श्रीलिङ्गमहापुराण -[पूर्वभाग] -029

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -029

॥ श्रीसाम्बसदाशिवाय नमः ॥
उनतीसवाँ अध्याय

श्रीलिङ्गमहापुराणे पूर्वभागे एकोनत्रिंशोऽध्यायः
देवदारुवनवृत्तान्तवर्णनं

॥ सनत्कुमार उवाच ॥

इदानीं श्रोतुमिच्छामि पुरा दारुवने विभो ।
प्रवृत्तं तद्वनस्थानां तपसा भावितात्मनाम् ॥ १ ॥
कथं दारुवनं प्राप्तो भगवान्नीललोहितः ।
विकृतं रूपमास्थाय चोर्ध्वरेता दिगम्बरः ॥ २ ॥


किं प्रवृत्तं वने तस्मिन् रुद्रस्य परमात्मनः ।
वक्तुमर्हसि तत्त्वेन देवदेवस्य चेष्टितम् ॥ ३ ॥
॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा श्रुतिसारविदां वरः ।
शिलादसूनुर्भगवान् प्राह किञ्चिद्भवं हसन् ॥ ४ ॥
॥ शैलादिरुवाच ॥
मुनयो दारुगहने तपस्तेपुः सुदारुणम् ।
तुष्ट्यर्थं देवदेवस्य सदारतनयाग्नयः ॥ ५ ॥
तुष्टो रुद्रो जगन्नाथश्चेकितानो वृषध्वजः ।
धूर्जटिः परमेशानो भगवान्नीललोहितः ॥ ६ ॥
प्रवृत्तिलक्षणं ज्ञानं ज्ञातुं दारुवनौकसाम् ।
परीक्षार्थं जगन्नाथः श्रद्धया क्रीडया च सः ॥ ७ ॥
निवृत्तिलक्षणज्ञान प्रतिष्ठार्थं च शङ्करः ।
देवदारुवनस्थानां प्रवृत्तिज्ञानचेतसाम् ॥ ८ ॥
विकृतं रूपमास्थाय दिग्वासा विषमेक्षणः ।
मुग्धो द्विहस्तः कृष्णाङ्गो दिव्यं दारुवनं ययौ ॥ ९ ॥
मन्दस्मितं च भगवान् स्त्रीणां मनसिजोद्भवम् ।
भ्रूविलासं च गानं च चकारातीव सुन्दरः ॥ १० ॥
सम्प्रोक्ष्य नारीवृन्दं वै मुहुर्मुहुरनङ्गहा ।
अनङ्गवृद्धिमकरोदतीव मधुराकृतिः ॥ ११ ॥
वने तं पुरुषं दृष्ट्वा विकृतं नीललोहितम् ।
स्त्रियः पतिव्रताश्चापि तमेवान्वयुरादरात् ॥ १२ ॥
वनोटजद्वारगताश्च नार्यो विस्रस्तवस्त्राभरणा विचेष्टाः ।
लब्ध्वा स्मितं तस्य मुखारविन्दाद् द्रुमालयस्थास्तमथान्वयुस्ताः ॥ १३ ॥
दृष्ट्वा काश्चिद्भवं नार्यो मदघूर्णितलोचनाः ।
विलासबाह्यास्ताश्चापि भ्रूविलासं प्रचक्रिरे ॥ १४ ॥
अथ दृष्ट्वापरा नार्यः किञ्चित् प्रहसिताननाः ।
किञ्चिद्विस्रस्तवसनाः स्रस्तकाञ्चीगुणा जगुः ॥ १५ ॥
काश्चित्तदा तं विपिने तु दृष्ट्वा विप्राङ्गनाः स्रस्तनवांशुकं वा ।
स्वान् स्वान् विचित्रान् वलयान् प्रविध्य मदान्विता बन्धुजनांश्च जग्मुः ॥ १६ ॥
काचित्तदा तं न विवेद दृष्ट्वा विवासना स्रस्तमहांशुका च ।
शाखाविचित्रान् विटपान् प्रसिद्धान् मदान्विता बन्धुजनांस्तथान्याः ॥ १७ ॥
काश्चिज्जगुस्तं ननृतुर्निपेतुश्च धरातले ।
निषेदुर्गजवच्चान्या प्रोवाच द्विजपुङ्गवाः ॥ १८ ॥
अन्योन्यं सस्मितं प्रेक्ष्य चालिलिङ्गुः समन्ततः ।
निरुध्य मार्गं रुद्रस्य नैपुणानि प्रचक्रिरे ॥ १९ ॥
को भवानिति चाहुस्तं आस्यतामिति चापराः ।
कुत्रेत्यथ प्रसीदेति जजल्पुः प्रीतमानसाः ॥ २० ॥
विपरीता निपेतुर्वै विस्रस्तांशुकमूर्धजाः ।
पतिव्रताः पतीनां तु सन्निधौ भवमायया ॥ २१ ॥
दृष्ट्वा श्रुत्वा भवस्तासां चेष्टावाक्यानि चाव्ययः ।
शुभं वाप्यशुभं वापि नोक्तवान् परमेश्वरः ॥ २२ ॥
दृष्ट्वा नारीकुलं विप्रास्तथाभूतं च शङ्करम् ।
अतीव परुषं वाक्यं जजल्पुस्ते मुनीश्वराः ॥ २३ ॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ २४ ॥
श्रूयते ऋषिशापेन ब्रह्मणस्तु महात्मनः ।
समृद्धश्रेयसां योनिर्यज्ञा वै नाशमाप्तवान् ॥ २५ ॥
भृगोरपि च शापेन विष्णुः परमवीर्यवान् ।
प्रादुर्भावान् दश प्राप्तो दुःखितश्च सदा कृतः ॥ २६ ॥
इन्द्रस्यापि च धर्मज्ञ छिन्नं सवृषणं पुरा ।
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम् ॥ २७ ॥
गर्भवासो वसूनां च शापेन विहितस्तथा ।
ऋषीणां चैव शापेन नहुषः सर्पतां गतः ॥ २८ ॥
क्षीरोदश्च समुद्रोऽसौ निवासः सर्वदा हरेः ।
द्वितीयश्चामृताधारो ह्यपेयो ब्राह्मणैः कृतः ॥ २९ ॥
अविमुक्तेश्वरं प्राप्य वाराणस्यां जनार्दनः ।
क्षीरेण चाभिषिच्येशं देवदेवं त्रियंबकम् ॥ ३० ॥
श्रद्धया परया युक्तो देहाश्लेषामृतेन वै ।
निषिक्तेन स्वयं देवः क्षीरेण मधुसूदनः ॥ ३१ ॥
सेचयित्वाथ भगवान् ब्रह्मणा मुनिभिः समम् ।
क्षीरोदं पूर्ववच्चक्रे निवासं चात्मनः प्रभुः ॥ ३२ ॥
धर्मश्चैव तथा शप्तो माण्डव्येन महात्मना ।
वृष्णयश्चैव कृष्णेन दुर्वासाद्यैर्महात्मभिः ॥ ३३ ॥
राघवः सानुजश्चापि दुर्वासेन महात्मना ।
श्रीवत्सश्च मुनेः पाद पतनात्तस्य धीमतः ॥ ३४ ॥
एते चान्ये च बहवो विप्राणां वशमागताः ।
वर्जयित्वा विरूपाक्षं देवदेवमुमापतिम् ॥ ३५ ॥
एवं हि मोहितास्तेन नावबुध्यन्त शङ्करम् ।
अत्युग्रवचनं प्रोचुश्चोग्रोऽप्यन्तरधीयत ॥ ३६ ॥
तेऽपि दारुवनात्तस्मात्प्रातः संविग्नमानसाः ।
पितामहं महात्मानमासीनं परमासने ॥ ३७ ॥
गत्वा विज्ञापयामासुः प्रवृत्तमखिलं विभोः ।
शुभे दारुवने तस्मिन् मुनयः क्षीणचेतसः ॥ ३८ ॥
सोऽपि सञ्चिन्त्य मनसा क्षणादेव पितामहः ।
तेषां प्रवृत्तमखिलं पुण्ये दारुवने पुरा ॥ ३९ ॥
उत्थाय प्राञ्जलिर्भूत्वा प्रणिपत्य भवाय च ।
उवाच सत्वरं ब्रह्मा मुनीन्दारुवनालयान् ॥ ४० ॥
धिग्युष्मान् प्राप्तनिधनान् महानिधिमनुत्तमम् ।
वृथाकृतं यतो विप्रा युष्माभिर्भाग्यवर्जितैः ॥ ४१ ॥
यस्तु दारुवने तस्मिंल्लिङ्गी दृष्टोऽप्यलिङ्गिभिः ।
