श्रीलिङ्गमहापुराण -[पूर्वभाग] -093

श्रीलिङ्गमहापुराण -[पूर्वभाग] -093
॥ श्रीसाम्बसदाशिवाय नमः ॥
तिरानबेवाँ अध्याय
हिरण्याक्षपुत्र अन्धकासुर का आख्यान तथा शिवानुग्रह से उसे गाणपत्यपद की प्राप्ति
श्रीलिङ्गमहापुराणे पूर्वभागे त्रिनवतितमोऽध्यायः
अन्धकगाणपत्यात्मक

॥ ऋषय ऊचुः ॥
अन्धको नाम दैत्येन्द्रो मन्दरे चारुकन्दरे ।
दमितस्तु कथं लेभे गाणपत्यं महेश्वरात् ॥ १ ॥
वक्तुमर्हसि चास्माकं यथावृत्तं यथाश्रुतम् ।
॥ सूत उवाच ॥
अन्धकानुग्रहं चैव मन्दरे शोषणं तथा ॥ २ ॥


वरलाभमशेषं च प्रवदामि समासतः ।
हिरण्याक्षस्य तनयो हिरण्यनयनोपमः ॥ ३ ॥
पुरान्धक इति ख्यातस्तपसा लब्धविक्रमः ।
प्रसादाद् ब्रह्मणः साक्षादवध्यत्वमवाप्य च ॥ ४ ॥
त्रैलोक्यमखिलं भुक्त्वा जित्वा चेन्द्रपुरं पुरा ।
लीलया चाप्रयत्नेन त्रासयामास वासवम् ॥ ५ ॥
बाधितास्ताडिता बद्धाः पातितास्तेन ते सुराः ।
विविशुर्मन्दरं भीता नारायणपुरोगमाः ॥ ६ ॥
एवं सम्पीड्य वै देवानन्धकोऽपि महासुरः ।
यदृच्छया गिरिं प्राप्तो मन्दरं चारुकन्दरम् ॥ ७ ॥
ततस्ते समस्ताः सुरेन्द्राः ससाध्याः सुरेशं महेशं पुरेत्याहुरेवम् ।
द्रुतं चाल्पवीर्यप्रभिन्नाङ्गभिन्ना वयं दैत्यराजस्य शस्त्रैर्निकृत्ताः ॥ ८ ॥
इतीदमखिलं श्रुत्वा दैत्यागममनौपमम् ।
गणेश्वरैश्च भगवानन्धकाभिमुखं ययौ ॥ ९ ॥
तत्रेन्द्रपद्मोद्भवविष्णुमुख्याः सुरेश्वरा विप्रवराश्च सर्वे ।*
जयेति वाचा भगवन्तमूचुः किरीटबद्धाञ्जलयः समन्तात् ॥ १० ॥*
अथाशेषासुरांस्तस्य कोटिकोटिशतैस्ततः ।
भस्मीकृत्य महादेवो निर्बिभेदान्धकं तदा ॥ ११ ॥
शूलेन शूलिना प्रोतं दग्धकल्मषकञ्चुकम् ।
दृष्ट्वान्धकं ननादेशं प्रणम्य स पितामहः ॥ १२ ॥
तन्नादश्रवणान्नेदुर्देवा देवं प्रणम्य तम् ।
ननृतुर्मुनयः सर्वे मुमुदुर्गणपुङ्गवाः ॥ १३ ॥
ससृजुः पुष्पवर्षाणि देवाः शम्भोस्तदोपरि ।
त्रैलोक्यमखिलं हर्षान्ननन्द च ननाद च ॥ १४ ॥
दग्धोऽग्निना च शूलेन प्रोतः प्रेत इवान्धकः ।
सात्त्विकं भावमास्थाय चिन्तयामास चेतसा ॥ १५ ॥
जन्मान्तरेऽपि देवेन दग्धो यस्माच्छिवेन वै ।
आराधितो मया शम्भुः पुरा साक्षान् महेश्वरः ॥ १६ ॥
तस्मादेतन्मया लब्धमन्यथा नोपपद्यते ।
यः स्मरेन्मनसा रुद्रं प्राणान्ते सकृदेव वा ॥ १७ ॥
स याति शिवसायुज्यं किं पुनर्बहुशः स्मरन् ।
ब्रह्मा च भगवान् विष्णुः सर्वे देवाः सवासवाः ॥ १८ ॥
शरणं प्राप्य तिष्ठन्ति तमेव शरणं व्रजेत् ।
एवं सञ्चिन्त्य तुष्टात्मा सोऽन्धकश्चान्धकार्दनम् ॥ १९ ॥
सगणं शिवमीशानमस्तुवत्पुण्यगौरवात् ।
प्रार्थितस्तेन भगवान् परमार्तिहरो हरः ॥ २० ॥
हिरण्यनेत्रतनयं शूलाग्रस्थं सुरेश्वरः ।
प्रोवाच दानवं प्रेक्ष्य घृणया नीललोहितः ॥ २१ ॥
तुष्टोऽस्मि वत्स भद्रं ते कामं किं करवाणि ते ।
वरान् वरय दैत्येन्द्र वरदोऽहं तवान्धक ॥ २२ ॥
श्रुत्वा वाक्यं तदा शम्भोर्हिरण्यनयनात्मजः ।
हर्षगद्गदया वाचा प्रोवाचेदं महेश्वरम् ॥ २३ ॥
भगवन् देवदेवेश भक्तार्तिहर शङ्कर ।
त्वयि भक्तिः प्रसीदेश यदि देयो वरश्च मे ॥ २४ ॥
श्रुत्वा भवोऽपि वचनमन्धकस्य महात्मनः ।
प्रददौ दुर्लभां श्रद्धां दैत्येन्द्राय महाद्युतिः ॥ २५ ॥
गाणपत्यं च दैत्याय प्रददौ चावरोप्य तम् ।
प्रणेमुस्तं सुरेन्द्राद्या गाणपत्ये प्रतिष्ठितम् ॥ २६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे अन्धकगाणपत्यात्मको नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-93

कोई टिप्पणी नहीं:

123