श्रीलिङ्गमहापुराण -[पूर्वभाग] -028
॥ श्रीसाम्बसदाशिवाय नमः ॥
अट्ठाईसवाँ अध्याय
श्रीलिङ्गमहापुराणे पूर्वभागे
अष्टाविंशोऽध्यायः
शिवार्चनतत्त्वसंख्यादिवर्णनं
॥ शैलादिरुवाच ॥
आग्नेयं सौरममृतं बिम्बं भाव्यं ततोपरि ।
गुणत्रयं च हृदये तथा चात्मत्रयं क्रमात् ॥ १ ॥
तस्योपरि महादेवं निष्कलं सकलाकृतिम् ।
कान्तार्धरूढदेहं च पूजयेद् ध्यानविद्यया ॥ २ ॥
ततो बहुविधं प्रोक्तं चिन्त्यं तत्रास्ति चेद्यतः ।
चिन्तकस्य ततश्चिन्ता अन्यथा नोपपद्यते ॥ ३ ॥
तस्माद्ध्येयं तथा ध्यानं यजमानः प्रयोजनम् ।
स्मरेत्तन्नान्यथा जातु बुध्यते पुरुषस्य ह ॥ ४ ॥
पुरे शेते पुरं देहं तस्मात् पुरुष उच्यते ।
याज्यं यज्ञेन यजते यजमानस्तु स स्मृतः ॥ ५ ॥
ध्येयो महेश्वरो ध्यानं चिन्तनं निर्वृतिः फलम् ।
प्रधानपुरुषेशानं याथातथ्यं प्रपद्यते ॥ ६ ॥
इह षड्विंशको ध्येयो ध्याता वै पञ्चविंशकः ।
चतुर्विंशकमव्यक्तं महदाद्यास्तु सप्त च ॥ ७ ॥
महांस्तथा त्वहङ्कारं तन्मात्रं पञ्चकं पुनः ।
कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च ॥ ८ ॥
मनश्च पञ्च भूतानि शिवः षड्विंशकस्ततः ।
स एव भर्ता कर्ता च विधेरपि महेश्वरः ॥ ९ ॥
हिरण्यगर्भं रुद्रोऽसौ जनयामास शङ्करः ।
विश्वाधिकश्च विश्वात्मा विश्वरूप इति स्मृतः ॥ १० ॥
विना यथा हि पितरं मातरं तनयास्त्विह ।
न जायन्ते तथा सोमं विना नास्ति जगत्त्रयम् ॥ ११ ॥
॥ सनत्कुमार उवाच ॥
कर्ता यदि महादेवः परमात्मा महेश्वरः ।
तथा कारयिता चैव कुर्वतोऽल्पात्मनस्तथा ॥ १२ ॥
नित्यो विशुद्धो बुद्धश्च निष्कलः परमेश्वरः ।
त्वयोक्तो मुक्तिदः किं वा निष्कलश्चेत्करोति किम् ॥ १३ ॥
॥ शैलादिरुवाच ॥
कालः करोति सकलं कालं कलयते सदा ।
निष्कलं च मनः सर्वं मन्यते सोऽपि निष्कलः ॥ १४ ॥
कर्मणा तस्य चैवेह जगत् सर्वं प्रतिष्ठितम् ।
किमत्र देवदेवस्य मूर्त्यष्टकमिदं जगत् ॥ १५ ॥
विनाकाशं जगन्नैव विना क्ष्मां वायुना विना ।
तेजसा वारिणा चैव यजमानं तथा विना ॥ १६ ॥
भानुना शशिना लोकस्तस्यैतास्तनवः प्रभोः ।
विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम् ॥ १७ ॥
सूक्ष्मं वदन्ति ऋषयो यन्न वाच्यं द्विजोत्तमाः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १८ ॥
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ।
न भेतव्यं तथा तस्माज्ज्ञात्वानन्दं पिनाकिनः ॥ १९ ॥
विभूतयश्च रुद्रस्य मत्वा सर्वत्र भावतः ।
सर्वं रुद्र इति प्राहुर्मुनयस्तत्त्वदर्शिनः ॥ २० ॥
नमस्कारेण सततं गौरवात्परमेष्ठिनः ।
सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः ॥ २१ ॥
पुरुषो वै महादेवो महेशानः परः शिवः ।
एवं विभुर्विनिर्दिष्टो ध्यानं तत्रैव चिन्तनम् ॥ २२ ॥
चतुर्व्यूहेण मार्गेण विचार्यालोक्य सुव्रत ।
संसारहेतुः संसारो मोक्षहेतुश्च निर्वृतिः ॥ २३ ॥
चतुर्व्यूहः समाख्यातः चिन्तकस्येह योगिनः ।
चिन्ता बहुविधा ख्याता सैकत्र परमेष्ठिना ॥ २४ ॥
सुनिष्ठेत्यत्र कथिता रुद्रं रौद्री न संशयः ।
ऐन्द्री चेन्द्रे तथा सौम्या सोमे नारायणे तथा ॥ २५ ॥
सूर्ये वह्नौ च सर्वेषां सर्वत्रैवं विचारतः ।
सैवाहं सोऽहमित्येवं द्विधा संस्थाप्य भावतः ॥ २६ ॥
भक्तोऽसौ नास्ति यस्तस्माच्चिन्ता ब्राह्मी न संशयः ।
एवं ब्रह्ममयं ध्यायेत्पूर्वं विप्र चराचरम् ॥ २७ ॥
चराचरविभागं च त्यजेदभिमतं स्मरन् ।
त्याज्यं ग्राह्यमलभ्यं च कृत्यं चाकृत्यमेव च ॥ २८ ॥
यस्य नास्ति सुतृप्तस्य तस्य ब्राह्मी न चान्यथा ।
आभ्यन्तरं समाख्यातमेवमभ्यर्चनं क्रमात् ॥ २९ ॥
आभ्यन्तरार्चकाः पूज्या नमस्कारादिभिस्तथा ।
विरूपा विकृताश्चापि न निन्द्या ब्रह्मवादिनः ॥ ३० ॥
आभ्यन्तरार्चकाः सर्वे न परीक्ष्या विजानता ।
निन्दका एव दुःखार्ता भविष्यन्त्यल्पचेतसः ॥ ३१ ॥
यथा दारुवने रुद्रं विनिन्द्य मुनयः पुरा ।
तस्मात्सेव्या नमस्कार्याः सदा ब्रह्मविदस्तथा ॥ ३२ ॥
वर्णाश्रमविनिर्मुक्ता वर्णाश्रमपरायणैः ॥ ३३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे
शिवार्चनतत्त्वसंख्यादिवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें