श्रीगणेशपुराणे उपासनाखण्डे पञ्चचत्वारिंशोऽध्यायः
शिवस्य वरदानं
॥ मुनिरुवाच ॥
ततः प्रसन्ने विघ्नेशे देवेशे विघ्नहारिणि ।
वरान् दित्सति शर्वाय किं किं वव्रे सदाशिवः ॥ १ ॥
॥ ब्रह्मोवाच ॥
गणेशवचनं श्रुत्वा शिवोवाक्यमथाऽब्रवीत् ।
स्मृत्वा गजाननं तं तु स्वस्वरूपं वरप्रदम् ॥ २ ॥
॥ शिव उवाच ॥
दशापि नेत्राणि ममाद्य धन्यान्यथो भुजाः पूजनतस्तवाद्य ।
तवानतेः पञ्च शिरांसि धन्यान्यथस्तुतेः पञ्चमुखानि देव ॥ ३ ॥
पृथ्वी जलं वायुरथो दिशश्च तेजश्च कालः कलनात्मकोऽपि ।
नभो रसो रूपमथापि गन्धः स्पर्शश्च शब्दो मन इन्द्रियाणि ॥ ४ ॥
गन्धर्वयक्षाः पितरो मनुष्या देवर्षयो देवगणाश्च सर्वे ।
ब्रह्मेन्द्ररुद्रा वसवोऽथ साध्याः त्वत्तः प्रसूताः सचराचरश्च ॥ ५ ॥
सृजस्यदो विश्वमनन्यबुद्धे रजोगुणात्पासि समस्तमेतत् ।
तमोगुणात्संहरसे गुणेश नित्यो निरीहोऽखिलकर्मसाक्षी ॥ ६ ॥
॥ ब्रह्मोवाच ॥
ततोऽहमब्रुवं देवं गणेशं तं शिवाज्ञया ।
नाम चाकरवं तस्य यत्तच्छृणु महामते ॥ ७ ॥
त्वन्नाम बीजं प्रथमं मातृकाणामोङ्काररूपं श्रुतिमूलभूतम् ।
यतो गणानां त्वमसीह ईशो गणेश इत्येव तवास्तु नाम ॥ ८ ॥
ओमित्यथोक्ते गणनायकेन तुतोष शर्वः प्रददौ वरांश्च ।
यः सर्व कार्येषु तवेश कुर्यात् स्मृतिं तदन्तं स लभेदविघ्नम् ॥ ९ ॥
विना स्मृतिं ते न लभेच्च कोऽपि वाञ्छार्थसिद्धिं कृमिकीटकोऽपि ।
शैवेस्त्वदीयैरथ वैष्णवैश्च शाक्तैश्च सौरेरथ सर्वकार्ये ॥ १० ॥
शुभाशुभे वैदिकलौकिके वा त्वमर्चनीयः प्रथमं प्रयत्नात् ।
यन्मङ्गलं सर्वजनेषु देव सयक्षविद्याधरपन्नगेषु ॥ ११ ॥
तस्येश्वरो मङ्गलमूर्त्तितां त्वं ततो यतो मङ्गल कृत् स्वभक्ते ।
अहं पुराऽनर्चयतस्तवेश त्वय्यस्मृतेर्दैत्यवरस्य युद्धे ॥ १२ ॥
अवन्दनाच्चाप पराभवं तं ततस्तवाङ्घ्रिं शरणं प्रपन्नः ।
क्षमापराधं मम सर्वशक्ते जयं प्रयच्छाखिलजन्यकाले ॥ १३ ॥
ये सर्वथा त्वां न भजन्ति देव जडा दरिद्राः प्रभवन्तु तेऽपि ।
भवन्ति ते भक्तियुता मनुष्याः प्राप्स्यन्ति सिद्धिं निखिलार्थदात्रीम् ॥ १४ ॥
॥ ब्रह्मोवाच ॥
इत्थं निशम्याखिलवाक्यसारवेत्ताऽवदद्वाक्यमिदं गिरीशम् ।
यदा यदा मे स्मरणं विदध्यास्तदाऽन्तिकं तेऽहमियामुमेश ॥ १५ ॥
मन्नामबीजेन निमन्त्रयैकं बाणं तु तेनैव पुरत्रयं तत् ।
निपातयास्मन्महसा महेश कृत्वा स दैत्यं खलु भस्मसात् त्वम् ॥ १६ ॥
ततः स्वनाम्नामवदत् सहस्रं गणाधिपोऽस्मै प्रणताय सम्यक् ।
शिवाय भक्त्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम् ॥ १७ ॥
उवाच चैनं रणकाल एतत् पठस्व दैत्यान्विनिहंसि शीघ्रम् ।
त्रिसन्ध्यमेतस्य जपान्नराणां सिध्यन्ति कामाः सकला अभीष्टाः ॥ १८ ॥
श्रुत्वा तु वाक्यं द्विरदाननस्य तं पूज्य सम्यक् शिव उज्जहर्ष ।
संस्थापयामास महागणेशं प्रासादमुच्चैर्दृढमाशु चक्रे ॥ १९ ॥
सन्तर्प्य देवान् मुनिसिद्ध सङ्घान् दानानि दत्वा द्विजपुङ्गवेभ्यः ।
पुनश्च सम्पूज्य नमश्चकार देवं गिरीशो वरदं गणेशम् ॥ २० ॥
उवाच सर्वान् मणिपूररियं तु विख्यातिमागच्छतु सर्वलोके ।
देवेन सर्वैश्च तथोदितैस्तैरन्तर्दधुस्ते गणनाथ मुख्याः ॥ २१ ॥
अन्तर्हिते मुनिगणे ससुरे गणेशे शर्वोऽप्यगात् स्वनिलयं स्वगणैरूपेतः ।
गन्धर्व यक्ष निवहैरमराङ्गनाभिर्वृत्तं निजं परमुदा गिरिजामुवाच ॥ २२ ॥
श्रुत्वा तदाऽमृतवचः सकलं गिरीशाद् देवेश्वरा मुमुदिरे मुनयः सदाराः ।
योगीश्वराश्च निहतं त्रिपुरं स्वधिष्ण्यममंसताप्यधिगतं गिरिशप्रसादात् ॥ २३ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे शिवस्य वरदानं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें