ॥
इति स्तुत्वा च नत्वा च सम्पूज्य बालरूपिणम् ।
गजाननं प्रयातोऽसौ कृत्वा प्रदक्षिणां मुहुः ॥ ३५ ॥
अदितिर्बालकं गृह्य लालयित्वा स्तनं ददौ ।
आश्चर्यमानसा याता प्रसन्ना निजमन्दिरम् ॥ ३६ ॥
प्रणम्य कश्यपं सर्व वृत्तान्तं समभाषत ।
स विस्मितोऽब्रवीच्चैनामयन्त्तु परमेश्वरः ॥ ३७ ॥
लीलाविग्रहवान् मन्ये मानुषं देहमाश्रितः ।
अत्यद्भुतानि चान्यानि कर्माण्येष करिष्यति ॥ ३८ ॥
देवासुरैरशक्यानि द्रष्टव्यानि प्रसादतः ।
अस्मिन् भक्तिर्दृढा कार्या जनैरात्महितेप्सुभिः ॥ ३९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नक्रमोक्षणं नाम अष्टमोऽध्यायः ॥ ८ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-08

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...