श्रीलिङ्गमहापुराण -[पूर्वभाग] -092
॥ श्रीसाम्बसदाशिवाय नमः ॥
बानबेवाँ अध्याय
अविमुक्तक्षेत्र वाराणसी का माहात्म्य तथा श्रीविश्वेश्वर पूजा विधि वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे द्विनवतितमोऽध्यायः
वाराणसी श्रीशैल माहात्म्य कथनं
॥ ऋषय ऊचुः ॥
एवं वाराणसी पुण्या यदि सूत महामते ।
वक्तुमर्हसि चास्माकं तत् प्रभावं हि साम्प्रतम् ॥ १ ॥
क्षेत्रस्यास्य च माहात्म्यमविमुक्तस्य शोभनम् ।
विस्तरेण यथान्यायं श्रोतुं कौतूहलं हि नः ॥ २ ॥
॥ सूत उवाच ॥
वक्ष्ये सङ्क्षेपतः सम्यक्वाराणस्याः सुशोभनम् ।
अविमुक्तस्य माहात्म्यं यथाह भगवान् भवः ॥ ३ ॥
विस्तरेण मया वक्तुं ब्रह्मणा च महात्मना ।
शक्यते नैव विप्रेन्द्रा वर्षकोटिशतैरपि ॥ ४ ॥
देवः पुरा कृतोद्वाहः शङ्करो नीललोहितः ।
हिमवच्छिखराद्देव्या हैमवत्या गणेश्वरैः ॥ ५ ॥
वाराणसीमनुप्राप्य दर्शयामास शङ्करः ।
अविमुक्तेश्वरं लिङ्गं वासं तत्र चकार सः ॥ ६ ॥
वाराणसीकुरुक्षेत्र श्रीपर्वतमहालये ।
तुङ्गेश्वरे च केदारे तत्स्थाने यो यतिर्भवेत् ॥ ७ ॥
योगे पाशुपते सम्यक् दिनमेकं यतिर्भवेत् ।
तस्मात्सर्वं परित्यज्य चरेत् पाशुपतं व्रतम् ॥ ८ ॥
देवोद्याने वसेत्तत्र शर्वोद्यानमनुत्तमम् ।
मनसा निर्ममे रुद्रो विमानं च सुशोभनम् ॥ ९ ॥
दर्शयामास च तदा देवोद्यानमनुत्तमम् ।
हैमवत्याः स्वयं देवः सनन्दी परमेश्वरः ॥ १० ॥
क्षेत्रस्यास्य च माहात्म्यमविमुक्तस्य शङ्करः ।
उक्तवान् परमेशानः पार्वत्याः प्रीतये भवः ॥ ११ ॥
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानादिमनोहरं बहिः ।
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः ॥ १२ ॥
तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्वकुलैश्च सर्वतः ।
अशोकपुन्नागशतैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसञ्चयैः ॥ १३ ॥
क्वचित् प्रफुल्लाम्बुजरेणुभूषितैर्विहङ्गमैश्चानुकलप्रणादिभिः ।
विनादितं सारसचक्रवाकैः प्रमत्तदात्यूहवरैश्च सर्वतः ॥ १४ ॥
क्वचिच्च केकारुतनादितं शुभं क्वचिच्च कारण्डवनादनादितम् ।
क्वचिच्च मत्तालिकुलाकुलीकृतं मदाकुलाभिर्भ्रमराङ्गनादिभिः ॥ १५ ॥
निषेवितं चारुसुगन्धिपुष्पकैः क्वचित् सुपुष्पैः सहकारवृक्षैः ।
लतोपगूढैस्तिलकैश्च गूढं प्रगीतविद्याधरसिद्धचारणम् ॥ १६ ॥
प्रवृत्तनृत्तानुगताप्सरोगणं प्रहृष्टनानाविधपक्षिसेवितम् ।
प्रनृत्तहारीतकुलोपनादितं मृगेन्द्रनादाकुलमत्तमानसैः ॥ १७ ॥
क्वचित्क्वचिद् गन्धकदम्बकैर्मृगैर्विलूनदर्भाङ्कुरपुष्पसञ्चयम् ।
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् ॥ १८ ॥
विटपनिचयलीनं नीलकण्ठाभिरामं मदमुदितविहङ्गं प्राप्तनादाभिरामम् ।
कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितं प्रांशुशाखम् ॥ १९ ॥
क्वचिच्च दन्तक्षतचारुवीरुधं क्वचिल्लतालिङ्गितचारुवृक्षकम् ।*
क्वचिद्विलासालसगामिनीभिर्निषेवितं किम्पुरुषाङ्गनाभिः ॥ २० ॥*
पारावतध्वनिविकूजितचारुशृङ्गैरभ्रङ्कषैः सितमनोहरचारुरूपैः ।
आकीर्णपुष्पनिकरप्रविभक्तहंसैर्विभ्राजितं त्रिदशदिव्यकुलैरनेकैः ॥ २१ ॥
फुल्लोत्पलाम्बुजवितानसहस्रयुक्तं तोयाशयैः समनुशोभितदेवमार्गम् ।
