श्रीलिङ्गमहापुराण -[पूर्वभाग] -094

श्रीलिङ्गमहापुराण -[पूर्वभाग] -094
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौरानबेवाँ अध्याय
भगवान्‌ के वाराहावतार की कथा, हिरण्याक्ष का वध तथा देवताओं द्वारा भगवान् वाराह की स्तुति
श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्नवतितमोऽध्यायः
वराहप्रादुर्भाव

॥ ऋषय ऊचुः ॥
कथमस्य पिता दैत्यो हिरण्याक्षः सुदारुणः ।
विष्णुना सूदितो विष्णुर्वाराहत्वं कथं गतः ॥ १ ॥
तस्य शृङ्गं महेशस्य भूषणत्वं कथं गतम् ।
एतत्सर्वं विशेषेण सूत वक्तुमिहार्हसि ॥ २ ॥


॥ सूत उवाच ॥
हिरण्यकशिपोर्भ्राता हिरण्याक्ष इति स्मृतः ।
पुरान्धकासुरेशस्य पिता कालान्तकोपमः ॥ ३ ॥
देवाञ्जित्वाथ दैत्येन्द्रो बद्ध्वा च धरणीमिमाम् ।
नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् ॥ ४ ॥
ततः सब्रह्मका देवाः परिम्लानमुखश्रियः ।
बाधितास्ताडिता बद्ध्वा हिरण्याक्षेण तेन वै ॥ ५ ॥
बलिना दैत्यमुख्येन क्रूरेण सुदुरात्मना ।
प्रणम्य शिरसा विष्णुं दैत्यकोटिविमर्दनम् ॥ ६ ॥
सर्वे विज्ञापयामासुर्धरणीबन्धनं हरेः ।
श्रुत्वैतद्भगवान् विष्णुर्धरणीबन्धनं हरिः ॥ ७ ॥
भूत्वा यज्ञवराहोऽसौ यथा लिङ्गोद्भवे तथा ।
दैत्यैश्च सार्धं दैत्येन्द्रं हिरण्याक्षं महाबलम् ॥ ८ ॥
दंष्ट्राग्रकोट्या हत्वैनं रेजे दैत्यान्तकृत् प्रभुः ।
कल्पादिषु यथापूर्वं प्रविश्य च रसातलम् ॥ ९ ॥
आनीय वसुधां देवीमङ्कस्थामकरोद् बहिः ।
ततस्तुष्टाव देवेशं देवदेवः पितामहः ॥ १० ॥
शक्राद्यैः सहितो भूत्वा हर्षगद्गदया गिरा ।
शाश्वताय वराहाय दंष्ट्रिणे दण्डिने नमः ॥ ११ ॥
नारायणाय सर्वाय ब्रह्मणे परमात्मने ।
कर्त्रे धर्त्रे धरायास्तु हर्त्रे देवारिणां स्वयम् ।
कर्त्रे नेत्रे सुरेन्द्राणां शास्त्रे च सकलस्य च ॥ १२ ॥
त्वमष्टमूर्तिस्त्वमनन्तमूर्तिस्त्वमादिदेवस्त्वमनन्तवेदितः ।
त्वया कृतं सर्वमिदं प्रसीद सुरेश लोकेश वराह विष्णो ॥ १३ ॥
तथैकदंष्ट्राग्रमुखाग्रकोटि भागैकभागार्धतमेन विष्णो ।
हताः क्षणात्कामद दैत्यमुख्याः स्वदंष्ट्रकोट्या सह पुत्रभृत्यैः ॥ १४ ॥
त्वयोद्धृता देव धरा धरेश धराधराकार धृताग्रदंष्ट्रे ।
धराधरैः सर्वजनैः समुद्रैः सुरासुरैः सेवितचन्द्रवक्त्र ॥ १५ ॥
त्वयैव देवेश विभो कृतश्च जयः सुराणामसुरेश्वराणाम् ।
अहो प्रदत्तस्तु वरः प्रसीद वाग्देवता वारिजसम्भवाय ॥ १६ ॥
तव रोम्णि सकलामरेश्वरा नयनद्वये शशिरवी पदद्वये ।*
निहिता रसातलगता वसुन्धरा तव पृष्ठतः सकलतारकादयः ॥ १७ ॥*
जगतां हिताय भवता वसुन्धरा भगवन् रसातलपुटं गता तदा ।
अबलोद्धृता च भगवंस्तवैव सकलं त्वयैव हि धृतं जगद्गुरो ॥ १८ ॥
इति वाक्पतिर्बहुविधैस्तवार्चनैः प्रणिपत्य विष्णुममरैः प्रजापतिः ।
विविधान् वरान् हरिमुखात्तु लब्धवान् हरिनाभिवारिजदेहभृत्स्वयम् ॥ १९ ॥
अथ तामुद्धृतां तेन धरां देवा मुनीश्वराः ।
मूर्ध्न्यारोप्य नमश्चक्रुश्चक्रिणः सन्निधौ तदा ॥ २० ॥
अनेनैव वराहेण चोद्धृतासि वरप्रदे ।
कृष्णेनाक्लिष्टकार्येण शतहस्तेन विष्णुना ॥ २१ ॥
धरणि त्वं महाभोगे भूमिस्त्वं धेनुरव्यये ।
लोकानां धारिणी त्वं हि मृत्तिके हर पातकम् ॥ २२ ॥
मनसा कर्मणा वाचा वरदे वारिजेक्षणे ।
त्वया हतेन पापेन जीवामस्त्वत् प्रसादतः ॥ २३ ॥
इत्युक्ता सा तदा देवी धरा देवैरथाब्रवीत् ।
वराहदंष्ट्राभिन्नायां धरायां मृत्तिकां द्विजाः ॥ २४ ॥
मन्त्रेणानेन यो बिभ्रत्मूर्ध्नि पापात् प्रमुच्यते ।
आयुष्मान् बलवान् धन्यः पुत्रपौत्रसमन्वितः ॥ २५ ॥
क्रमाद् भुवि दिवं प्राप्य कर्मान्ते मोदते सुरैः ।
अथ देवे गते त्यक्त्वा वराहे क्षीरसागरम् ॥ २६ ॥
वाराहरूपमनघं चचाल च धरा पुनः ।
तस्य दंष्ट्राभराक्रान्ता देवदेवस्य धीमतः ॥ २७ ॥
यदृच्छया भवः पश्यन् जगाम जगदीश्वरः ।
दंष्ट्रां जग्राह दृष्ट्वा तां भूषणार्थमथात्मनः ॥ २८ ॥
दधार च महादेवः कूर्चान्ते वै महोरसि ।
देवाश्च तुष्टुवुः सेन्द्रा देवदेवस्य वैभवम् ॥ २९ ॥
धरा प्रतिष्ठिता ह्येवं देवदेवेन लीलया ।
भूतानां सम्प्लवे चापि विष्णोश्चैव कलेवरम् ॥ ३० ॥
ब्रह्मणश्च तथान्येषां देवानामपि लीलया ।
विभुरङ्गविभागेन भूषितो न यदि प्रभुः ॥ ३१ ॥
कथं विमुक्तिर्विप्राणां तस्माद्दंष्ट्री महेश्वरः ॥ ३२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे वराहप्रादुर्भावो नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-94

कोई टिप्पणी नहीं:

123