श्रीलिङ्गमहापुराण -[पूर्वभाग] -027

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -027

 ॥ श्रीसाम्बसदाशिवाय नमः ॥
 सत्ताईसवाँ अध्याय
  श्रीलिङ्गमहापुराणे पूर्वभागे सप्तविंशोऽध्यायः

लिङ्गार्चनविधिः
॥ शैलादिरुवाच ॥

वक्ष्यामि शृणु सङ्क्षेपाल्लिङ्गार्चनाविधिक्रमम् ।
वक्तुं वर्षशतेनापि न शक्यं विस्तरेण यत् ॥ १ ॥
एवं स्नात्वा यथान्यायं पूजास्थानं प्रविश्य च ।
प्राणायामत्रयं कृत्वा ध्यायेद्देवं त्रियंबकम् ॥ २ ॥


पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ।
सर्वाभरणसंयुक्तं चित्राम्बरविभूषितम् ॥ ३ ॥
तस्य रूपं समाश्रित्य दाहनप्लावनादिभिः ।
शैवीं तनुं समास्थाय पूजयेत् परमेश्वरम् ॥ ४ ॥
देहशुद्धिं च कृत्वैव मूलमन्त्रं न्यसेत् क्रमात् ।
सर्वत्र प्रणवेनैव ब्रह्माणि च यथाक्रमम् ॥ ५ ॥
सूत्रे नमः शिवायेति छन्दांसि परमे शुभे ।
मन्त्राणि सूक्ष्मरूपेण संस्थितानि यतस्ततः ॥ ६ ॥
न्यग्रोधबीजे न्यग्रोधस्तथा सूत्रे तु शोभने ।
महत्यपि महद् ब्रह्म संस्थितं सूक्ष्मवत् स्वयम् ॥ ७ ॥
सेचयेदर्चनस्थानं गन्धचन्दनवारिणा ।
द्रव्याणि शोधयेत् पश्चात् क्षालनप्रोक्षणादिभिः ॥ ८ ॥
क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते ।
प्रोक्षणी चार्घ्यपात्रं च पाद्यपात्रमनुक्रमात् ॥ ९ ॥
तथा ह्याचमनीयार्थं कल्पितं पात्रमेव च ।
स्थापयेद्विधिना धीमानवगुण्ठ्य यथाविधि ॥ १० ॥
दर्भैराच्छादयेच्चैव प्रोक्षयेच्छुद्धवारिणा ।
तेषु तेष्वथ सर्वेषु क्षिपेत्तोयं सुशीतलम् ॥ ११ ॥
प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ।
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ १२ ॥
जातिकङ्कोलकर्पूर बहुमूलतमालकम् ।
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ॥ १३ ॥
एवं सर्वेषु पात्रेषु दापयेच्चन्दनं तथा ।
कर्पूरं च यथान्यायं पुष्पाणि विविधानि च ॥ १४ ॥
कुशाग्रमक्षतांश्चैव यवव्रीहितिलानि च ।
आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके ॥ १५ ॥
कुशपुष्पयवव्रीहि बहुमूलतमालकम् ।
दापयेत् प्रोक्षणीपात्रे भसितं प्रणवेन च ॥ १६ ॥
न्यसेत् पञ्चाक्षरं चैव गायत्रीं रुद्रदेवताम् ।
केवलं प्रणवं वापि वेदसारमनुत्तमम् ॥ १७ ॥
अथ सम्प्रोक्षयेत् पश्चाद् द्रव्याणि प्रणवेन तु ।
प्रोक्षणीपात्रसंस्थेन ईशानाद्यैश्च पञ्चभिः ॥ १८ ॥
पार्श्वतो देवदेवस्य नन्दिनं मां समर्चयेत् ।
दीप्तानलायुतप्रख्यं त्रिनेत्रं त्रिदशेश्वरम् ॥ १९ ॥
बालेन्दुमुकुटं चैव हरिवक्त्रं चतुर्भुजम् ।
पुष्पमालाधरं सौम्यं सर्वाभरणभूषितम् ॥ २० ॥
उत्तरे चात्मनः पुण्यां भार्यां च मरुतां शुभाम् ।
सुयशां सुव्रतां चाम्बापादमण्डनतत्पराम् ॥ २१ ॥
एवं पूज्य प्रविश्यान्तर्भवनं परमेष्ठिनः ।
दत्त्वा पुष्पाञ्जलिं भक्त्या पञ्चमूर्धसु पञ्चभिः ॥ २२ ॥
गन्धपुष्पैस्तथा धूपैर्विविधैः पूज्य शङ्करम् ।
स्कन्दं विनायकं देवीं लिङ्गशुद्धिं च कारयेत् ॥ २३ ॥
जप्त्वा सर्वाणि मन्त्राणि प्रणवादिनमोऽन्तकम् ।
कल्पयेदासनं पश्चात् पद्माख्यं प्रणवेन तत् ॥ २४ ॥
तस्य पूर्वदलं साक्षादणिमामयमक्षरम् ।
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥ २५ ॥
प्राप्तिस्तथोत्तरं पत्रं प्राकाम्यं पावकस्य तु ।
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे ॥ २६ ॥
सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ।
सोमस्याधस्तथा सूर्यस्तस्याधः पावकः स्वयम् ॥ २७ ॥
धर्मादयो विदिक्ष्वेते त्वनन्तं कल्पयेत् क्रमात् ।
अव्यक्तादिचतुर्दिक्षु सोमस्यान्ते गुणत्रयम् ॥ २८ ॥
आत्मत्रयं ततश्चोर्ध्वं तस्यान्ते शिवपीठिका ।
सद्योजातं प्रपद्यामीत्यावाह्य परमेश्वरम् ॥ २९ ॥
वामदेवेन मन्त्रेण स्थापयेदासनोपरि ।
सान्निध्यं रुद्रगायत्र्या अघोरेण निरुदध्य च ॥ ३० ॥
ईशानः सर्वविद्यानामिति मन्त्रेण पूजयेत् ।
पाद्यमाचमनीयं च विभोश्चार्घ्यं प्रदापयेत् ॥ ३१ ॥
स्नापयेद्विधिना रुद्रं गन्धचन्दनवारिणा ।
पञ्चगव्यं विधानेन गृह्य पात्रेऽभिमन्त्र्य च ॥ ३२ ॥
प्रणवेनैव गव्यैस्तु स्नापयेच्च यथाविधि ।
आज्येन मधुना चैव तथा चेक्षुरसेन च ॥ ३३ ॥
पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् ।
जलभाण्डैः पवित्रैस्तु मन्त्रैस्तोयं क्षिपेत्ततः ॥ ३४ ॥
शुद्धिं कृत्वा यथान्यायं सितवस्त्रेण साधकः ।
कुशापामार्गकर्पूर जातिपुष्पकचम्पकैः ॥ ३५ ॥
करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः ।
आपूर्य पुष्पैः सुशुभैः चन्दनाद्यैश्च तज्जलम् ॥ ३६ ॥
न्यसेन्मन्त्राणि तत्तोये सद्योजातादिकानि तु ।
सुवर्णकलशेनाथ तथा वै राजतेन वा ॥ ३७ ॥
ताम्रेण पद्मपत्रेण पालाशेन दलेन वा ।
शङ्खेन मृन्मयेनाथ शोधितेन शुभेन वा ॥ ३८ ॥
सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् ।
मन्त्राणि ते प्रवक्ष्यामि शृणु सर्वार्थसिद्धये ॥ ३९ ॥
यैर्लिङ्गं सकृदप्येवं स्नाप्य मुच्येत मानवः ।
पवमानेन मन्त्रज्ञाः तथा वामीयकेन च ॥ ४० ॥
रुद्रेण नीलरुद्रेण श्रीसूक्तेन शुभेन च ।
रजनीसूक्तकेनैव चमकेन शुभेन च ॥ ४१ ॥
होतारेणाथ शिरसा अथर्वेण शुभेन च ।
शान्त्या चाथ पुनः शान्त्या भारुण्डेनारुणेन च ॥ ४२ ॥
वारुणेन च ज्येष्ठेन तथा वेदव्रतेन च ।
तथान्तरेण पुण्येन सूक्तेन पुरुषेण च ॥ ४३ ॥
त्वरितेनैव रुद्रेण कपिना च कपर्दिना ।
आवोसजेति साम्ना तु बृहच्चन्द्रेण विष्णुना ॥ ४४ ॥
विरूपाक्षेण स्कन्देन शतऋग्भिः शिवैस्तथा ।
पञ्चब्रह्मैश्च सूत्रेण केवलप्रणवेन च ॥ ४५ ॥
स्नापयेद्देवदेवेशं सर्वपापप्रशान्तये ।
वस्त्रं शिवोपवीतं च तथा ह्याचमनीयकम् ॥ ४६ ॥
गन्धं पुष्पं तथा धूपं दीपमन्नं क्रमेण तु ।
तोयं सुगन्धितं चैव पुनराचमनीयकम् ॥ ४७ ॥
मुकुटं च शुभं छत्रं तथा वै भूषणानि च ।
दापयेत् प्रणवेनैव मुखवासादिकानि च ॥ ४८ ॥
ततः स्फटिकसङ्काशं देवं निष्कलमक्षरम् ।
कारणं सर्वदेवानां सर्वलोकमयं परम् ॥ ४९ ॥
ब्रह्मेन्द्रविष्णुरुद्राद्यैर्ऋषिदेवैरगोचरम् ।
वेदविद्भिर्हि वेदान्तैस्त्वगोचरमिति श्रुतिः ॥ ५० ॥
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ।
शिवतत्त्वमिति ख्यातं शिवलिङ्गे व्यवस्थितम् ॥ ५१ ॥
प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि ।
स्तोत्रं जपेच्च विधिना नमस्कारं प्रदक्षिणम् ॥ ५२ ॥
अर्घ्यं दत्त्वाथ पुष्पाणि पादयोस्तु विकीर्य च ।
प्रणिपत्य च देवेशमात्मन्यारोपयेच्छिवम् ॥ ५३ ॥
एवं सङ्क्षिप्य कथितं लिङ्गार्चनमनुत्तमम् ।
आभ्यन्तरं प्रवक्ष्यामि लिङ्गार्चनमिहाद्य ते ॥ ५४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गार्चनविधिर्नाम सप्तविंशोऽध्यायः ॥ २७ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-27

कोई टिप्पणी नहीं:

123