मार्गान्तराकलितपुष्पविचित्रपङ्क्ति सम्बद्धगुल्मविटपैर्विविधैरुपेतम् ॥ २२ ॥
तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रांशुशाखैरशोकैर्दोलाप्रान्तान्तनीलश्रुतिसुखजनकैर्भासितान्तं
मनोज्ञैः ।
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं
छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदूर्वाङ्कुराग्रम् ॥ २३ ॥
हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां
तीरजातप्रचकितकदलीचाटुनृत्यन्मयूरम् ।
मायूरैः पक्षचन्द्रैः क्वचिदवनिगतै रञ्जितक्ष्माप्रदेशं देशे देशे
विलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् ॥ २४ ॥
सारङ्गैः क्वचिदुपशोभितप्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः ।
हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिर्वीणाभिः सुमधुरगीतनृत्तकण्ठम् ॥ २५ ॥
संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम् ।
आ मूलात्फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरुहैरुपेतम् ॥ २६ ॥
फुल्लातिमुक्तकलतागृहनीतसिद्धसिद्धाङ्गनाकनकनूपुररावरम्यम् ।*
रम्यं प्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीकवलिताम्रकदम्बपुष्पम् ॥ २७ ॥*
पुष्पोत्करानिलविघूर्णितवारिरम्यं रम्यद्विरेफविनिपातितमञ्जुगुल्मम् ।
गुल्मान्तरप्रसभभीतमृगीसमूहं वातेरितं तनुभृतामपवर्गदातृ ॥ २८ ॥
चन्द्रांशुजालशबलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः ।
चामीकरद्युतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः ॥ २९ ॥
क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसन्निभैः ।
क्वचित् काञ्चनसङ्काशैः पुष्पैराचितभूतलम् ॥ ३० ॥
पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् ।
रम्योपान्तक्लमहारभवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥ ३१ ॥
सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरपुत्र्या सार्धमिष्टैर्गणेशैः ।
विविधतरुविशालं मत्तहृष्टान्नपुष्टैरुपवनमतिरम्यं दर्शयामास देव्याः ॥ ३२ ॥
पुष्पैर्वन्यैः शुभशुभतमैः कल्पितैर्दिव्यभूषैर्देवीं दिव्यामुपवनगतां भूषयामास
शर्वः ।
सा चाप्येनं तुहिनगिरिसुता शङ्करं देवदेवं पुष्पैर्दिव्यैः शुभतरतमैर्भूषयामास
भक्त्या ॥ ३३ ॥
सम्पूज्य पूज्यं त्रिदशेश्वराणां सम्प्रेक्ष्य चोद्यानमतीव रम्यम् ।
गणेश्वरैर्नन्दिमुखैश्च सार्धमुवाच देवं प्रणिपत्य देवी ॥ ३४ ॥
॥ श्रीदेव्युवाच ॥
उद्यानं दर्शितं देव प्रभया परया युतम् ।
क्षेत्रस्य च गुणान् सर्वान् पुनर्मे वक्तुमर्हसि ॥ ३५ ॥
अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य सर्वथा ।
वक्तुमर्हसि देवेश देवदेव वृषध्वज ॥ ३६ ॥
॥ सूत उवाच ॥
देव्यास्तद्वचनं श्रुत्वा देवदेवो वरप्रभुः ।
आघ्राय वदनाम्भोजं तदाह गिरिजां हसन् ॥ ३७ ॥
॥ श्रीभगवानुवाच ॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा ॥ ३८ ॥
अस्मिन् सिद्धाः सदा देवि मदीयं व्रतमास्थिताः ।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥ ३९ ॥
अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः ।
नानावृक्षसमाकीर्णे नानाविहगशोभिते ॥ ४० ॥
कमलोत्पलपुष्पाढ्यैः सरोभिः समलङ्कृते ।
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ॥ ४१ ॥
रोचते मे सदा वासो येन कार्येण तच्छृणु ।
मन्मना मम भक्तश्च मयि नित्यार्पितक्रियः ॥ ४२ ॥
यथा मोक्षमवाप्नोति अन्यत्र न तथा क्वचित् ।
कामं ह्यत्र मृतो देवि जन्तुर्मोक्षाय कल्पते ॥ ४३ ॥
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतमं महत् ।
ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः ॥ ४४ ॥
अतः परमिदं क्षेत्रं परा चेयं गतिर्मम ।
विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन ॥ ४५ ॥
मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ।
नैमिषे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे ॥ ४६ ॥
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः ।
इह सम्प्राप्यते येन तत एतद्विशिष्यते ॥ ४७ ॥
प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् ।
प्रयागादपि तीर्थाग्र्यादविमुक्तमिदं शुभम् ॥ ४८ ॥
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषच्छमः ।
क्षेत्रतीर्थोपनिषदं न विदुर्बुधसत्तमाः ॥ ४९ ॥
कामं भुञ्जन् स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः ।
अविमुक्ते त्यजेत् प्राणान् जन्तुर्मोक्षाय कल्पते ॥ ५० ॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ।
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना ॥ ५१ ॥
तस्मात्संसेवनीयं हि अविमुक्तं हि मुक्तये ।
जैगीषव्यः परां सिद्धिं गतो यत्र महातपाः ॥ ५२ ॥
अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावितः ।
जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते ॥ ५३ ॥
ध्यायन्तस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् ।
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥ ५४ ॥
अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्त वेदिभिः ।
इह सम्प्राप्यते मोक्षो दुर्लभोऽन्यत्र कर्हिचित् ॥ ५५ ॥
तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम् ।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च ॥ ५६ ॥
कुबेरोऽत्र मम क्षेत्रे मयि सर्वार्पितक्रियः ।
क्षेत्रसंसेवनादेव गणेशत्वमवाप ह ॥ ५७ ॥
संवर्तो भविता यश्च सोऽपि भक्तो ममैव तु ।
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम् ॥ ५८ ॥
पराशरसुतौ योगी ऋषिर्व्यासो महातपाः ।
मम भक्तो भविष्यश्च वेदसंस्थाप्रवर्तकः ॥ ५९ ॥
रंस्यते सोऽपि पद्माक्षि क्षेत्रेऽस्मिन्मुनिपुङ्गवः ।
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वापि दिवाकरः ॥ ६० ॥
देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः ।
उपासते महात्मानः सर्वे मामिह सुव्रते ॥ ६१ ॥
अन्येऽपि योगिनो दिव्याश्छन्नरूपा महात्मनः ।
अनन्यमनसो भूत्वा मामिहोपासते सदा ॥ ६२ ॥
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ।
इह क्षेत्रे मृतः सोऽपि संसारे न पुनर्भवेत् ॥ ६३ ॥
ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः ।