युष्माभिर्विकृताकारः स एव परमेश्वरः ॥ ४२ ॥
गृहस्थैश्च न निन्द्यास्तु सदा ह्यतिथयो द्विजाः ।
विरूपाश्च सुरूपाश्च मलिनाश्चाप्यपण्डिताः ॥ ४३ ॥
सुदर्शनेन मुनिना कालमृत्युरपि स्वयम् ।
पुरा भूमौ द्विजाग्र्येण जितो ह्यतिथिपूजया ॥ ४४ ॥
अन्यथा नास्ति सन्तर्तुं गृहस्थैश्च द्विजोत्तमैः ।
त्यक्त्वा चातिथिपूजां तामात्मनो भुवि शोधनम् ॥ ४५ ॥
गृहस्थोऽपि पुरा जेतुं सुदर्शन इति श्रुतः ।
प्रतिज्ञामकरोज्जायां भार्यामाह पतिव्रताम् ॥ ४६ ॥
सुव्रते सुभ्रु सुभगे शृणु सर्वं प्रयत्नतः ।
त्वया वै नावमन्तव्या गृहे ह्यतिथयः सदा ॥ ४७ ॥
सर्व एव स्वयं साक्षादतिथिर्यत्पिनाकधृक् ।
तस्मादतिथये दत्त्वा आत्मानमपि पूजय ॥ ४८ ॥
एवमुक्त्वाथ सन्तप्ता विवशा सा पतिव्रता ।
पतिमाह रुदन्ती च किमुक्तं भवता प्रभो ॥ ४९ ॥
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह सुदर्शनः ।
देयं सर्वं शिवायार्ये शिव एवातिथिः स्वयम् ॥ ५० ॥
तस्मात् सर्वे पूजनीयाः सर्वेऽप्यतिथयः सदा ।
एवमुक्ता तदा भर्त्रा भार्या तस्य पतिव्रता ॥ ५१ ॥
शेषामिवाज्ञामादाय मूर्ध्ना सा प्राचरत्तदा ।
परीक्षितुं तथा श्रद्धां तयोः साक्षाद् द्विजोत्तमाः ॥ ५२ ॥
धर्मो द्विजोत्तमो भूत्वा जगामाथ मुनेर्गृहम् ।
तं दृष्ट्वा चार्चयामास सार्घ्याद्यैरनघा द्विजम् ॥ ५३ ॥
सम्पूजितस्तया तां तु प्राह धर्मो द्विजः स्वयम् ।
भद्रे कुतः पतिर्धीमांस्तव भर्ता सुदर्शनः ॥ ५४ ॥
अन्नाद्यैरलमद्यार्ये स्वं दातुमिह चार्हसि ।
सा च लज्जावृता नारी स्मरन्ती कथितं पुरा ॥ ५५ ॥
भर्त्रा न्यमीलयन्नेत्रे चचाल च पतिव्रता ।
किं चेत्याह पुनस्तं वै धर्मे चक्रे च सा मतिम् ॥ ५६ ॥
निवेदितुं किलात्मानं तस्मै पत्युरिहाज्ञया ।
एतस्मिन्नन्तरे भर्ता तस्या नार्याः सुदर्शनः ॥ ५७ ॥
गृहद्वारं गतो धीमांस्तामुवाच महामुनिः ।
एह्येहि क्व गता भद्रे तमुवाचातिथिः स्वयम् ॥ ५८ ॥
भार्यया त्वनया सार्धं मैथुनस्थोऽहमद्य वै ।
सुदर्शन महाभाग किं कर्तव्यमिहोच्यताम् ॥ ५९ ॥
सुरतान्तस्तु विप्रेन्द्र सन्तुष्टोऽहं द्विजोत्तम ।
सुदर्शनस्ततः प्राह सुप्रहृष्टो द्विजोत्तमः ॥ ६० ॥
भुङ्क्ष्व चैनां यथाकामं गमिष्येऽहं द्विजोत्तम ।
हृष्टोऽथ दर्शयामास स्वात्मानं धर्मराट्स्वयम् ॥ ६१ ॥
प्रददौ चेप्सितं सर्वं तमाह च महाद्युतिः ।
एषा न भुक्ता विप्रेन्द्र मनसापि सुशोभना ॥ ६२ ॥
मया चैषा न सन्देहः श्रद्धां ज्ञातुमिहागतः ।
जितो वै यस्त्वया मृत्युर्धर्मेणैकेन सुव्रत ॥ ६३ ॥
अहोऽस्य तपसो वीर्यमित्युक्त्वा प्रययौ च सः ।
तस्मात्तथा पूजनीयाः सर्वे ह्यतिथयः सदा ॥ ६४ ॥
बहुनात्र किमुक्तेन भाग्यहीना द्विजोत्तमाः ।
तमेव शरणं तूर्णं गन्तुमर्हथ शङ्करम् ॥ ६५ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मणो ब्राह्मणर्षभाः ।
ब्रह्माणमभिवन्द्यार्ताः प्रोचुराकुलितेक्षणाः ॥ ६६ ॥
॥ ब्राह्मणा ऊचुः ॥
नापेक्षितं महाभाग जीवितं विकृताः स्त्रियः ।
दृष्टोऽस्माभिर्महादेवो निन्दितो यस्त्वनिन्दितः ॥ ६७ ॥
शप्तश्च सर्वगः शूली पिनाकी नीललोहितः ।
अज्ञानाच्छापजा शक्तिः कुण्ठितास्य निरीक्षणात् ॥ ६८ ॥
वक्तुमर्हसि देवेश संन्यासं वै क्रमेण तु ।
द्रष्टुं वै देवदेवेशमुग्रं भीमं कपर्दिनम् ॥ ६९ ॥
॥ पितामह उवाच ॥
आदौ वेदानधीत्यैव श्रद्धया च गुरोः सदा ।
विचार्यार्थं मुनेर्धर्मान् प्रतिज्ञाय द्विजोत्तमाः ॥ ७० ॥
ग्रहणान्तं हि वा विद्वानथ द्वादशवार्षिकम् ।
स्नात्वाहृत्य च दारान् वै पुत्रानुत्पाद्य सुव्रतान् ॥ ७१ ॥
वृत्तिभिश्चानुरूपाभिस्तान् विभज्य सुतान् मुनिः ।
अग्निष्टोमादिभिश्चेष्ट्वा यज्ञैर्यज्ञेश्वरं विभुम् ॥ ७२ ॥
पूजयेत् परमात्मानं प्राप्यारण्यं विभावसौ ।
मुनिर्द्वादशवर्षं वा वर्षमात्रमथापि वा ॥ ७३ ॥
पक्षद्वादशकं वापि दिनद्वादशकं तु वा ।
क्षीरभुक् संयतः (संयुतः) शान्तः सर्वान् सम्पूजयेत् सुरान् ॥ ७४ ॥
इष्ट्वैवं जुहुयादग्नौ यज्ञपात्राणि मन्त्रतः ।
अप्सु वै पार्थिवं न्यस्य गुरवे तैजसानि तु ॥ ७५ ॥
स्वधनं सकलं चैव ब्राह्मणेभ्यो विशङ्कया ।
प्रणिपत्य गुरुं भूमौ विरक्तः संन्यसेद्यतिः ॥ ७६ ॥
निकृत्य केशान् सशिखानुपवीतं विसृज्य च ।
पञ्चभिर्जुहुयादप्सु भूः स्वाहेति विचक्षणः ॥ ७७ ॥
ततश्चोर्ध्वं चरेदेवं यतिः शिवविमुक्तये ।
व्रतेनानशनेनापि तोयवृत्त्यापि वा पुनः ॥ ७८ ॥
पर्णवृत्त्या पयोवृत्त्या फलवृत्त्यापि वा यतिः ।
एवं जीवन्मृतो नो चेत्षण्मासाद्वत्सरात्तु वा ॥ ७९ ॥
प्रस्थानादिकमायासं स्वदेहस्य चरेद्यतिः ।
शिवसायुज्यमाप्नोति कर्मणाप्येवमाचरन् ॥ ८० ॥
सद्योऽपि लभते मुक्तिं भक्तियुक्तो दृढव्रताः ॥ ८१ ॥
त्यागेन वा किं विधिनाप्यनेन भक्तस्य रुद्रस्य शुभैर्व्रतैश्च ।
यज्ञैश्च दानैर्विविधैश्च होमैर्लब्धैश्चशास्त्रैर्विविधैश्च वेदैः ॥ ८२ ॥
श्वेतेनैवं जितो मृत्युर्भवभक्त्या महात्मना ।
वोऽस्तु भक्तिर्महादेवे शङ्करे परमात्मनि ॥ ८३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे देवदारुवनवृत्तान्तवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-29

कोई टिप्पणी नहीं:

123