व्रतिनश्च निरारम्भाः सर्वे ते मयि भाविताः ॥ ६४ ॥
देवदेवं समासाद्य धीमन्तः सङ्गवर्जिताः ।
गता इह परं मोक्षं प्रसादान्मम सुव्रते ॥ ६५ ॥
जन्मान्तरसहस्रेषु यं न योगी समाप्नुयात् ।
तमिहैव परं मोक्षं प्रसादान्मम सुव्रते ॥ ६६ ॥
गोप्रेक्षकमिदं क्षेत्रं ब्रह्मणा स्थापितं पुरा ।
कैलासभवनं चात्र पश्य दिव्यं वरानने ॥ ६७ ॥
गोप्रेक्षकमथागम्य दृष्ट्वा मामत्र मानवः ।
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥ ६८ ॥
कपिलाह्रदमित्येवं तथा वै ब्रह्मणा कृतम् ।
गवां स्तन्यजतोयेन तीर्थं पुण्यतमं महत् ॥ ६९ ॥
अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः ।
सान्निध्यं कृतवान् देवि सदाहं दृश्यते त्वया ॥ ७० ॥
भद्रतोयं च पश्येह ब्रह्मणा च कृतं ह्रदम् ।
सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः ॥ ७१ ॥
गच्छोपशममीशेति उपशान्तः शिवस्तथा ।
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ॥ ७२ ॥
ब्रह्मणा चापि सङ्गृह्य विष्णुना स्थापितः पुनः ।
ब्रह्मणापि ततो विष्णुः प्रोक्तः संविग्नचेतसा ॥ ७३ ॥
मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि ।
तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् ॥ ७४ ॥
रुद्रे देवे ममात्यन्तं परा भक्तिर्महत्तरा ।
मयैव स्थापितं लिङ्गं तव नाम्ना भविष्यति ॥ ७५ ॥
हिरण्यगर्भ इत्येवं ततोऽत्राहं समास्थितः ।
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः ॥ ७६ ॥
ततः पुनरपि ब्रह्मा मम लिङ्गमिदं शुभम् ।
स्थापयामास विधिवद्भक्त्या परमया युतः ॥ ७७ ॥
स्वर्लीनेश्वर इत्येवमत्राहं स्वयमागतः ।
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ॥ ७८ ॥
अनन्या सा गतिस्तस्य योगिनां चैव या स्मृता ।
अस्मिन्नपि मया देशे दैत्यो दैवतकण्टकः ॥ ७९ ॥
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ।
व्याघ्रेश्वर इति ख्यातो नित्यमत्राहमास्थितः ॥ ८० ॥
न पुनर्दुर्गतिं याति दृष्ट्वैनं व्याघ्रमीश्वरम् ।
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ॥ ८१ ॥
स्त्रीवध्यौ दर्पितौ दृष्ट्वा त्वयैव निहतौ रणे ।
सावज्ञं कन्दुकेनात्र तस्येदं देहमास्थितम् ॥ ८२ ॥
आदावत्राहमागम्य प्रस्थितो गणपैः सह ।
ज्येष्ठस्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् ॥ ८३ ॥
देवैः समन्तादेतानि लिङ्गानि स्थापितान्यतः ।
दृष्ट्वापि नियतो मर्त्यो देहभेदे गणो भवेत् ॥ ८४ ॥
पित्रा ते शैलराजेन पुरा हिमवता स्वयम् ।
मम प्रियहितं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् ॥ ८५ ॥
शैलेश्वरमिति ख्यातं दृश्यतामिह चादरात् ।
दृष्ट्वैतन्मनुजो देवि न दुर्गतिमतो व्रजेत् ॥ ८६ ॥
नद्येषा वरुणा देवि पुण्या पापप्रमोचनी ।
क्षेत्रमेतदलङ्कृत्य जाह्नव्या सह सङ्गता ॥ ८७ ॥
स्थापितं ब्रह्मणा चापि सङ्गमे लिङ्गमुत्तमम् ।
सङ्गमेश्वरमित्येवं ख्यातं जगति दृश्यताम् ॥ ८८ ॥
सङ्गमे देवनद्या हि यः स्नात्वा मनुजः शुचिः ।
अर्चयेत्सङ्गमेश्वरं तस्य जन्मभयं कुतः ॥ ८९ ॥
इदं मन्ये महाक्षेत्रं निवासो योगिनां परम् ।
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वाग्रमास्थितः ॥ ९० ॥
मध्यमेश्वरमित्येवं ख्यातः सर्वसुरासुरैः ।
सिद्धानां स्थानमेतद्धि मदीयव्रतधारिणाम् ॥ ९१ ॥
योगिनां मोक्षलिप्सूनां ज्ञानयोगरतात्मनाम् ।
दृष्ट्वैनं मध्यमेशानं जन्म प्रति न शोचति ॥ ९२ ॥
स्थापितं लिङ्गमेतत्तु शुक्रेण भृगुसूनुना ।
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् ॥ ९३ ॥
दृष्ट्वैनं नियतः सद्यो मुच्यते सर्वकिल्बिषैः ।
मृतश्च न पुनर्जन्तुः संसारी तु भवेन्नरः ॥ ९४ ॥
पुरा जम्बूकरूपेण असुरो देवकण्टकः ।
ब्रह्मणो हि वरं लब्ध्वा गोमायुर्बन्धशङ्कितः ॥ ९५ ॥
निहतो हिमवत्पुत्रि जम्बूकेशस्ततो ह्यहम् ।
अद्यापि जगति ख्यातं सुरासुरनमस्कृतम् ॥ ९६ ॥
दृष्ट्वैनमपि देवेशं सर्वान् कामानवाप्नुयात् ।
ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि ह ॥ ९७ ॥
पश्य पुण्यानि लिङ्गानि सर्वकामप्रदानि तु ।
एवमेतानि पुण्यानि मन्निवासानि पार्वति ॥ ९८ ॥
कथितानि मम क्षेत्रे गुह्यं चान्यदिदं शृणु ।
चतुःक्रोशं चतुर्दिक्षु क्षेत्रमेतत् प्रकीर्तितम् ॥ ९९ ॥
योजनं विद्धि चार्वङ्गि मृत्युकालेऽमृतप्रदम् ।
महालयगिरिस्थं मां केदारे च व्यवस्थितम् ॥ १०० ॥
गणत्वं लभते दृष्ट्वा ह्यस्मिन् मोक्षो ह्यवाप्यते ।
गाणपत्यं लभेद्यस्माद्यतः सा मुक्तिरुत्तमा ॥ १०१ ॥
ततो महालयात्तस्मात् केदारान् मध्यमादपि ।
स्मृतं पुण्यतमं क्षेत्रमविमुक्तं वरानने ॥ १०२ ॥
केदारं मध्यमं क्षेत्रं स्थानं चैव महालयम् ।
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ॥ १०३ ॥
यतः सृष्टास्त्विमे लोकास्ततः क्षेत्रमिदं शुभम् ।
कदाचिन्न मया मुक्तमविमुक्तं ततोऽभवत् ॥ १०४ ॥
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः ।
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ॥ १०५ ॥
शैलेशं सङ्गमेशं च स्वर्लीनं मध्यमेश्वरम् ।
हिरण्यगर्भमीशानं गोप्रेक्षं वृषभध्वजम् ॥ १०६ ॥
उपशान्तं शिवं चैव ज्येष्ठस्थाननिवासिनम् ।
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ॥ १०७ ॥
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे ।
॥ सूत उवाच ॥
एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ॥ १०८ ॥
विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे ।
अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा ॥ १०९ ॥
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः ।
माहेश्वरा महात्मानस्तथा वै नियतव्रताः ॥ ११० ॥
बहवः शतशोऽभ्येत्य नमश्चक्रुर्महेश्वरम् ।
पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः ॥ १११ ॥
तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे ।
स्थितानां स तदा तेषां देवदेव उमापतिः ॥ ११२ ॥
स बिभ्रत्परमां मूर्तिं बभूव पुरुषः प्रभुः ।
कृत्स्नं जगदिहैकस्थं कर्तुमन्त इव स्थितः ॥ ११३ ॥
तस्य तां परमां मूर्तिमास्थितस्य जगत् प्रभोः ।
न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा ॥ ११४ ॥
ततस्त्वदृष्टमाकारं बुद्ध्वा सा प्रकृतिस्थितम् ।
प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी ॥ ११५ ॥
तं शशाक पुनर्द्रष्टुं हरस्य च महात्मनः ।
ततस्ते लयमाधाय योगिनः पुरुषस्य तु ॥ ११६ ॥
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः ।
पञ्चाक्षरस्य वै बीजं संस्मरन्तः सुशोभनम् ॥ ११७ ॥
सर्वपापहरं दिव्यं पुरा चैव प्रकाशितम् ।
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् ॥ ११८ ॥
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा ।
स्तुवती चरणौ नत्वा क इमे भगवन्निति ॥ ११९ ॥
तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् ।
॥ श्रीभगवानुवाच ॥
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः ॥ १२० ॥
यैर्यैर्योगा इहाभ्यस्तास्तेषामेकेन जन्मना ।
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भामिनि ॥ १२१ ॥
अनुग्रहो मया ह्येवं क्रियते मूर्तितः स्वयम् ।
तस्मादेतन्महत्क्षेत्रं ब्रह्माद्यैः सेवितं तथा ॥ १२२ ॥
श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः ।
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम् ॥ १२३ ॥
उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते ।
शशिभानूपरागे च कार्तिक्यां च विशेषतः ॥ १२४ ॥
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च ।
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् ॥ १२५ ॥
उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम् ।
पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम् ॥ १२६ ॥
पुण्यस्थानस्थितां पुण्यां पुण्यदिक्प्रवहां सदा ।
भजन्ते सर्वतोऽभ्येत्य ये ताञ्छृणु वरानने ॥ १२७ ॥
सन्निहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा ।
पुष्करं निमिषं चैव प्रयागं च पृथूदकम् ॥ १२८ ॥
द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम् ।
क्षेत्राणि सर्वतो देवि देवता ऋषयस्तथा ॥ १२९ ॥
सन्ध्या च ऋतवश्चैव सर्वा नद्यः सरांसि च ।
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ॥ १३० ॥
भागीरथीं समेष्यन्ति सर्वपर्वसु सुव्रते ।
अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम् ॥ १३१ ॥
कालभैरवमासाद्य धूतपापानि सर्वशः ।
भवन्ति हि सुरेशानि सर्वपर्वसु पर्वसु ॥ १३२ ॥
पृथिव्यां यानि पुण्यानि महात्यायतनानि च ।
प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु ।
अविमुक्तं क्षेत्रवरं महापापनिबर्हणम् ॥ १३३ ॥
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये ॥ १३४ ॥
मध्यमेश्वरसञ्ज्ञं च तथा पाशुपतेश्वरम् ।
शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ ॥ १३५ ॥
द्रुमचण्डेश्वरं नाम भद्रेश्वरमनुत्तमम् ।
स्थानेश्वरं तथैकाग्रं कालेश्वरमजेश्वरम् ॥ १३६ ॥
भैरवेश्वरमीशानं तथोङ्कारकसञ्ज्ञितम् ।
अमरेशं महाकालं ज्योतिषं भस्मगात्रकम् ॥ १३७ ॥
यानि चान्यानि पुण्यानि स्थानानि मम भूतले ।
अष्टषष्टिसमाख्यानि रूढान्यन्यानि कृत्स्नशः ॥ १३८ ॥
तानि सर्वाण्यशेषाणि वाराणस्यां विशन्ति माम् ।
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ॥ १३९ ॥
तेनेह लभते जन्तुर्मृतो दिव्यामृतं पदम् ।
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे ॥ १४० ॥
सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः ।
सद्य एव समाप्नोति किं ततः परमाद्भुतम् ॥ १४१ ॥
सर्वायतनमुख्यानि दिवि भूमौ गिरिष्वपि ।
परात्परतरं देवी बुध्यस्वेति मयोदितम् ॥ १४२ ॥
अविशब्देन पापस्तु वेदोक्तः कथ्यते द्विजैः ।
तेन मुक्तं मया जुष्टमविमुक्तमत उच्यते ॥ १४३ ॥
इत्युक्त्वा भगवान् रुद्रः सर्वलोकमहेश्वरः ।
सुदृष्टं कुरु देवेशि अविमुक्तं गृहं मम ॥ १४४ ॥
इत्युक्त्वा भगवान् देवस्तया सार्धमुमापतिः ।
दर्शयामास भगवान् श्रीपर्वतमनुत्तमम् ॥ १४५ ॥
अविमुक्तेश्वरे नित्यमवसच्च सदा तया ।
सर्वगत्वाच्च सर्वत्वात्सर्वात्मा सदसन्मयः ॥ १४६ ॥
श्रीपर्वतमनुप्राप्य देव्या देवेश्वरो हरः ।
क्षेत्राणि दर्शयामास सर्वभूतपतिर्भवः ॥ १४७ ॥
कुण्डीप्रभं च परमं दिव्यं वैश्रवणेश्वरम् ।
आशालिङ्गं च देवेशं दिव्यं यच्च बिलेश्वरम् ॥ १४८ ॥
रामेश्वरं च परमं विष्णुना यत् प्रतिष्ठितम् ।
दक्षिणद्वारपार्श्वे तु कुण्डलेश्वरमीश्वरम् ॥ १४९ ॥
पूर्वद्वारसमीपस्थं त्रिपुरान्तकमुत्तमम् ।
विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम् ॥ १५० ॥
मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम् ।
अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्ठितम् ॥ १५१ ॥
गोचर्मेश्वरमीशानं तथेन्द्रेश्वरमद्भुतम् ।
कर्मेश्वरं च विपुलं कार्यार्थं ब्रह्मणा कृतम् ॥ १५२ ॥
श्रीमत्सिद्धवटं चैव सदावासो ममाव्यये ।
अजेन निर्मितं दिव्यं साक्षादजबिलं शुभम् ॥ १५३ ॥
तत्रैव पादुके दिव्ये मदीये च बिलेश्वरे ।
तत्र शृङ्गाटकाकारं शृङ्गाटाचलमध्यमे ॥ १५४ ॥
शृङ्गाटकेश्वरं नाम श्रीदेव्या तु प्रतिष्ठितम् ।
मल्लिकार्जुनकं चैव मम वासमिदं शुभम् ॥ १५५ ॥
रजेश्वरं च पर्याये रजसा सुप्रतिष्ठितम् ।
गजेश्वरं च वैशाखं कपोतेश्वरमव्ययम् ॥ १५६ ॥
कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा ।
सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम् ॥ १५७ ॥
द्विदेवकुलसञ्ज्ञं च ब्रह्मणा दक्षिणे शुभम् ।
उत्तरे स्थापितं चैव विष्णुना चैव शैलजम् ॥ १५८ ॥
महाप्रमाणलिङ्गं च मया पूर्वं प्रतिष्ठितम् ।
पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम् ॥ १५९ ॥
अलङ्कृतं त्वया ब्रह्मन् पुरस्तान्मुनिभिः सह ।
इत्युक्त्वा तद्गृहेऽतिष्ठदलङ्गृहमिति स्मृतम् ॥ १६० ॥
तत्रापि तीर्थं तीर्थज्ञे व्योमलिङ्गं च पश्य मे ।
कदम्बेश्वरमेतद्धि स्कन्देनैव प्रतिष्ठितम् ॥ १६१ ॥
गोमण्डलेश्वरं चैव नन्दाद्यैः सुप्रतिष्ठितम् ।
देवैः सर्वैस्तु शक्राद्यैः स्थापितानि वरानने ॥ १६२ ॥
श्रीमद्देवह्रदप्रान्ते स्थानानीमानि पश्य मे ।
तथा हारपुरे देवि तव हारे निपातिते ॥ १६३ ॥
त्वया हिताय जगतां हारकुण्डमिदं कृतम् ।
शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते ॥ १६४ ॥
तत्र पित्रा सुशैलेन स्थापितं त्वचलेश्वरम् ।
अलङ्कृतं मया ब्रह्मपुरस्तान्मुनिभिः सह ॥ १६५ ॥
चण्डिकेश्वरकं देवि चण्डिकेशा तवात्मजा ।
चण्डिकानिर्मितं स्थानमंबिकातीर्थमुत्तमम् ॥ १६६ ॥
रुचिकेश्वरकं चैव धारैषा कपिला शुभा ।
एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च ॥ १६७ ॥
पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते ।
श्रीशैले सन्त्यजेद्देहं ब्राह्मणो दग्धकिल्बिषः ॥ १६८ ॥
मुच्यते नात्र सन्देहो ह्यविमुक्ते यथा शुभम् ।
महास्नानं च यः कुर्याद्घृतेन विधिनैव तु ॥ १६९ ॥
स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते ।
स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशति ॥ १७० ॥
पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ।
स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च ॥ १७१ ॥
विशोध्य सर्वद्रव्यैस्तु वारिभिरभिषिञ्चति ।
सम्मार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा ॥ १७२ ॥
पूजया शतसाहस्रमनन्तं गीतवादिनाम् ।
महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम् ॥ १७३ ॥
जलेन केवलेनैव गन्धतोयेन भक्तितः ।
अनुलेपनं तु तत्सर्वं पञ्चविंशत्पलेन वै ॥ १७४ ॥
शमीपुष्पं च विधिना बिल्वपत्रं च पङ्कजम् ।
अन्यान्यपि च पुष्पाणि बिल्वपत्रं न सन्त्यजेत् ॥ १७५ ॥
चतुर्द्रोणैर्महादेवमष्टद्रोणैरथापि वा ।
दशद्रोणैस्तु नैवेद्यमष्टद्रोणैरथापि वा ॥ १७६ ॥
शतद्रोणसमं पुण्यमाढकेऽपि विधीयते ।
वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा ॥ १७७ ॥
भेरीमृदङ्गमुरज तिमिरापटहादिभिः ।
वादित्रैर्विविधैश्चान्यैर्निनादैर्विविधैरपि ॥ १७८ ॥
जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम् ।
स भृत्यपुत्रदारैश्च तथा सम्बन्धिबान्धवैः ॥ १७९ ॥
सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल्लिङ्गमुत्तमम् ।
द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर ॥ १८० ॥
कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर ।
इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शान्तिमेव च ॥ १८१ ॥
जपित्वैवं महाबीजं तथा पञ्चाक्षरस्य वै ।
स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥ १८२ ॥
तत्फलं समवाप्नोति वाराणस्यां यथा मृतः ।
तथैव मम सायुज्यं लभते नात्र संशयः ॥ १८३ ॥
मत् प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम् ।
ये न कुर्वन्ति ते भक्ता न भवन्ति न संशयः ॥ १८४ ॥
॥ सूत उवाच ॥
निशम्य वचनं देवी गत्वा वाराणसीं पुरीम् ।
अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च ॥ १८५ ॥
अर्चयामास देवेशं रुद्रं भुवननायकम् ।
अविमुक्ते च तपसा मन्दरस्य महात्मनः ॥ १८६ ॥
कल्पयामास वै क्षेत्रं मन्दरे चारुकन्दरे ।
तत्रान्धकं महादैत्यं हिरण्याक्षसुतं प्रभुः ॥ १८७ ॥
अनुगृह्य गणत्वं च प्रापयामास लीलया ।
एतद्वः कथितं सर्वं कथासर्वस्वमादरात् ॥ १८८ ॥
यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम् ।
सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत् ॥ १८९ ॥
श्रावयेद्वा द्विजान् सर्वान् कृतशौचान् जितेन्द्रियान् ।
स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः ॥ १९० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे
वाराणसीश्रीशैलमाहात्म्यकथनं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें